रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 172, कुल 558 में से
संदर्भ में पढ़ेंदशमः पटलः । १४६
अनियम्य यदा¹ सूतं जारयेत् काञ्जिकाग्नये² ।
जायते निश्चितं भद्रे तदा³ तस्य गतिद्वयम् ॥ २२ ॥
दोलास्वेदेन चावश्यं⁴ स्विदितो हि दिनत्रयम्⁵ ।
वसुभण्डादिभि⁶र्देवि रसराजो न⁷ हीयते ॥ २३ ॥
प्रक्षीणं तु रसं दृष्ट्वा दद्या⁸ व्योमादिकं ततः ।
स्वेदनं च⁹ ततः कार्यं दीयमानस्य मर्दनम् ॥ २४ ॥
रसालिङ्गित आहारः¹⁰ पिष्टिकेत्यभिधीयते ।
तद्द्रुतं रसगर्भे तु जारणं परिकीर्तितम् ॥ २५ ॥
जारणा तन्ममाख्याता तदेवञ्चोपलभ्यते¹¹ ।
जीर्णान्ते रञ्जनं कार्यं रक्तवर्ग¹²गुणेन च ॥ २६ ॥
जीर्णां जार्णन्तु¹³ संरक्तं¹⁴ समहेम्ना तु सारयेत् ।
सारणायन्त्रयोगेन बध्यते सारितो¹⁵ रसः ॥ २७ ॥
(1) M reads यथा, which seems to be incorrect. (2) जालयेत्
काञ्जिकाशय, a variant in K. (3) M reads यथा, which is not correct.
(4) K reads दालास्वेदनतोऽवश्य. M reads डाला in place of दोला.
(5) The portion commencing from दिनत्रयम् and ending in रसराजो न
ही is wanting in K. (6) M reads वसुभट्टादिभि. (7) M has
रसराजेन, which is not accurate. (8) K reads देंया, which is gram.
inc. (9) K reads तु. (10) रस लिङ्गीतकाहार, an incorrect
variant in K. (11) K has नान्यैव नोपलभ्यते. (12) K reads
रक्तवर्णं. (13) M reads जाणौजीर्णे तु. (14) M reads संरक्त
(without अनुस्वार). (15) M has सारता, which seems to be the
error of the scribe.