सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 107, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 107

८४ रसार्णवे
लेपं मूषोदरे¹ दत्त्वा समावर्त्तं तु² कारयेत् ।
म्रियन्ते हीरकास्तत्र द्वन्द्वे सम्यग्ज्वलन्ति च ॥ ८६ ॥
गन्धकं च शिलाधातुं³ भ्रामकस्य मुखं तथा⁴ ।
शशकस्य च दन्तांश्च⁵ बेतसाम्लेन पेषयेत् ॥ ८७ ॥
अनेन सिद्ध⁶कल्केन मूषालेपं⁷ तु कारयेत् ।
अन्धमूषागतं ध्मातं⁸ वज्रं तु म्रियते क्षणात् ॥ ८८ ॥
तेनैव⁹ मिलितं वज्रं तारहेम्नि न संशयः ॥ ८९ ॥
तालकं गन्धकं कान्तं तार्यं कर्पूरटङ्कणम् ।
चिञ्चास्थि¹⁰ मेषशृङ्गं च¹¹ क्षौरजःपरिपेषितम्¹² ।
मूषालेपगतं¹³ ध्मातं वज्रं तु म्रियते क्षणात् ॥ ९० ॥
शरपुङ्खस्य पञ्चाङ्गं¹⁴ पेष्यं क्षौरजसा ततः¹⁵ ।
(1) K reads मूखोदरे, which is incorrect. Vide p. 39, note (11).
(2) K reads सन्नवाका तु. (3) गन्धकस्य शिलाधातु, an incorrect variant
in K. M reads गन्धकस्य शिलाजातु, which is also inc. (4) K has
भ्रामकस्य मुखस्तथा, which is gram. inc. (5) B reads दन्ताश्च, which is not
correct. K reads शशकस्य तु दन्ताश्च, which is also not perfectly correct.
(6) M reads सत्व. (7) Both B and K read मूखालिप्त. Vide p. 39,
note (11). (8) B has not the term ध्मात. K reads मूखागत. (9) B
reads तेनेन, which is evidently an error. After this charana two ślokas
are wanting in M. (10) K reads चिंचास्थि, which is not correct.
(11) B reads मेषशृङ्गं च. (12) K reads परौवेष्टितं, which is inc.
(13) K reads मूखालिपागतं, which is not correct. (14) K has सर्वाङ्गं.
(15) B reads erroneously क्षौरजस ततः. K reads रससमन्वितम्. M. reads
रजसाशतः, which is erroneous.