सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 65, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 65

५८ आयुर्वेदौयग्रन्थमाला । [उपदेशः
वाजीकरः कामदेवरसः ।
मृतसूतं त्रयो भागा भागैकं हाटकं मृतम् ।
कदलीकन्दजैर्द्रवैः शाल्मलीजद्रवैर्दिनम् ॥ २२ ॥
गोक्षीरैश्च दिनं मर्द्यं क्षणैकं पाचयेद्घृतैः ।
तन्मध्ये शर्करां द्राक्षां धात्रीं रम्भाफलं मधु ॥ २३ ॥
गोक्षीरं मुशलीं माषान् कोकिलाक्षस्य बीजकम् ।
सूताचतुर्गुणं क्षिप्त्वा मर्द्यं शाल्मलिजैर्द्रवैः ॥ २४ ॥
तत्सर्वं दिनमेकं तु कामदेवो रसो भवेत् ।
निष्कमात्रं सदा भक्ष्यं गवां क्षीरं पिबेदनु ॥ २५ ॥
मैथुने दृढलिङ्गः स्याद्रावयेद्वनिताकुलम् ।
वाजीकरो रतिकामरसः ।
प्रारम्भरजसा स्त्रीणां मर्दयेद्वससूतकम् ॥ २६ ॥ .
मृतं ताम्रं च तारं च गन्धकं च समं दिनम् ।
सितामध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ २७ ॥
रतिकामरसो नाम कामिनीरमणे हितः ।
वानरीमूलगोधूमं कोकिलाक्षस्य बीजकम् ॥ २८ ॥
माषांश्चैक्षुरसैः सर्वं लोडितं पाचयेद्घृतैः ।
तेनैव वटकाः कार्या नित्यं खादेद्द्वयं द्वयम् ॥ २९ ॥
अनुपानमिदं सिद्धं सेवनाद्रमयेच्छतम् ।
वाजीकरो मदवर्धनरसः ।
शुद्धसूतसमं गन्धं त्र्यहं कह्लारजैर्द्रवैः ॥ ३० ॥
मर्दितं चान्धितं पच्याद्यामं वालुकयन्त्रके ।
रक्तागस्त्यद्रवैर्भाव्यं दिनैकं तु सितायुतम् ॥ ३१ ॥
निष्कमात्रं सदा खादेद्रसोऽयं मदवर्धनः ।
अजस्य वृषणं क्षीरे पक्वं तिलसितायुतम् ॥ ३२ ॥
यथेष्टं भक्षयेच्चानु रमयेत्कामिनीशतम् ।