सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 64, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 64

रसरत्नाकरस्य रसायनखण्डः । ५७
छायायां तत्सितातुल्यं निष्कैकं भक्षयेत्सदा ।
शणमूलं सबीजं च मुशली शर्करा समम् ॥ १० ॥
गवां क्षीरैः पलार्धं तु अनु रात्रौ सदा पिबेत् ।
अनन्तं वर्धते वीर्यं रसोऽयं मदनोदयः ॥ ११ ॥
वाजीकरो मदनेश्वररसः ।
शुद्धसूतसमं गन्धं बदरीचित्रकद्रवैः ।
मर्द्यं चाङ्गेल्लजैर्द्रवैस्तत्खल्वे दिनत्रयम् ॥ १२ ॥
सद्यो हताजमांसस्य पिण्डे न्यस्तं च सीवयेत् ।
तत्पिण्डं तिलतैलेन लोहपात्रे शनैः पचेत् ॥ १३ ॥
यावन्मांसं रक्तवर्णं ततः सूतं समुद्धरेत् ।
त्रिदिनं मुशलीक्वाथैर्भावितं सितया युतम् ॥ १४ ॥
निष्कैकं भक्षयेन्नित्यं रसोऽयं मदनेश्वरः ।
विदारीकन्दचूर्णं तु क्षीराज्येन पलं पिबेत् ॥ १५ ॥
रमयेत्स्त्रीशतं नित्यं तच्चागादन्धतां व्रजेत् ।
वाजीकरः कामकलाख्यरसः ।
मृताभ्रं पारदं स्वर्णं तुल्यं मर्द्यं दिनत्रयम् ॥ १६ ॥
मुशलीत्रिफलाक्वाथैर्वाजिगन्धाकषायकैः ।
कदलीकन्दजैर्द्रवैस्तद्रोलं चान्धितं पुटेत् ॥ १७ ॥
भूधरे दिनमात्रं तु समुद्धृत्याथ मर्दयेत् ।
दिनैकं पूर्वजैर्द्रवैस्तद्वद्रुद्धा पुटे पचेत् ॥ १८ ॥
पुनर्मर्द्यं पुनः पाच्यमेवमष्टपुटैः पचेत् ।
शाल्मलीजातनिर्यासैस्तुल्यं शर्करया सह ॥ १९ ॥
खादेन्निष्कद्वयं नित्यं द्रावयेद्वनिताशतम् ।
गोक्षीरैर्मर्कटीबीजं पलार्धं पाययेदनु ॥ २० ॥
सर्वाङ्गोद्वर्तनं कुर्यात्सयवैः शाल्मलीद्रवैः ।
रसः कामकलाख्योऽयं महावीर्यकरो नृणाम् ॥ २१ ॥