सामग्री पर जाएँ
सर्वकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 972, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 972

अध्याय रामायण आदि का रचना-काल ८९५
वेदशैलावतीर्णेन नीरजस्का मही कृता ।
कलशब्दमहाहंसं महाख्यानपराम्वुजम् ॥
कथाविस्तीर्णसलिलं काष्णं वेदं महाह्रदम् ।
तदिदं भारताख्यानं बह्वर्थमिह विस्तरम् ॥
तत्त्वतो ज्ञातुकामोऽहं भगवंस्त्वामुपस्थितः ।"
इति एतेन उपाख्यानसहितस्य महाभारतस्य वेदव्यासैककर्तृकत्वं सिद्धयति । किञ्च विरोधा-
भावत्वं सकलशास्त्रसम्प्रदायसमन्वितत्वं च ।
सूतसंहितायां अ० १- “व्यस्तवेदतया व्यास इति लोके श्रुतो मुनिः ।
अयं साक्षान्महायोगी व्यासः सर्वज्ञ ईश्वरः ॥
महाभारतमाश्चर्यं निर्ममे भगवान् गुरुः ।” इति
“कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
को ह्यन्यः पुण्डरीकाक्षाद् महाभारतकृद् भवेत् ॥
देवीभागवते अ० १- “अष्टादश पुराणानि कृत्वा सत्यवतीसुतः ।
भारताख्यानमतुलं चक्रे तदुपबृंहितम् ॥”
श्रीमद्भागवते स्कन्ध १ अ० ५-
“स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।
इति भारतमाख्यानं कृपया मुनिना कृतम् ॥”
मत्स्यपु० अ० ५५- “अष्टादश पुराणानि कृत्वा सत्यवतीसुतः ।
भारताख्यानमखिलं चक्रे तदुपबृंहितम् ॥”
“प्रकाशो जनितो लोके महाभारतचन्द्रमाः ।” इति
स्कन्दपु० प्रभासखण्ड अ० २
‘सत्यवतीसुतः•••• •••• •••• •••• •••• •••• ।
भारताख्यानमकरोद् वेदार्थैरुपबृंहितम् ॥
लक्षेणैकेन तत् प्रोक्तं द्वापरान्ते महात्मना ।”
शौनकोक्तचरणव्यूहपरिशि० ९
“लक्षं तु चतुरो वेदा लक्षं भारतमेव च ॥”
गीताध्यायान्ते इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्याम् इत्यादि ।
आर्यासप्तशत्यां गोवर्द्धनाचार्यकृतायाम् (१०८०-११३० मध्ये)
“व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।
भूषणतयेव संज्ञां तदेकतां भारती वहति ॥”
एतानि सर्वाणि वचनानि महाभारतस्य लक्षग्रन्थात्मकतां व्यासैककर्तृकतां महाभारतभारत-
नामभ्यामेक एव ग्रन्थः इत्यादिकं ऐककण्ठ्येन निःसंशयेन च उद्घोषयन्ति ।
उपर्युक्त विविध पुराणवचनों में कहा गया है कि लक्ष श्लोकों का महाभारत व्यासकृत है । व्यास सर्वज्ञ
विष्णु के अवतार ही हैं । महाभारत सब वेदों का एवं शास्त्रों का समन्वित सार है ।