रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 357, कुल 1049 में से
संदर्भ में पढ़ें२८० रामायणमीमांसा अष्टम
पाद्मं च पञ्चपञ्चाशत्सहस्राणि निगद्यते । ( २ पाद्म में ५५००० श्लोक )
तृतीयं वैष्णवं नाम त्रयोविंशतिसंख्यया । ( ३ वैष्णव में २३००० श्लोक )
चतुर्थं वायुना प्रोक्तं वायवीयमिति स्मृतम् ।
शिवभक्तिसमायोगाच्छैवं तच्चापराख्यया ॥
चतुर्विंशतिसंख्यातं सहस्राणि तु शौनक । ( ४ वायुपुराण में २४००० श्लोक )
चतुर्भिः पर्वभिः प्रोक्तं भविष्यं पञ्चमं तथा ।
चतुर्दशसहस्राणि तथा पञ्चशतानि च ॥ ( ५ भविष्य १४५०० श्लोक )
मार्कण्डं नवसाहस्रं षष्ठं तत्परिकीर्तितम् ॥ ( ६ठा मार्कण्डेय ९००० श्लोक )
आग्नेयं सप्तमं प्रोक्तं सहस्राणि तु षोडश । ( ७वां आग्नेय १६००० श्लोक )
अष्टमं नारदीयं तु प्रोक्तं वै पञ्चविंशतिः । ( ८ वां नारदीय २५००० श्लोक )
नवमं भागवतं नाम भागद्वयविभूषितम् ।
तत्राष्टादश साहस्रं प्रोच्यते ग्रन्थसंख्यया । ( ९वां भागवत १८००० श्लोक )
दशमं ब्रह्मवैवर्तं तावत्संख्यमिहोच्यते । ( १०वां ब्रह्मवैवर्त १८००० श्लोक )
लैङ्गमेकादशं ज्ञेयं तथैकादशसंख्यया ।
भागद्वयविरचितं तल्लिङ्गमृषिपुङ्गव ॥ ( ११ वां लैङ्ग ११००० श्लोक )
चतुर्विंशतिसाहस्रं वाराहं द्वादशं विदुः ॥ ( १२ वां वाराह २४००० श्लोकं )
विभक्तं सप्तभिः खण्डैः स्कान्दं भाग्यवतांवर ।
तदेकाशीतिसाहस्रं संख्यया वै निरूपितम् ॥ ( १३ वां स्कान्द ८१००० श्लोक )
ततस्तु वामनं नाम चतुर्दशतमं स्मृतम् ।
संख्यया दशासाहस्रं प्रोक्तं कुलपते पुरा ॥ ( १४ वां वामन पुराण १०००० श्लोक )
कौर्मं पञ्चदशं प्राहुर्भागद्वयविभूषितम् ।
दशसप्तसहस्राणि पुरा संख्यायते कलौ ॥ ( १५ वां कौर्म १७००० श्लोक )
मात्स्यं मत्स्येन यत्प्रोक्तं मनवे षोडशं क्रमात् ।
तच्चतुर्दशसाहस्रं संख्यया वदतांवर ॥ ( १६ वां मत्स्य १४००० श्लोक )
गारुडं सप्तदशमं स्मृतं चैकोनविंशतिः । ( १७ वां गारुड १९००० श्लोक )
अष्टादशं तु ब्रह्माण्डं भागद्वयविभूषितम् ।
तच्च द्वादशसाहस्रं शतमष्टसमन्वितम् ॥ ( १८ वां ब्रह्माण्ड १२८०० श्लोक )
यहाँ पुराणों को ब्रह्मप्रोक्त कहा गया है ।
इदं ब्रह्मपुराणस्य सुलभं सौरमुत्तमम् ।
संहिंताद्वयसंयुक्तं पुण्यं शिवकथाश्रयम् ॥
आद्या सनत्कुमारोक्ता द्वितीया सूर्यभाषिता ।
सनत्कुमारनाम्ना हि तद्विख्यातं महामुने ॥
द्वितीयं नारसिंहं च पुराणे पाद्मसंज्ञिते ।
शौनकेयं हि तृतीयं पुराणे वैष्णवे मतम् ॥
बार्हस्पत्यं चतुर्थं च वायव्यं सम्मतं सदा ।
दौर्वाससं पञ्चमं च स्मृतं भागवते सदा ॥