राजतरंगिणी (महाकवि कल्हण - सम्पूर्ण काश्मीर व भारत राजवंश इतिहास)
Rajatarangini of Kalhana with Hindi Translation
महाकवि कल्हण / पं. रघुनाथ सिंह द्वारा
पृष्ठ 126, कुल 984 में से
संदर्भ में पढ़ेंप्रथम तरंग ४७
युद्ध के पश्चात् भगवान् के चक्र द्वारा जलोद्भव का
मुंड छिन्न हो गया ।
नीलमत पुराण में वारहमूला के पास जल
निकालने की तरफ संकेत किया गया है ।
नीलाम्बरः काञ्चनबद्धमौलिः संपूज्यमानस्त्रिदशैः समेतैः।
विदारयामास स लाङ्गलेन हिमाचलं शैलवरं पृथिव्याम् ॥
—168।२२०
विदारिते पर्वतराजराजे विनिर्ययौ तज्जलमाशुवेगात् ।
वेगेन शब्देन च सर्वभूतान् सन्त्रासयानं कुटिलैस्तरंगैः॥
२२१
हिमाचलाभैर्गगनम् स्पृशद्भिः सम्प्लावमानम्
गिरिमस्तकानि ॥ —161।२२१, २२२
अस्मिन्वैवस्वते प्राप्ते राजन् मन्वन्तरे किल ।
मारीचाय ददौ दक्षः कश्यपाय त्रयोदश ॥
—46।६७-७०
एतस्मिन्नेव काले तु कश्यपो भगवान् ऋषिः ।
तीर्थयात्राप्रसंगेन चचार सकलां महीं ॥
—81।१२३-१२४
तीर्थयात्रागतं श्रुत्वा कश्यपं पन्नगाधिपः ।
नीलो जगाम तं द्रष्टुं तीर्थे कनखले तथा ॥
—96।१३९
उपविष्टस्तदा नागो व्यज्ञापयत कश्यपम् ।
पितरं तपसां स्थानं यत्तच्छृणु नराधिप ॥
—99।१४२
उत्तीर्य च महाभागो विपाशां पापनाशिनीम् ।
दृष्टवान् सकलं देशं तदा शून्यं स कश्यपः ॥
—133।१७६
द्रष्टव्यैष कश्यपः प्रायाच्छ्रुत्वास्तान् पुरन्दरः ।
ततो देवगणैः सार्धं यान्यस्मिन्केशवान्तिकम् ॥
—149।२०१
तस्योदगाश्रमं चक्रे ब्रह्मा देववरः स्वयम् ।
पश्चार्धे चाश्रमं चक्रे कश्यपो भगवानृषिः ॥
—180।२३३-२३४
देवर्षिनागमुख्येष्वथितिष्ठत्स्वेव च कश्यपः ।
उवाच वरदं विष्णुं हस्तौ बद्ध्वा पुरः स्थितः ॥
—198।२६०
वसतां रमणीयश्च पुण्यश्च भविता तथा ।
कश्यपे ब्रुवतीत्येवं नागा वचनमब्रुवन् ॥
—199।२६३-२६४
न वय मानुषैः सार्धं वसामो मुनिपुंगव ।
तानुवाच तथा क्रुद्धः कश्यपो वै प्रजापतिः ॥
— 201।२६६-२६
एवं उक्ते कश्यपेन नीलः प्राञ्जलिरब्रवीत् ।
एते क्रोधवशा ब्रह्मन्नाभिजानन्ति किंचन ॥
—202।२६८-२६९
कश्यपस्तमुवाचाथ ऋषिः परमधार्मिकः ।
वालुकार्णवमध्ये तु द्वीपः षड्योजनायतः ॥
—203।२७६-२७७
कः प्रजापतिरद्दिष्टः कश्यपश्च प्रजापतिः ।
तेनेदं निर्मितं देशं काश्मीराख्यं भविष्यति ॥
—218।२९१-२९२
एवं निष्पिष्टान् काश्मीरान्दृष्ट्वा हृष्टस्तु कश्यपः ।
आराध्य शंकरं देवमुमां देवीमचोदयत् ॥
—228।३०५
अदितिर्देवमाता च कश्यपेन प्रचोदिता ।
त्रिकोटीनांमतो भूत्वा नदीदेशे प्रपर्पति ॥
—231।३०८
शक्रपत्नी शची या च सा च कश्यपचोदिता ।
नाम्ना इयं यथा याता देशेऽस्मिन् पापसूदनी ॥
—232।३०९
एवं कश्यपवाक्येन देयदानवमातरः ।
देवपत्न्यस्तथा पुण्याः सरिद्रूपत्वमागताः ॥
—234।३११
तत्र कश्यपवाक्येन तीर्थसागरनिम्नगाः ।
काश्मीराय तदा जग्मुः सान्निध्यं पुण्यवृद्धये ॥
—235।३१२