रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 581, कुल 735 में से
संदर्भ में पढ़ें५२२ रघुवंशमहाकाव्ये
तामिति। आस्थितविष्टरोऽधिष्ठितासनो मुनिः हे वत्से ! भर्तुर्दृष्टिविषये समक्षं
स्ववृत्ते स्वचरिते विषये लोकं निःसंशयं कुरु इति तां सीतामशाच्छास्ति स्म ।
भाषार्थ—आसन पर बैठे हुए वाल्मीकि मुनि ने सीता जी से कहा कि बेटी !
जनता के मन में तुम्हारे चरित्र के विषय में जो सन्देह है, वह तुम अपने पति के
आगे मिटा दो ॥ ७९ ॥
अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः ।
आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥ ८० ॥
अन्वयः—वाल्मीकिशिष्येण आवर्जितं पुण्यं पयः आचम्य सीता सत्यां
सरस्वतीम् उदीरयामास ।
अथेति । अथ वाल्मीकिशिष्येणावर्जितं दत्तं पुण्यं पूतं पयो जलमाचम्य सीता
सत्यां सरस्वतीं वाचमुदीरयामासोच्चारयामास ।
भाषार्थ—इसके बाद वाल्मीकि मुनि के शिष्य के द्वारा दिये गये पवित्र
जल से आचमन करके सीता जी ने यह सत्य वचन कहा ॥ ८० ॥
वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे ।
तथा विश्वम्भरे देवि मामन्तर्धातुमर्हसि ॥ ८१ ॥
अन्वयः—वाङ्मनःकर्मभिः पत्यौ मे व्यभिचारः न यथा हे विश्वम्भर देवि !
माम् अन्तर्धातुम् अर्हसि ।
वाङ्मन इति । वाङ्मनःकर्मभि. पत्यौ विषये मे व्यभिचारः स्खालित्यं न
यथा नास्ति यदि तथा तर्हि विश्वं बिभर्तीति विश्वम्भरा भूमिः । “संज्ञायां भृतृः०”
इत्यादिना खच्प्रत्ययः । “अरुर्द्विषद०” इत्यादिना मुमागमः । हे विश्वम्भरे देवि !
मामन्तर्धातुं गर्भे वासयितुमर्हसि ।
भाषार्थ—यदि मैंने मन, वचन और कर्म किसी प्रकार से भी अपना पातिव्रत्य
भंग नहीं किया हो तो, हे मातां विश्वम्भरे ! तुम मुझे अपनी गोद में ले लो ॥८१॥
एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवादुभुवः ।
शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥ ८२ ॥
अन्वयः—साध्व्या तया एवम् उक्ते (सति) सद्यो भवात् भुवः रन्ध्रात् शात-
ह्रदं ज्योतिः इव प्रभामण्डलं उद्ययौ ।
एवमिति । साध्व्या पतिव्रतया तया सीतयैवमुक्ते सति सद्योभवाद् भुवो
रन्ध्राच्छातह्रदं वैद्युतं ज्योतिरिव प्रभामण्डलमुद्ययौ ।