रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 447, कुल 735 में से
संदर्भ में पढ़ें३८८ रघुवंशमहाकाव्ये
येषां संजातानि कुवलयिताः । "तदस्य सञ्जातं तारकादिभ्य इतच्" इती-
तच्प्रत्ययः। कुवलयिता गवाक्षा यस्यास्तां पुरमयोध्यार्मावशत्प्रविष्टवान् ।
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
सीताविवाहवर्णनं नामैकादशः सर्गः ॥ ११ ॥
भाषार्थ—इसके बाद शिव के समान राजा दशरथ ने कुछ रातें उस मार्ग
में बिताईं, जहाँ उनके लिए सुन्दर खेमे तने हुए थे । फिर वे उस अयोध्या नगरी
में पहुँचे, जहाँ सीताजी को देखने के लिए उत्सुक नगर की सुन्दर स्त्रियों की
आँखें झरोखों में कमल के समान दिखाई पड़ रही थीं ॥ ९३ ॥
यह त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्री द्वारा लिखित
अन्वय और चन्द्रकला नाम की हिन्दी टीका में
रघुवंश महाकाव्य का सीताविवाह नामक
दशम सर्ग समाप्त हुआ ॥ ११ ॥
द्वादशः सर्गः
वन्दामहे महोद्दण्डदोर्दण्डौ रघुनन्दनौ ।
तेजोनिर्जितमार्तण्डमण्डलौ लोकनन्दनौ ॥
निर्वृष्टविषयस्नेहः स दशान्तमुपेयिवान् ।
आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि ॥ १ ॥
अन्वयः—निर्वृष्टविषयस्नेहः दशान्तम् उपेयिवान् स उषसि प्रदीपार्चिः इव
आसन्ननिर्वाणः आसीत् ।
निर्वृष्टेति । स्नेहयन्ति प्रीणयन्ति पुरुषमिति स्नेहाः । पचाद्यच् । स्निह्यन्ति
पुरुषा येष्विति वा स्नेहाः । अधिकरणार्थे घञ् । विषयाः शब्दादयस्त एव स्नेहा
निर्वृष्टा भुक्ता विषयस्नेह। येन स तथोक्तः । 'निर्वेशो भृतिभोगयोः' इति विश्वः ।
दशा जीवनावस्था तस्य अन्तः वार्धकमृपेयिवान्स दशरथः । उषसि प्रदीपार्चिरिव
दीपज्वालेव आसन्न निर्वाणः मोक्षः यस्य स तथोक्त आसीत् । अर्चिः पक्षे तु विषयो
देश आश्रयः भाजनमिति यावत् । 'विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च' इति