पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
५६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
क्रमवचनमपि विपरीतक्रमापेक्षया ।
(३) कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च ।
यः क्रमाद्व्युत्क्रमाच्चैव स हरिः पर उच्यते ॥
इत्यत एव भाल्लवेयश्रुतिवचनात् ॥
(४) अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः ।
इति क्रमेण भगवान् सृष्टिसंहारकृद्विभुः॥ इति च पाद्मे॥
(५) पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च ।
ष्यर्थः । आवृत्तस्य विपर्ययेणेत्यस्यार्थः विपरीतेति । प्रवृत्तं यत इति
शेषः । अस्यातो लयक्रमः विपर्ययेण उत्पत्तिक्रमवैपरीत्येनेवेति सौ
त्रपदोक्तसाध्येनान्वयः ॥
(३) कुतः क्रमश्रुतेरर्थान्तरकल्पनमित्यतोऽपि प्रवृत्तं अत इति प
दं तुशब्दार्थावधारणान्विततयाऽनूद्य व्याचष्टे—कर्तेति ॥ कर्तेत्यतः
प्राक् अतएवेत्युत्तरवचनात् कुत इत्युपस्कार्यम् । यस्यामेव श्रुतौ क्र
माल्लयः श्रूयते, तस्यामेव वचनान्न त्वन्यस्यामित्येवशब्दार्थः । यः 'प्रा
णादिकस्य' ब्रह्मादिकस्यास्य जगतः क्रमात्कर्ता यश्च 'भूम्यादिक
स्यास्य' व्युत्क्रमाद्धन्ता स हरेरेव परो, न त्वन्य इत्यर्थः । अनेनोत्प
त्तावुत्तमक्रमः, लये त्वधमक्रम इति सूचितम् ॥
(४) ननु श्रुतित्वाविशेषात् व्युत्क्रमश्रुत्या क्रमश्रुतेः कुतो बाधः,
विपरीतमेवं किं न स्यादित्यतोऽतःशब्दसूचितां स्मृतिमाह—अनुरूप
इति ॥ योजना तु—क्रमो द्विविधः अनुरूपः प्रतिरूपश्चेति । तत्र सृष्टौ
यः क्रमः सोऽनुरूपः । उत्तमादितारतम्यानुसारित्वात् । यो लये क्रमः
स प्रतिरूपः उत्तमादितारतम्यप्रतिकूलत्वात् । एवमुभयविधक्रमेण
'विभुः' समर्थो भगवान् सृष्टिसंहारकर्तेति । पाद्म इत्यनन्तरं वचना
दित्यनुषज्यते । अस्य सावकाशक्रमश्रुतेर्निरवकाशव्युत्क्रमपदघटित
श्रुत्या बाधो युक्त इत्याहृतसाध्यवाक्येनान्वयः ॥
(५) व्युत्क्रमालयाङ्गीकारे लोकविरोधापातान्नासौ युक्तो, लोके
प्रायेण पूर्वोत्पन्नानां पित्रादीनां प्रथमं लयदर्शनादित्यतः प्रवृत्तमतः
शब्दावृत्त्या उपपद्यते चेत्यंशं व्याचष्टे—पूर्वेषामिति ॥ पूर्वोत्पन्नानामि
त्यर्थः । उपपद्यत इत्यतः प्राक् लये क्रमो विपर्ययेणेति सूत्रांश आवृ
त्या संयोज्यः। उपपद्यत इत्यस्य सामर्थ्याधिक्ययुक्त्या सिद्ध्यतीत्यर्थः।
यद्वा-उपपद्यत इत्यस्य युज्यत इत्यर्थः। सामर्थ्याधिक्यं त्वतश्शब्दार्थः।
[ अधि - ८. सू - १४. ] दीपिकासहितम्. ५६७
( ६ ) वामने च—
पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् ।
सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ॥
न केवलं श्रूयते, किन्तु युज्यते चेति समुच्चये चशब्दः । तथा च लौकि-
कानां प्रायशशतवर्षजीवित्वादिरूपस्य बलज्ञानादिरूपस्य वा सामर्थ्य-
स्य साम्यात् क्रमाल्लयेऽपि नासावलौकिकतत्त्वदेवतालये भवति, यतः
पूर्वोत्पन्नानां सामर्थ्याधिक्यादुत्तरेषां तदभावात्, एवं च लौकिकविरोध-
स्यैष गुणवादिति भावः । पूर्वोत्पन्नेषु सर्वत्र उत्तरोत्पन्नापेक्षया साम-
र्थ्याधिक्यमस्तीति ज्ञापनाय द्विर्वचनम्। अनेन—यतः ‘क्रमस्तु’ क्रमवच-
नमपि ‘विपर्ययेण’ विपरीतक्रमापेक्षया प्रवृत्तमतो लये क्रमः ‘विपर्यये-
ण तु’ उत्पत्तिक्रमवैपरीत्येनैव। कुतोऽर्थान्तरकल्पनं क्रमश्रुतेः? अत एव व्यु-
त्क्रमाल्लयश्चेति श्रुतेरेव । तथाऽपि क्रमश्रुतेः कुतो बाधः श्रुतित्वाविशे-
षात् विपरीतं किं न स्यात् । अत एव सावकाशत्वादेव । न च लोक-
विरोधः । यत उपपद्यते चायं व्युत्क्रमो युज्यते च । कथम्? अतः
सामर्थ्याधिक्यात् । न केवलं श्रुत्योच्यते व्युत्क्रमः किन्तु उपपद्यते
चेति सूत्रार्थ उक्तो भवति ॥
( ६ ) ननु पूर्वोत्पन्नानां सामर्थ्याधिक्यमेव कुतः ? येन पश्चाल्लयः
स्यादित्यत आह—वामने चेति ॥ सामस्त्यं वीप्सार्थः । तथा च यतः
‘पूर्वे पूर्वे’ आदिसृष्टौ पूर्वोत्पन्नेषु चतुर्मुखादितत्त्वदेवेषु विष्णोः ‘स-
न्निधानं' सन्निधिः ‘क्रमाधिकं' तारतम्यक्रमेणाधिकं अत एव तेषां
पूर्वोत्पन्नानां पश्चादुत्पन्नापेक्षया ‘सामर्थ्याधिक्यम्' बलज्ञानशक्त्याधि-
क्यमेवास्ति । न केवलमेतावत्, किन्तु तेषां ‘व्याप्तिः' अण्डाद्बहिः
स्वस्वाभिमन्यमानपर्यन्तं देहतो व्याप्तिरपि तारतम्यक्रमेणाधिकैव,
न न्यूना समा च । यत एवं अतस्तेषां पश्चादेव लयो न कदाचित्पूर्व,
नात्र संशय इत्यर्थः । तथाशब्द उपमायां समुच्चये वा। तेन पश्चादुत्प-
न्नेषु उक्तवैपरीत्यं च सिध्यति । ‘पूर्वादिभ्यो नवभ्यो वा' इति सर्वना-
मसंज्ञायां विकल्पानुशासनात् तदभावपक्षे पूर्व इत्येतत्सप्तम्यन्तं, तद्भा-
वपक्षे तु प्रथमाबहुवचनमिदम् । न च तथात्वे सन्निधानमित्यस्यान-
न्वयः । सन्निधीयते विष्णुरत्रेतिव्युत्पत्त्याऽस्य प्रतिमापरत्वात् । तथा-
त्वे ‘पूर्वे पूर्वे’ पूर्वपूर्वमुत्पन्नास्तत्त्वदेवाः यतो विष्णोः ‘क्रमाधिकं स-
न्निधानं' क्रमेणाधिकप्रतिमारूपा इति योजना । इति वामन इत्यन्व-
५६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः ॥ इति च ॥ १४॥
----------------- ⁂ -----------------
९. अधिकरणम् ॥
( १ ) सू- ॐ ॥ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादि-
ति चेन्नाविशेषात् ॥ ॐ ॥ १५ ॥
'प्राणान्मनो मनसश्च विज्ञानम्' 'यच्छेद्वाङ्मनसी
प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि' (कठ. ३ - १३.) इति
लिङ्गाद्विज्ञानमनसी अन्तरा विपरीतक्रम इति चेत्—
थः । वचनादित्यत्राप्यनुषज्यते । न सामर्थ्यात्क्रियासिद्धिरित्यध्याहृ-
तेनान्वयः ॥ ८ ॥
इति विपर्ययाधिकरणम् ॥
—: ۞ :—
९. अधिकरणम् ॥
( १ ) अत्राधिकरणे पूर्वोक्तव्युत्क्रमेण लये विज्ञानादौ काँचिदप-
वादशङ्का निराक्रियते । पूर्वपक्षस्य सूत्र एवोक्तत्वात् तत्पाठित्वा पूर्व-
पक्षांशं तावद्व्याचष्टे—अन्तरेति ॥ तल्लिङ्गादित्येतच्छ्रुत्युक्तक्रमादुप-
त्तिक्रमाल्लयाख्यलिङ्गादित्यर्थः । यद्वा— इत्येतद्रूपालिङ्गदर्शनादित्यर्थः ।
मनसः पूर्वोत्पन्नत्वं 'प्राणान्मनः' इति श्रुत्युदाहरणेन तस्य पूर्वमेव
लये 'यच्छेत्' इति श्रुत्युदाहरणेन चोभयोरसिद्धिः परिहृता । पूर्व-
पक्षे प्राणात् 'मनो' मनस्तत्त्वं जातं ततो विज्ञानतत्त्वं जातमित्यर्थः ।
सिद्धान्ते तु—मुख्यप्राणान्मनोरूपेन्द्रियं, तस्माद्वृत्तिरूपं विज्ञानं उत्प-
न्नमित्यर्थः । यच्छेद्दिति काठकवाक्ये पूर्वपक्षे मनश्शब्दस्तत्त्वपरः ।
सिद्धान्तेऽर्थस्तु—'प्राज्ञो' ज्ञानी 'वाक्' वाक्तत्त्वं तदभिमानिनी उ-
मा 'मनसि' मनस्तत्त्वे तदभिमानिनि रुद्रे 'यच्छेत्' उपरेमेत्तद्वश-
त्वात्तत्र लीयत इति स्मरेदिति यावत् । 'तत्' मनः 'ज्ञान आत्मनि'
विज्ञानतत्त्वाभिमानिन्यां वाण्यां लीयत इति ध्यायेदिति । प्रमेयदीपे
तु—'यच्छेत्' नियच्छेदिति काठकभाष्यानुरोधात् 'वाक्' वाचं म-
नसि 'यच्छेत्' तन्नियतां ध्यायेत् वाग्देवतां मनोदेवताधीनतया चि-
न्तयेदिति विपरिणामाश्रयेण अध्याहारं लयपरत्वं च विना व्याख्यात-
म् । अत एव तत्त्वप्रदीपकारोऽपि वाचं मनसि यच्छेत इत्येवाह । मन
[अधि - ९. - सू- १६.] दीपिकासहितम्. ५६९
(२) न, विशेषप्रमाणाभावात् ॥ १५ ॥
(३) ॥ सू-ॐ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भा
क्तस्तद्भावभावित्वात् ॥ ॐ ॥ १६ ॥
'मनसश्च विज्ञानम्' इति व्यपदेशश्चराचरेष्वालोच
सीति दीर्घश्छान्दसः। वाङ्मनसी परस्परं 'यच्छेत्' एकैकञ्चैकैके
यच्छेत् इति व्याख्यानं त्वाहृतग्रन्थविरुद्धम् । हेत्वंशं व्याख्याय पूर्व
पक्षप्रतिज्ञांशं व्याचष्टे—विज्ञानमनसी इति । तत्त्वे इति शेषः । द्विती
याद्विवचनमेतत्। 'अन्तरा' विना। विपरीतक्रम इत्यनेन क्रमेणेत्येतदुक्ता
र्थं, अन्येषां लय इत्यादौ ग्राह्यम् । तेन सूत्रे लय इति शेषो दर्शितः ॥
(२) सिद्धान्तांशे व्याचष्टे—नेति ॥ विज्ञानमनस्तत्त्वे विना विप
रीतक्रमेण लय इत्युक्तं नेत्यर्थः । कुतो नेत्यतः प्रवृत्तं अविशेषादित्येत
द्विशेषधर्मरहितत्वादित्यन्यथाप्रतीतिनिरासाय व्याचष्टे—विशेषेति ।
सङ्कोचकप्रमाणाभावादित्यर्थः । यद्वा-विज्ञानमनस्तत्त्वयोर्यथोत्पत्ति
लय इति विशेषप्रमाणाभावादित्यर्थः । ननु सर्वेषामपि विपरीतक्रमेणै
व लय इत्यत्रापि प्रमाणं नास्ति । तथा च साम्यमेवेत्यतोऽप्याह—वि
शेषेति । अभावादिति विच्छेदः । तथा च सर्वे वा एतत्क्रमादुत्पद्यते
क्रमाद्विलीयते इति विशेषप्रमाणाभावादित्यर्थः । अनेन नाविशेषादि
त्येकपदं सूचितम् । अथ वा—अभावादित्येव छेदः । तथात्वे सर्वं वे
त्यविशेषप्रमाणाभावादित्यर्थः ॥
(३) नन्वस्त्येवोक्तं लिङ्गदर्शनं केषां चित्क्रमाल्लयः, केषां चिद्युत्क्रम
मादित्यत्र विशेषप्रमाणरूपमतः कथं विशेषप्रमाणाभाव इत्याशङ्कां परि
हरत्सूत्रमुपन्यस्य व्याचष्टे—चराचरेति ॥ मनसश्च विज्ञानमिति व्यप
देश इत्यनेन तद्व्यपदेश इत्येतत् स चासौ व्यपदेशश्च तद्व्यपदेशो
मनो विज्ञानमिति शब्द इति व्याख्यातम् । 'चराचरेषु' जङ्गमस्थाव
रेषु । विषयसप्तमीयम् । इदं चराचरेषु व्यपदेशश्चञ्चलान्तःकरणाव
बोधरूपचरतत्त्वरूपांचरविषयको व्यपदेश इति चराचरेष्वालोचना
दिति चोभयान्वयि । पूर्वत्रान्वयेन चराचरव्यपाश्रयो व्यपदेश इत्येत
द्व्याख्यातम् । चराचरेष्वालोचनाद्विज्ञानं भवतीत्यनेन च तद्भावभा
वित्वादित्यंशः तस्मिन् चराचरविषये तस्य मनसो भावेनालोचनेन त
स्यावबोधस्य वृत्तिज्ञानस्य भावित्वात् उत्पद्यमानत्वादिति व्याख्या
तः। यद्वा—चराचरेष्वालोचनादित्यनेन चन्द्रिकारीत्या चराचरव्य
७२
`
Wait!
"भागापेक्षया स्यात्" इति वदता सूत्रस्थः "तु" शब्दः, अथवा "भाक्त" शब्दः?
Wait, does the sutra have "भाक्तः"?
Wait, let's look at BS 2.3 in Madhva:
Wait! BS 2.3.17:
Let's list the sutras in Madhva 2.3:
- न वियदश्रुतेः
- अस्ति तु
- गौण्यसम्भवात्
- शब्दाच्च
- स्याच्चैकस्य ब्रह्मशब्दवत्
- प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः
- यावद्विकारं तु प्रभागो लोकवत्
- एतेन मातरिश्वा व्याख्यातः
- असम्भवस्तु सतोऽनुपपत्तेः
- तेजोऽतस्तथा ह्याह
- आपः
- पृथिव्यधिकाररूपशब्दान्तरेभ्यः
- तदभिध्यानादेव तु तल्लिङ्गात्सः
- विपर्ययेण तु क्रमोऽत उपपद्यते च
- अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्
- चरा
[ अधि - १०. सू - १७. ] दीपिकासहितम्. ५७१
विज्ञानतत्त्वात्तु मनो मनस्तत्त्वाच्च खादिकम् ।
एवं बाह्या परा सृष्टिरन्तस्तद्व्यक्त्यपेक्षया ॥
विपरीतक्रमो ज्ञेयो यस्मादन्ते हरेर्दृशिः ॥ इति ॥ १६ ॥
१०. अधिकरणम् ॥
( १ ) सू— ॐ ॥ नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॥ ॐ ॥ १७ ॥
का च । अथ यत्र क्वचित्त्तत्त्वानामेव अवरस्य पूर्वत्वमित्येवंरूपो विप-
रीतक्रमः श्रूयते, तत्र कथमित्यतस्तस्या विषयमाह—अन्तरिति । 'वि-
परीतक्रमः' परादित्युक्तापेक्षया विपरीतक्रमोत्पत्तिश्रुतिः 'प्राणान्मनोम-
नसश्च विज्ञानम्'इत्येवमादिरूपा अन्तः ब्रह्माण्डस्य देहस्य चान्तस्तत्त्वा-
भिव्यक्तौ ज्ञानिनां तदापरोक्ष्ये च क्रमापेक्षया च प्रवृत्तेत्यर्थः । यथो-
क्तं तत्त्वप्रदीपे—यस्मादवरेषा
५७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
' स इदं सर्वं विलाप्यान्तस्तमसि निलीनस्तद्विलाप्य
व्युत्तिष्ठते स इदं सर्वं विसृजति विलापयति विस्था
पयति प्रस्थापयत्याच्छादयति प्रकाशयति विमोचय
त्येक एव' ( ) इति श्रुतेः परमात्माऽपि न
लीयते अश्रुतत्वाद्ब्रह्मलयस्य ।
( २ ) निलीनशब्देनापिहितत्वमुच्यते । तुच्छ्येनाभ्वपि
हितं यदासीत् , ( ऋ.१०-१२९-३. ) इति श्रुतेः ।
ते। तत्र सूत्रमुपन्यस्य पूर्वपक्षं सूचयन् व्याचष्टे—नेति ॥ श्रुतेरित्यनेन
सूत्रे श्रुतेरित्यपिपदच्छेदः सूचितः। परमात्माऽपि लीयते इति नेत्यर्थः।
न केवलं पृथिव्यादिरित्यपिशब्दार्थः। अनेन 'आत्मा चेत्यन्वितश्चशब्दो
ऽप्यर्थतयाऽपि व्याख्यातः । तथा 'तमसि निलीनः' इति
श्रुतेः चेतनत्वयुक्तेश्च परमात्माऽपि लीयत इति सयुक्तिकपूर्वपक्ष
श्च सूचितः । सृष्ट्याद्यनेककर्तृत्वरूपब्रह्मलिङ्गप्रतिपादक 'स इदम्' इ
त्यादिवाक्यशेषोदाहरणं तु निलीनश्रुतेरीश्वरैकविषयत्वेन निरवकाश
त्वोपपादनाय । 'सः' एक एव परमात्मा 'इदं सर्वं' जगद्विलाप्य
चित्प्रकृतिरूपोदकात्मकेन तमसाऽऽच्छाद्य संहृत्य स्वयं तमस्यन्तर्नि
लीनः प्रकृतावाच्छन्नोऽथ तत्प्रकृतिरूपं तमो विलाप्याऽच्छाद्य स्वयं
'व्युत्तिष्ठते' प्रादुर्भवति । अथ स इदं जगत्सृजति। सृष्ट्वा च विविधं
'स्थापयति' स्थितिं प्रापयति। अथ 'विलापयति' संहारयति 'प्र
स्थापयति' प्रेरयति 'आच्छादयति' अज्ञानेनावृतं करोति 'प्रकाश
यति' जीवकर्तृकानुभवेन जीवं संयोजयति 'विमोचयति' स्वप्राप्ति
तबन्धादित्यर्थः । सर्वत्रान्वयार्थं स इति द्विरुक्तिः । नेत्यनेन सिद्धान्त
प्रतिज्ञाया उक्तत्वात् तत्राश्रुतेरिति पदच्छेदेनोक्तं हेतुं योजयति—अ
श्रुतत्वादिति । 'तद्विलाप्य व्युत्तिष्ठते' इत्याद्युक्तयोदाहृतश्रुतितोऽपि
ब्रह्मलयो नेति ज्ञायते । न चान्यतो ब्रह्मलयः श्रुतः । अतः कस्यामपि
श्रुतौ ब्रह्मलयस्याश्रुतत्वादित्यर्थः । परमात्मनः प्रकृतत्वात्तल्लयस्येत्ये
तावता पूतौ ब्रह्मेत्युक्तिः कालापरिच्छिन्नत्वरूपयुक्तिसूचनाथौ ॥
( २ ) नन्वन्तस्तमसि निलीन इति ब्रह्मलयस्य श्रुतत्वात्कथमुच्य
ते अश्रुतत्वमित्यत आह—निलीनेति ॥ अपिहितत्वमाच्छादितत्वम् ।
उपलक्षणमेतत् । इतरादृश्यत्वमित्यपि द्रष्टव्यम् । अतएव पैङ्गिश्रुता
वदृश्यत्वमुच्यते । यथोक्तं बृहद्भाष्ये—
[ अधि - १०. - सू - १७. ] दीपिकासहितम्. ५७३
' स एतस्मिम् स्तमासि निलीनः प्रकृतिं पुरुषं कालं
चानुपश्यति कश्चन ' इति पैङ्गिश्रुतिः ।
(४) ' नित्यो नित्यानां चेतनश्चेतनानाम् ' ( कठ. ५-१३. )
' स नित्यो निर्गुणो विभुः परः परमात्मा ' ' नित्यो वि
लौकिकव्यवहारो यो भूभारक्षपणादिकः ।
तद्दृष्टिं विना नान्यो लयः कृष्णादिनां क्वचित् ॥ इति ॥
लौकिको लोकविषयकः। कुतो निलीनशब्दोऽपिहितार्थकः, येनाश्रुत
त्वं सिद्ध्येत् इत्यतस्तदुत्तरत्वेनापि श्रुतेरिति छेदेनोक्तां श्रुतिं दर्शय
ति—तुरुच्छ्येनेति । श्रुतेरिति । समाख्यारूपश्रुतेरित्यर्थः । ' स इदं स
र्वे विलाप्य ' इत्यादेः ' व्युत्तिष्ठते ' इत्यन्तस्य ' नासदासीत् ' इत्यादेः
' महिना जायतैकम् ' इत्यन्तस्य च समर्थनार्थत्वादिति भावः । श्रुते
रित्यस्य पूर्वेणान्वयः । व्याख्यैतेयं श्रुतिः आनुमानिकनये। निलीनत्व
मिहापिहितत्वमेव न त्वन्यदिति ॥
( ३ ) अत्र न केवलं समाख्यानं, किन्तु वाक्यमपीत्याशयेन श्रुते
रित्यनेनोक्तं श्रुतिवाक्यं चाह—स इति ॥ अत्र पूर्वोत्तरवाक्यार्थप
र्यालोचनया वाक्यलक्षणप्रमाणेनार्थात् निलीनशब्दोऽपिहितार्थे प्र
युक्त इति ज्ञायते । केचिदियमपि प्रयोगरूपश्रुतित्वात्समात्र्यैव, समा
ख्यादीनामिति टीका तु वस्तुस्थितिकथनपरेत्याहुः। ' सः ' परमात्मा
' एतस्मिन् ' प्रकृतिरूपे तमसि ' निलीनः ' छन्नः स्वयं प्रकृतिजीवका
लाननुपश्यति एनं तु न कोऽपि पश्यतीत्यर्थः । ' पैङ्गिश्रुतेः ' पैङ्गीनां वा
क्यात् । अस्यापि निलीनशब्देनेति पूर्ववाक्येनान्वयः ॥
( ४ ) ननु किमर्थमेवं निलीनश्रुतेरर्थान्तरं परिकल्प्यते अस्याः ल
य एवार्थः किं न स्यात् । न च समाख्यादिविरोधः । तस्य श्रुतितो
दुर्बलत्वात् । न च ' नित्यो नित्यानाम् ' इति श्रुत्यन्तरबलात् । तस्या
प्रामाण्योपपत्तेरित्यतः प्रवृत्तं नित्यत्वाच्च ताभ्य इत्यंशं व्याचष्टे—
नित्य इति ॥
नित्यो नित्यानां चेतनश्चेतनानां
एको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेषां शान्तिः शाश्वती नेतरेषाम् ॥
इति कठश्रुतेरयमर्थः—' नित्यानां ' स्वरूपतः अविनाशिनां सकाशा
५७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
भुः कारणो लोकसाक्षी परो गुणैस्सर्वदृक् शाश्वतश्च'
( ) इत्यादिश्रुतिभ्यो नित्यत्वाच्च ॥ १७ ॥
--
११. अधिकरणम् ॥
(१) 'नित्यो नित्यानाम्' (कठ. ५-१३.) इति जीवस्यापि नित्यत्वमुक्तम् ।
'सर्व एते चिदात्मानो व्युच्चरन्ति' इत्युत्पत्तिरुच्यते।
त 'नित्यो' देहतोऽपि नित्यः परमनित्य इति यावत् । नित्यानां नित्य-
त्वप्रद इति वा । एवं 'चेतनानां' ज्ञातॄणामपि 'चेतनः' परमचेत-
नः, तेषां चैतन्यप्रद इति वा । यश्च स्वयमेक एव 'बहूनां' पुरुषाणां
'कामान्' काम्यान् 'विदधाति' करोति तं हृदयस्थं ये धीराः अनु-
पश्यन्ति तेषां 'शाश्वती' पुनरावृत्तिशून्या 'शान्तिः' मोक्षो भवेन्नेत-
रेषामिति । 'स नित्यः' इत्यन्यश्रुतिवाक्यम् । स परमात्मा देहतोऽपि
नित्यः, यतो 'निर्गुणः' सत्त्वादिगुणाबद्धो विभुः परो विलक्षणोऽत इ-
त्यर्थः । 'नित्यो विभुः' इत्यन्या श्रुतिः । नित्यत्वे हेतुर्विभुरित्यादिकं ।
'कारणः' कारणं जगत इति शेषः । 'गुणैः' गुणेभ्यस्सत्त्वादिभ्यः
'परो' मुक्तः गुणमयदेहादिवर्जितः 'सर्वदृक्' सर्वज्ञः 'शाश्वतो'
निर्विकार इत्यर्थः । आदिशब्देन नित्यत्वबोधकवाक्यान्तरं गृह्यते । ता-
भ्य इत्यस्य व्याख्या श्रुतिभ्य इति । नित्यत्वादिति। देहतोऽपि नित्यत्वा-
वगमादित्यर्थः । ब्रह्मण इत्यनुषज्यते । अस्यापि निर्लीनशब्देनापिहित-
त्वमुच्यत इति पूर्वेणान्वयः । चशब्दो हेतुसमुच्चये । तथा च बाहुल्ये-
न 'नित्यः' इत्यादिश्रुतीनां प्राबल्यान्नेतरश्रुतिविरोधेन अप्रामाण्यं शङ्क्य-
मिति तच्छ्रुतिविरोधान्निर्लीनश्रुतेरर्थान्तरकल्पनं युक्तमिति भावः॥१०॥
॥ इति आत्माधिकरणम् ॥
-:--:-
११. अधिकरणम् ॥
( १ ) अत्राधिकरणे जीवजन्मविषयश्रुतिविरोधः परिह्रियते । स-
न्देहबीजं श्रुतिविरोधं दर्शयति—नित्य इति ॥ न केवलं परस्येत्यपि
शब्दार्थः । नित्यत्वमिति । अविनाशित्वमित्यर्थः । उक्तमिति । पूर्वाधि-
करणोदाहृतवाक्येनेति शेषः । न चोत्पत्तिश्रुतिप्रतियोग्यनादित्वश्रुतेरे-
वोदाहर्तव्यतया नित्यत्वश्रुत्युदाहरणमसङ्गतमेवेति वाच्यम् । भावस्य
[header] [ अधि - ११. सू - १८. ] दीपिकासहितम् ५७५
अतो विरोध इति ।
( २ ) अत आह—
सू—ॐ ॥ ज्ञोऽत एव ॥ ॐ ॥ १८ ॥
जीवोऽप्यत एव परमेश्वरादुत्पद्यते, शब्दादेव । ‘ ते
वा एते चिदात्मानो विनष्टाः परं ज्योतिर्निविशन्त्यवि
नष्टा एवोत्पद्यन्ते न विनश्यन्ति कदाचन ’ इति का
षायणश्रुतिः ॥ १८ ॥
सतः नित्यत्वोक्त्यनुपपत्तित एव प्रागभावाप्रतियोगित्वरूपानादित्व
स्याप्युक्तप्रायत्वात् । इतीति । इति श्रुत्यन्तरेणेत्यर्थः । ‘ आत्मानो ’
जीवाः ‘ व्युच्चरन्ति ’ मातृदेहात् निस्सरन्ति जायन्त इत्यर्थः । ततः
किमित्यत आह—अत इति । यत एवं श्रुतिद्वयेन विरुद्धार्थद्वयमुक्तं,
अतः श्रुत्योर्विरोध इत्यर्थः ॥
( २ ) अनुत्पत्तिज्ञापकनित्यत्वश्रुत्युपन्यासेनैव जीवोऽनुत्पत्तिमान्
प्रागभावाप्रतियोगित्वरूपानादित्वात् ईश्वरवदिति सयुक्तिकपूर्वप
क्षो लब्धो भवतीत्याशयवान् सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अ
त इति ॥ जीव इत्यनेन जानातीति व्युत्पत्त्या ज्ञो जीव इति ज्ञशब्दो
व्याख्यातः । पूर्वसूत्रादनुवृत्तस्य चशब्दस्यार्थोऽपीति । न केवलं विय
दादिः किन्तु जीवोऽपीति तस्यार्थः । यद्वा—नित्यत्वेनोक्तोऽपीत्यर्थः ।
अत इत्यनुवादेन परमेश्वरादिति व्याख्यानम् । परमेश्वरादेवेत्येवका
रान्वयः । सर्वसूत्रेषु तस्यैव प्रकृतत्वादिति भावः । उत्पद्यत इति सू
त्रे शेषोक्तिः । एवकारस्यात्राप्यन्वयः । उत्पद्यत इत्यावर्तते । अनेन
जीवोऽपि उत्पद्यत एव, उत्पद्यमानश्चेश्वरादेव उत्पद्यत इति प्रतिज्ञाद्व
यं सूचितं भवति । उभयत्र हेतुमाह—शब्दादेवेति । अनेनातश्शब्द
स्यावृत्तिस्सूचिता । न तत्र प्रमाणान्तरं गवेषणीयमिति एवशब्दार्थः ।
तमेव शब्दमुदाहरति—त इति । वैशब्दोऽवधारणे । ‘ ते ’ प्रसिद्धाः
‘ एते ’ जीवाः यतः ‘ चिदात्मानो ’ ज्ञानस्वरूपाः अतस्स्वरूपतोऽविन
ष्टास्सन्तो ‘ज्योतिः’ प्रकाशरूपं ‘परं ’ ब्रह्म निविशन्ति प्रलये मुक्तौ च।
तर्हि अनादिनित्यत्वश्रुतिविरोध इत्यत आह—अविनष्टा इति । स्वरूप
तः अनादिनित्या एवेत्यर्थः । कादाचित्कनाशोऽपि नेत्याह—नेति । स्व
रूपत इति शेषः। ‘कदाचन’ महाप्रलयेऽन्यदा वेत्यर्थः। इति श्रुतिरित्या
नन्तरं अस्ति हीति शेषः ॥
१७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २। पा - ३। ]
( ३ ) सू—ॐ ॥ युक्तेश्च ॥ ॐ ॥ १९ ॥
नित्यस्यापि हि जीवस्योपाध्यपेक्षयोत्पत्तिर्युज्यते ।
( ४ ) उत्पद्यन्ते चिदात्मानो नित्या नित्यात्परात्मनः ।
उपाध्यपेक्षया तेषां उत्पत्तिरपि गीयते ॥
इति च व्योमसंहितायाम् ॥ १९ ॥
—::—
( ३ ) नन्वनादिनित्यस्य जीवस्योत्पत्तिः श्रुताऽपि कथं युज्यते व-
न्ध्यात्वमभ्युपगम्य मातृत्ववचनवत् नित्यत्वमभ्युपगम्य पुनरुत्पत्तिव-
चनस्य व्याहतत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे-युक्तेश्चे-
ति ॥ 'नित्यस्यापि' अनादिनित्यस्यापि । अपिः यद्यपितथापीत्यर्थे ।
अनेन सूत्रे ज्ञस्येति विपरिणतमनुषज्यते । चोऽप्यर्थः । स च विशेष-
णसमुच्चयार्थोऽपीत्युक्तं भवति । 'उपाध्यपेक्षया' बाह्यशरीराख्योपा-
ध्युत्पत्त्यपेक्षया तद्विषयकतया उत्पत्तिवचनं युज्यत इत्यर्थः । शरीरा-
देरुपाधित्वं न प्रतिफलनाधिकरणत्वम्, किन्तु उत्पत्त्यादिरूपविकार-
विशेषापादकत्वम्, अत एवाह—उत्पत्तिरिति । युज्यत इति । अनेन
नायं युक्तिशब्दो लिङ्गार्थः, किन्तु योगार्थको विवक्षार्थकश्चेति सूचित-
म् । सावधारणं चैतत् । तेन सौत्रचशब्दो व्याख्यातः । अवधारणेन नै-
वमुपचारमात्रम्, किन्तु मुख्यमेव । पराधीनविशेषावाप्तिरूपोत्पत्तेरेवा-
त्र विवक्षितत्वादिति सूचितम् । अनेन—अनादिनित्यस्यापि ज्ञस्य
पराधीनविशेषावाप्तिरूपोत्पत्तेः योगान्न तदुक्ति व्याघात इति सूत्रार्थ
उक्तो भवति ॥
( ४ ) अत्र स्मृतिसम्मतिमाह—उत्पद्यन्त इति ॥ चिदात्मत्वमना-
दिनित्यत्वे हेतुः । तथा च यद्यपि यतश्चिदात्मानो जीवा अतोऽनादिनि-
त्याः, तथाऽपि देहतोऽपि नित्यात्परात्मन उत्पद्यन्ते । व्याहतिमाश-
ङ्कयाह—उपाधीति । बाह्योपाध्युत्पत्त्यपेक्षयेत्यर्थः । 'तेषां' जीवानां,
न केवलमनादिनित्यत्वमित्यपिशब्दार्थः । व्योमसंहितायामित्यनन्तरं
नित्यस्यापीत्यादिशब्देनोक्तं युक्तमिति वाक्यशेषः ॥ १९ ॥
॥ इति ज्ञाधिकरणम् ॥
—::—
[ अधि - १२. सू - २०. ] दीपिका सहितम्. ५७७
१२. अधिकरणम् ॥
( १ ) 'व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च सर्वात्मानः सर्व-
रूपा अनन्ताः' इति काषायणश्रुतौ व्याप्तत्वं प्रती-
यते । 'अणुर्ह्येष आत्मा यं वा एते सिनीतः । पुण्यं
च पापं च' इति गौपवनश्रुतावणुत्वमाम्नायतो विरोध
इति ॥
( २ ) अतो ब्रवीति—
१२. अधिकरणम् ॥
( १ ) धर्मिणि जीवे उत्पत्त्यनुत्पत्तिश्रुतिविरोधपरिहारानन्तरं अ-
त्राधिकरणे जीवधर्मे परिमाणेऽणुत्वश्रुतिविरोधः परिह्रियते । तत्र श्रु-
तिविरोधरूपं संशयबीजं दर्शयति—व्याप्ता हीति ॥ हिशब्दः प्रसिद्धौ।
'आत्मानः' परमात्मरूपविशेषाः 'व्याप्ताः' परममहत्परिमाणाः 'चेत-
नाः' ज्ञानरूपाः 'निर्गुणाः' सत्त्वादिगुणशून्याः 'सर्वात्मानः' सर्वस्या-
दानादिकर्तारः 'सर्वरूपाः' पूर्णस्वरूपाः । 'सर्वः पूर्णगुणत्वतः' इ-
त्युक्तेः । 'अनन्ताः' कालतो गुणतश्चापरिच्छिन्ना इति सिद्धान्तरीत्या
श्रुत्यर्थः । पूर्वपक्षे त्वात्मशब्दो जीवपरः । विशेषणानि च तस्यैवेत्या-
ह—व्याप्ता ह्यात्मान इति । समग्रोदाहरणं तु सिद्धान्तानुकूलतया ब्र-
ह्मलिङ्गानि सूचयितुम् । व्याप्तत्वं देशतो महत्त्वमिति यावत् । प्रती-
यते। जीवस्येत्यनुषज्यते। 'एषः' इति श्रुतौ हिशब्दः प्रसिद्धौ । चावन्त्यो-
न्यसमुच्चये । तथा च 'एष आत्मा' जीवोऽणुः यं जीवं एते 'सिनी-
तो' बध्नीतः । एते इत्येतदेव विवृणोति—पुण्यं च पापं चेति । अत्रा-
प्यणुर्ह्येष आत्मेत्येतावदेवोदाहर्तव्ये वाक्यशेषोद्धारो जीवत्वज्ञापना-
र्थः। अणुत्वमित्यत्रापि प्रतीयते इत्यनुषज्यते । जीवस्येति चास्ति। ततः
किमित्यत आह—अत इति । विरुद्धार्थद्वयप्रतीतिरत एवेत्यर्थः। 'विरोधः'
श्रुत्योः प्रतीयत इत्यनुवर्तते ॥
( २ ) युक्तिसहितव्याप्तत्वश्रुतिबलात् व्याप्त एव जीव इति पूर्वप-
क्षे सिद्धान्तयत्सूत्रमवतार्य तच्छेषमेव पूरयति—अत इति ॥ हेतूना-
मित्युक्तिकान्त्यादेः लिङ्गताबोधनाय । तथाऽपि विभक्तिं विना हेतु-
ताऽनवगमात्तदर्थं सकाशादिति शेषः कृतः । हेतूनामिति तु अनुवादो
न दोषः । अणुरेवेति तु प्रकरणलब्धसाध्योक्तिः । जीव इति वर्तते ।
तेन सूत्रे ज्ञ इत्यस्यानुषङ्गस्सिध्यति। अनेन जीवः अणुरेव न व्याप्तः।
७३
५७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
सू—ॐ ॥ उत्क्रान्तिगत्यागतीनाम् ॥ ॐ ॥ २० ॥
हेतूनां सकाशादणुरेव ।
( ३ ) ‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मा
द्दिमं लोकमागच्छति स गर्भीभवति स प्रसूयते स
कर्म कुरुते’ इति पौष्यायणश्रुतेः ॥ २० ॥
( ४ ) तत्र स्वातन्त्र्यप्रतीतेः ,
एकः प्रसूयते जन्तुरेक एव प्रमीयते ।
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥
इत्यादेश्च स्वयमेवेति ।
कुतः ? उत्क्रान्तिगत्यागतिमत्त्वात् , पतत्रिशरीरवदित्यनुमानप्रयोग
स्सूचितः । न च मध्यमपरिमाणत्वेनान्यथासिद्धिस्यात् । तस्यानि
त्यत्वप्रसङ्गेन निराकृतत्वात् इति भावेनाप्येवकारः प्रायोजि ॥
( ३ ) विभुत्वबाधकानामणुत्वसाधकानां हेतूनामसिद्धिमाशङ्क्य
तत्र तत्सद्भावे श्रुतिमाह—स इति ॥ स जीवो बाह्यशरीरबन्धादुत्क्र
म्यामुं लोकं ‘अभिगच्छति’ प्राप्नोति । ‘अमुष्मादिमं लोकं’ भूलोकं
प्रत्यागच्छति । अनन्तरं ‘स गर्भी भवति’ पूर्वमगर्भः, अधुना गर्भस्स
म्पद्यते मातुरुदरं प्रविशतीति यावत् । अथ ‘प्रसूयते’ उत्पद्यते । अ
थ पुण्यपापसाधनं कर्म करोतीति श्रुत्यर्थः । श्रुतेरित्यनन्तरं सिद्धाना
मिति शेषः । अस्य हेतूनामित्यनेनान्वयः ॥
( ४ ) एवमुत्क्रान्त्यादिहेतुभ्यो जीवस्याव्याप्तत्वे सिद्धे अणुत्वसा
धकाधिकरणमध्ये अन्तर्भेदाधिकरणत्वेन किञ्चित्प्रसङ्गात् चिन्त्यते ।
किमिदमुत्क्रान्त्यादिकं जीवस्य परमेश्वरेण? स्वयमेवेति। तत्र पूर्वपक्ष
माह—तत्रेति ॥ ‘सोऽस्मात्’ इत्युदाहृतश्रुतावित्यर्थः । तत्रेत्यावर्तते।
तस्योत्क्रान्त्यादावित्यर्थः । जीवस्येत्यनुवर्तते । प्रतीतेरित्यस्य स्वयमे
वेत्यनेनान्वयः । स्वयमेवेत्यनन्तरं तस्योत्क्रान्त्यादीति साध्यमध्याहार्य
म् । नेश्वरेणेत्येवशब्दार्थः। नन्वस्यां श्रुतौ जीवस्योत्क्रान्त्याद्येव श्रूयते,
न त्वन्याधीनताविधिः निषेधो वाऽस्ति । अतो नानया दृढनिर्णय इत्य
त आह—एक इति । ‘एकः’ स्वतन्त्रो ‘जन्तुः’ जीवः ‘प्रसूयते’ उ
त्पद्यते ‘प्रमीयते’ नश्यति । एवशब्दस्य द्विर्ग्रहणं सर्वत्रान्वयज्ञापक
म् । दुष्कृतं चेत्यन्वितः चशब्दः समुच्चये । अनुभुङ्क्त इत्यत्रापि सम्ब
ध्यते । ‘इत्यादेः’ एवमादिस्मृतिवचनाच्चेत्यर्थः । न केवलं प्रतीतेरि
[ अधि - १२. सू - २१. ] दीपिका सहितम्. ५७९
( ५ ) अतो वक्ति—
सू— ॐ ॥ स्वात्मना चोत्तरयोः ॥ ॐ ॥ २१ ॥
'स एतेनैव स्वात्मना परेणेमं गर्भमनुप्रविशति
परेण जायते परेण कर्म कुरुते परेण नीयते परेणोन्नी
यते। तं वा एतमभिवदन्ति स्वात्मा' इति, 'एष
ह्यानन्दमादत्ते एष ह्येनं जीवमभिजीवयत्येष उद्गम
यत्येष आगमयति' (पौष्यायण) इत्युत्तरयोर्वाक्ययोः
ति चार्थः । तथा च स्मृत्यनुसारेण श्रुतेरपि जीवस्योत्क्रान्त्यादेः परा
धीनतानिषेधोऽर्थ इति भावः ॥
( ५ ) एवं पूर्वपक्षे तन्निराकरणाय सूत्रमवतार्य व्याचष्टे—अत इ
ति ॥ 'स एतेन' इत्याद्येकं श्रुतिवाक्यम् । 'एष ह्यानन्दम्' इत्यन्यत् ।
अनेनोत्तरयोरित्यनेन ज्ञापितं वाक्यद्वयमुदाहृतं भवति । 'सः' जीवः
'एतेन' स्वस्थितेन 'स्वात्मना' स्वरूपभूतमानन्दमादत्ते इति व्युत्प
त्त्या स्वात्मशब्दवाच्येन परमात्मनाऽनुगृहीतः इमं मातृदेहस्थं गर्भं प्रवि
शति । परेणैव तत्प्रेरित एव जायते । तेनैव लोकान्तरं 'नीयते' म्रिय
ते 'उन्नीयते' मोक्षायोर्ध्वं नीयते । तमेतं विष्णुं स्वात्मेत्यभिवदन्ति
विद्वांस इत्यर्थः । अनेन स्वात्मशब्दस्य विद्वद्रूढिर्दर्शिता । 'एषः' पर
मात्मा आनन्दं जीवकृतशुभकर्मफलं 'आदत्ते' गृह्णाति स्वरूपानन्द
मनुभवतीति वा । 'अभि जीवयति' धृतप्राणं करोति संस्थापयति ।
'उद्गमयति' देहान्निर्गमयति ऊर्ध्वं परलोकं गमयतीति वा । 'आग
मयति' देहं प्रावेशयति । इमां भूमिमागमयतीति वेत्यर्थः । यद्यप्येष
ह्येनं जीवमित्यारभ्यैव द्वितीयवाक्यमुदाहर्तव्यम् । तस्यैव प्रकृतोपयु
क्तत्वात् । तथाऽपि द्वितीयवाक्ये स्वात्मशब्दाभावात् कथमुत्तरयोरि
त्यनेन द्वितीयवाक्यं गृह्यत इत्याशङ्क्य मैवं द्वितीयवाक्ये स्वात्मशब्दा
भावेऽपि तद्व्याख्यानरूपैष ह्यानन्दमादत्त इति वाक्यसद्भावादिति
भावेन तत्पूर्ववाक्यमप्युदाहृतम् । अत एव सूत्रे उभयोदाहरणम् । इ
त्युत्तरयोरिति । पौष्यायणश्रुतौ सोऽस्मादिति वाक्यापेक्षयोत्तरयो
रित्यर्थः । सकाशादिति शेषः । यद्वा—सप्तमीयं न षष्ठी । तथात्वे सू
त्रे वचनादिति शेषः। भाष्ये तूच्यन्त यत इति शेषः। आद्ये तु भवन्ती
ति । एवं हेतुं व्याख्याय इदानीं स्वात्मना चेति प्रतिज्ञांशं व्याचष्टे—
परमात्मनैवेति ॥ स्वात्मनेत्यनुक्त्वा परमात्मनेत्युक्त्या परं पूर्णं स्वरूप
५८० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
परमात्मनैवोत्क्रान्त्यादयः ॥ २१ ॥
( ६ ) ॐ ॥ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ ॐ ॥ २२ ॥
'व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च' इति व्याप्तिश्रुतेर्ना
णुर्जीव इति चेत्—
( ७ ) न, 'स आत्मेदं सृजति स द्विधेदं बिभर्ति अन्तर्बहिश्च ।
स बहुधेदमनुप्रविश्यात्मानोऽभिनयति । स आत्मा
प्रभूतमानन्दं आदत्त इति व्युत्पत्त्या स्वात्मशब्दो व्याख्यातः । उत्क्रा-
न्त्यादय इत्यनेन सूत्रे उत्क्रान्तिगत्यागतय इति पूर्वसूत्राद्विपरिणतप-
दस्यानुवृत्तिः सूचिता । अल्पाक्षरत्वायादिशब्दप्रयोगः । तथा च सो-
ऽस्मादिति पूर्ववाक्यमप्येतदर्थकमेव । स्मृतिस्तु प्रसवादिदुःखानुभ-
वं परमात्मदत्तस्वातन्त्र्यमाहेति न त
[ अधि - १२. सू - २२. ] दीपिकासहितम्. ५८१
स आत्मानः स ईशः स विष्णुः स परः परोवरी-
यान्' इति परमात्माधिकारात्वात् ।
( ८) एकशब्दैर्द्विशब्दैश्च बहुशब्दैश्च केशवः ।
एक एवोच्यते वेदैस्तावता नास्य भिन्नता ॥
इति भविष्यत्पुराणे ।
( ९ ) 'तदयं प्राणोऽधितिष्ठति । तदुक्तमृषिणा-आ तेन या
स्यापि तस्मिन्नेव सावकाशत्वात् । निर्गुणा इति गुणबन्धरहित्योक्ते-
श्च । अत एव नोत्क्रान्त्यादीनां औपचारिकत्वं कल्प्यमेतच्छ्रुतेर्बाधक-
त्वादिति भावः । 'सः' परमात्मा 'इदं' जगत् सृजति । सोऽन्तर्गतो
बहिर्गतश्चेति द्विधा भूत्वाऽन्तर्बहिश्चेदं जगद्विभर्ति । बहुधा भूत्वा इद-
मनुप्रविश्य 'आत्मनः' स्वस्य स्वत एवाभितः आभिमुख्येन 'नयति' स्व-
क्रियानुकूलक्रियं करोति । यद्वा—'आत्मनः' आत्मरूपानभितो नय-
ति। 'स आत्मा स आत्मानः' तादृशैकवचनबहुवचनान्तशब्दबोध्यः 'प-
रोवरीयान्' सर्वोत्तम इति श्रुत्यर्थः । न चैवं विरोधः पौनरुक्त्यं वा,
बहुरूपत्वात्तात्पर्यज्ञापकत्वाच्च । सृष्ट्यादिकर्तृत्वाभिधायिपूर्वांशस्य
'स ईशः' इत्याद्युत्तरांशस्य चोदाहरणमेतच्छ्रुतिस्थतच्छब्दानां वि-
ष्ण्वेकविषयत्वसाधनार्थम् । तदेतत्सर्वमभिप्रेत्योक्तं तत्त्वप्रदीपे—बहु-
रूपैरिदं जगत्प्रविश्य स्वत एवाभितो नयति । स आत्मा स आत्मानः
इत्येकस्यैव बहुरूपत्वं पुनः पुनस्तात्पर्यादुपदिशति । विष्णुश्रुतिः सृ-
ष्ट्यादिकर्तृत्वरूपतल्लिङ्गोक्त्या स इति तच्छब्दानां विष्णुविषयत्वमेवे-
ति साधयति । परोवरीयस्त्वोक्त्या चात्मशब्दितस्य विष्णोरवरत्वं
दूरीकरोतीति ॥
(८) ईश्वरस्य बहुवचनवाच्यत्वे भेदः स्यादित्यत आह—एकश-
ब्दैरिति ॥ 'केशवः' सृष्टिसंहारयोर्ब्रह्मरुद्रनियोजको विष्णुरेक एवाभि-
न्न एवानेकरूपत्वात् 'वेदैः' वेदगतैः 'एकशब्दैः' एकवचनान्तशब्दैर्द्विव-
चनान्तशब्दैर्बहुवचनान्तशब्दैश्चोच्यते । तावताऽस्य विष्णोर्भिन्नता ना-
शङ्क्येत्यर्थः । भविष्यत्पुराणे इत्यनन्तरमुक्तं अतो न भेदप्रसक्तिदोष
इति वाक्यशेषः ॥
(९) एकस्मिन्नेकशब्दप्रयोगं सम्प्रतिपन्नस्थले दर्शयति—तदि-
ति ॥ व्याख्यातमेतद्वाक्यं प्राणनये ऐतरेयश्रुतिः । तदयमिति वाक्येन
५८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
तम्’ (ऐ.आ.२-३-८.) इत्यादि च ॥ २२ ॥
परमात्मनः एकस्यैव शरीररथाधिष्ठातृत्वमुक्त्वा तत्र द्विवचनयुक्तौ म-
न्त्रौ प्रमाणयति-तदित्यनेन। तत्तन्मन्त्रार्थे मन्त्रद्रष्टृऋषिणा हयग्रीवेण
प्रमाणमुक्तमित्यर्थः । तन्मन्त्रद्वयं पठति-आतेनेति । इत्यादीति । इ-
त्याद्युदाहरणं च निर्भेदेऽपि हरौ बहुरूपत्वापेक्षया बहुवचनं युक्तमि-
त्येतमर्थं गमयतीति । तृतीयान्तपाठे इत्यादिना करणेनैतमर्थं गमयती-
-त्यध्याहारेणान्वयो द्रष्टव्यः । न केवलं भविष्यत्पुराणोक्तिमात्रमिति
चशब्दार्थः । आदिशब्देन समग्रो मन्त्रः ‘निमिषश्चित्’ इति मन्त्रान्त-
रं च गृह्यते । तत्र—
आ तेन यातं मनसो जवीयसा
रथं यं वामृभवश्चक्रुरश्विना ।
[
(१०) सू—ॐ ॥ स्वशब्दोन्मानाभ्यां च ॥ ॐ ॥ २३ ॥
एषो ह्यात्माऽप्युद्गतो मानंशकेस्तथाऽप्यसौ प्रमितिं
याति वेदैः ।
पूर्णोऽचिन्त्यः सर्ववेदैकयोनिः सर्वाधीशः सर्ववित्स
र्वकर्ता ॥
ति । भागवततात्पर्ये तु—'यत्रोभयोस्सशब्दस्स्यात् तत्र द्विवचनेऽप्यु
भे' इत्युक्तम् । 'सशब्दः' समानशब्दः । केचित्तु—यस्य मनोवाक्कर्म
भिः योगे भगवत्सम्बन्धादिति व्याचख्युः । तन्नु ऐतरेयभाष्यटीका
विरुद्धम् ।
निमिषश्चिज्जवीयसा रथेनायातमश्विना ।
अन्तिषद्भूतु वामवः ॥ (ऋ.८-६२-२. )
इति द्वितीयमन्त्रस्यायमर्थः—हे अश्विनौ 'निमिषश्चित्' चक्षुर्निमेषा
दपि 'जवीयसा' अत्यन्तं वेगवता देहाख्यरथेनायातम् । 'वां' युव
योस्सकाशात् यत् 'अवः' अद्यनं तत् 'अन्तिषत्' समीपे विद्यमानं
अस्मदन्तिके स्थितं 'भूतु' भवत्विति ॥
(१०) यदुक्तं व्याप्तिश्रुतिरीश्वरविषया तत्प्रकरणादिति, तद्यु
क्तं, श्रुत्यपेक्षया प्रकरणस्य दुर्बलत्वात्, तन्मात्रेण बहुवचनश्रुतेः ई
श्वरविषयत्वेन सङ्कोचरूपबाधायोगात् इत्याशङ्कां परिहरत्सूत्रमुपन्य
स्य व्याचष्टे—स्वेति ॥ इति वाक्यशेष इति । इत्येवं रूपे काषायणवा
क्यशेष इत्यर्थः । श्रुताभ्यामिति शेषः । आत्मशब्दोन्मानाभ्यामिति ।
आत्मशब्दोन्मानत्वलिङ्गाभ्यामित्यर्थः । अस्य व्याप्तत्वश्रुतेः ईश्वरविष
यत्वेन सावकाशत्वादिति पूर्वाध्याहृतवाक्येनान्वयः । न केवलं 'इत
राधिकारात्' इत्युक्तप्रकरणात्, किन्तु आत्मश्रुत्युन्मानत्वलिङ्गाभ्यां
चेति चशब्दार्थः । तथा च श्रुतिलिङ्गसहितप्रकरणेन केवलाया बहुव
चनश्रुतेः बाधो युक्त एवेति भावः । आत्मशब्दोन्मानाभ्यामित्यनेन सू
त्रे स्वेतिशब्दः स्वशब्दः , स्वस्य ब्रह्मणः शब्द इति वा विग्रहः ।
तेन च तत्पर्यायात्मशब्दो गृह्यते । उन्मानशब्दश्च भावप्रधानः । तेन
च अपरिमितत्वलिङ्गमुच्यते । 'परमतस्सेतून्मान' इतिवत् इत्यभिप्रे
ति । 'एषः' इति श्रुतौ उत्तरार्धेन पूर्वार्धोदितमुपपाद्यते । तथा च—
'एषः' हरिः 'हि' यतः गुणैः पूर्णः अचिन्त्यश्च, तथा 'स सर्ववेदैक
योनिः' सर्वे वेदाः एकं केवलं योनयो व्यक्तिकारणानि यस्य स तथो
५८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
इति वाक्यशेषे आत्मशब्दोन्मानाभ्यां च ।
( ११ ) आत्माऽमेयः परंब्रह्म परानन्दादिकाभिधाः ।
वदन्ति विष्णुमेवैकं नान्यत्रासाङ्गतिः काचित्॥
इति च कौर्मे ॥ २३ ॥
( १२ ) सू— ॐ ॥ अविरोधश्चन्दनवत् ॥ ॐ ॥ २४ ॥
क्तः सर्वाधीशः सर्वज्ञः सर्वकर्ता च, अतो 'मानशक्तेः' पुरुषगतपरि-
माणशक्तेः अध्युद्गतः परिमाणातीतः पूर्ण इत्यर्थः । अत एव तत्त्वप्रदी-
पे मानशक्तेः अधिकत्वेनोद्गतः सर्वेभ्यो गुणाधिकत्वेन मानशक्तिमति-
लङ्घ्य वर्तते कैश्चिदपि न मानशक्त्या मीयत इत्युक्तम् । यद्वा—'मा-
नशक्तेः' वेदगतयथार्थज्ञानजननशक्तेरुद्गतः तद्विषय इत्यर्थः । यद्य-
प्येवं, तथाऽपि 'असौ' परमात्मा विषयतया 'वेदैः प्रमिति याति' वे-
दजन्यज्ञानविषयो भवतीत्यर्थः । अपरिमितस्यापि विभोः वेदैः एकदे-
शप्रमितिः तत्प्रसादात् भवतीति भावः । यद्वा—वेदानां स्वशक्त्यवि-
षयस्यापि विष्णोः तत्प्रसादात् ज्ञानकरणत्वं भवतीति भावः । अथ
वा—द्रष्टुश्चक्षुः इतिवत् विष्णुः प्रमिति स्वप्रमिति याति यापयति
स्वातन्त्र्यादित्यर्थः ॥
( ११ ) आत्मश्रुतेरुन्मानत्वलिङ्गस्य च कुतो वैष्णवत्वमित्यत आ-
ह—आत्मेति ॥ 'अमेयः' अपरिमितः । स्मृतेः विष्णुविषयत्वोपपादनाय
परंब्रह्मेत्याद्युपन्यासः । एकपदमिदं, परानन्देत्यनन्तरं विसर्गलोपः आ-
र्षो बोध्यः । इतिशब्दोऽत्राध्याहार्यः । इत्यादिका एवमाद्या अभिधा अ-
भिधायकाः शब्दाः विष्णुमेवैकं मुख्यतो वदन्ति । 'आसां' अभिधा-
नां 'अन्यत्र' जीवादौ काचिदपि 'गतिः' वृत्तिः मुख्यतो नास्तीत्य-
र्थः । इति च कौर्मे इति । न केवलं वाक्यशेषे श्रुतमात्राभ्यां, किन्तु
कौर्मे वचने विष्ण्वेकनिष्ठत्वेन निश्चिताभ्यामप्यात्मशब्दोन्मानाभ्यामि-
त्यन्वयः । यद्यपि 'व्याप्ता ह्यात्मानः' इति श्रुतावात्मशब्दानन्त्ययोः श्र-
वणात् पृथग्वाक्यशेषग्रहणं व्यर्थम् । तथाऽपि 'व्याप्ता ह्यात्मानः' इ-
ति वाक्ये बहुवचनसमभिव्याहारात् अन्यार्थताया एव झडिति प्रति-
भासाद्वाक्यशेषे च तदभावेनास्य स्मृतिगतामेयपदव्याख्येयोद्गतोमा-
नशकेरितिपदयुक्तत्वेन च निश्चितार्थत्वात्तदर्थं पृथगुपन्यासो युक्तः॥
( १२ ) नन्वथापि न जीवस्याणुत्वं युक्तम्, अणोस्तस्य शरीरे
[ अधि - १२. सू - २५ ] दीपिकासहितम्. ५८५
अणोरपि जीवस्य सर्वशरीरव्याप्तिर्युज्यते । यथा ह
रिचन्दनविपुष एकदेशपतितायाः सर्वशरीरव्याप्तिः ।
( १३ ) अणुमात्रोऽप्ययं जीवः स्वदेहं व्याप्य तिष्ठति ।
यथा व्याप्य शरीराणि हरिचन्दनविप्रुषः ॥
इति च ब्रह्माण्डपुराणे ॥ २४ ॥
( १४ ) सू— ॐ ॥ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृ-
दि हि ॥ ॐ ॥ २५ ॥
कदेशस्थत्वेन तदन्यत्राभावेन कस्याप्यप्राप्तकरणेन क्रियानिर्वर्तक-
त्वाभावेन सर्वशरीरगतस्पर्शज्ञानायोगात् तत्रतत्र चक्षुरादिषु तैस्तैर्यु-
गपद्रूपादिरिपज्ञानायोगाच्चेत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—
अविरोध इति ॥ अणोरपि जीवस्येत्यादिना सूत्रे ज्ञस्य जीवस्येत्यस्या-
नुवृत्त्या विरोधपदावृत्त्या च यतो जीवस्य अणुत्वव्याप्त्यविरोधः अणु-
त्वेऽप्यंशैः सर्वशरीरव्याप्तिर्युज्यते, अतो 'विरोधः' तत्र तत्र परिज्ञानायो-
गाख्यविरोधो नेति योजना दर्शिता । अपिस्तु यद्यपितथापीत्यर्थः,
समुच्चयार्थो वा । उभयादृष्टबाधपरिहाराय प्रवृत्तं चन्दनवदिति दृष्टा-
न्तांशं चन्दनेषु श्रेष्ठत्वाद्विशेषपरतया विवृणोति—यथेति । हरिचन्द-
नेति । 'गन्धसारो मलयजो हरिचन्दनम्' इत्युक्तेः गन्धसाराख्यमल-
यगिरितरुकाष्ठकृतद्रव्यबिन्दो रित्यर्थः । विप्रुष इत्यनेन अणुत्वं ज्ञापित-
म् । 'एकदेशपतितायाः' अंशैः शरीरैकदेशनिपतितायाः। अस्य तथे-
ति पदाध्याहारेण अणोरपीति पूर्ववाक्येनान्वयः ॥
( १३ ) ननु नियामकं विना न दृष्टान्तमात्रेण अर्थसिद्धिः, एतत्प्रति-
कूलदृष्टान्तस्यापि वचनसम्भवादित्यत आह—अणुमात्रोऽपीति ॥ अ-
णुपरिमाणोऽपीत्यर्थः । अपिः पूर्वोक्तार्थकः । अंशैरिति शेषः । 'शरी-
राणि' शरीराङ्गानि 'हरिचन्दनविप्रुषो' गन्धद्रव्यबिन्दवः एकदेशप-
तिताः तिष्ठन्ति, तथेति शेषः । ब्रह्माण्डपुराणे उक्तमिति शेषः । तथा
च अस्यैव नियामकत्वान्नोक्तदोष इति भावः ॥
( १४ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याच-
ष्टे—अवस्थितीति ॥ विप्रुष इत्यनुषज्यते । तथा नेति । वाऽप्यत्रान्वीय-
ते । सर्वशरीरव्याप्तिरिति चास्ति । तथा च चन्दनस्य विप्रुषः सर्व-
शरीरव्याप्तिर्युज्यते । कुतः ? 'सम्यगसम्यगवस्थानविशेषात् ' चन्द-
७४