पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 629, कुल 1267 में से
संदर्भ में पढ़ें५८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
तम्’ (ऐ.आ.२-३-८.) इत्यादि च ॥ २२ ॥
परमात्मनः एकस्यैव शरीररथाधिष्ठातृत्वमुक्त्वा तत्र द्विवचनयुक्तौ म-
न्त्रौ प्रमाणयति-तदित्यनेन। तत्तन्मन्त्रार्थे मन्त्रद्रष्टृऋषिणा हयग्रीवेण
प्रमाणमुक्तमित्यर्थः । तन्मन्त्रद्वयं पठति-आतेनेति । इत्यादीति । इ-
त्याद्युदाहरणं च निर्भेदेऽपि हरौ बहुरूपत्वापेक्षया बहुवचनं युक्तमि-
त्येतमर्थं गमयतीति । तृतीयान्तपाठे इत्यादिना करणेनैतमर्थं गमयती-
-त्यध्याहारेणान्वयो द्रष्टव्यः । न केवलं भविष्यत्पुराणोक्तिमात्रमिति
चशब्दार्थः । आदिशब्देन समग्रो मन्त्रः ‘निमिषश्चित्’ इति मन्त्रान्त-
रं च गृह्यते । तत्र—
आ तेन यातं मनसो जवीयसा
रथं यं वामृभवश्चक्रुरश्विना ।
[