पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ अधि - ६. सू - १२. ] दीपिकासहितम्. ५५७
नाप्रामाण्यमित्यादि ।
( ६ ) कौर्मे च—
विरोधो वाक्ययोर्यत्र नाप्रामाण्यं तदेष्यते ।
यथा विरुद्धता न स्यात्तथार्थः कल्प्य एतयोः ॥ इति ॥
( ७ ) रक्तोऽग्निरुदकं शुक्लं कृष्णैव पृथिवी स्वतः ।
नाभिपाद्माभिसम्बन्धात्पीता सेयमिधीयते ॥
क्षत्ररक्ताभिसम्बन्धाद्रक्तोदकबहुलत्वतः ।
द्धस्य वेदस्य नाप्रामाण्यमित्यादियुक्त्यनुमानमादिशब्दात्सूचितमि-
त्यर्थः । आदिपदेन मन्वादिस्मृतिरूपाप्तवाक्यानुसारित्वादिति युक्ति-
र्गृह्यते । अनेन वेदो नाप्रमाणमप्रामाण्यकारणदोषशून्यत्वात्प्रत्यक्षव-
त् । न च हेतोरसिद्धिः । वेदोऽशेषदोषशून्यः, अपौरुषेयत्वात्, स्मृत्य-
नुसारित्वाच्च नाप्रमाणमित्यनुमानमुपन्यस्तं भवति । एवं च युक्तिब-
लाद्वेदप्रामाण्यसिद्धौ तत्र विरोधावभासेऽन्यार्थतैव कल्प्या, नाप्रामा-
ण्यमिति भावः ॥
( ६ ) विरोधप्रतीतावन्यार्थतैव कल्प्या, नाप्रामाण्यमित्युक्तार्थ ए-
व स्मृतिमाह—कौर्मे चेति ॥ न केवलमस्माभिः, किन्तु कौर्मे चोक्त-
मिति चशब्दार्थः । किमुक्तमित्यतस्तत्पठति--विरोध इति । आपात-
तो विरोध इत्यर्थः । ‘यत्र’ विषये ‘तदा’ तत्र ‘नेष्यते’ नाङ्गीक्रिय-
त इत्यर्थः । किं तर्हीत्यत आह--यथेति । ‘एतयोः’ विरुद्धत्वेन प्रती-
तवाक्ययोरन्योन्यं मानान्तरेण च ‘विरुद्धता’ विरोधो यथा न स्या-
त्तथा अर्थः प्रातीतिकादन्योऽर्थः कल्पनीय इति योजना । इति कौर्मे
इतीतिशब्दान्वयः ॥
( ७ ) यदुक्तं प्राचुर्येण कृष्णा पृथिवीति तत्र प्रमाणमाह—रक्तो-
ऽग्निरिति ॥ ‘अग्निः’ तेजो ‘रक्तो’ रक्तरूप इत्युक्तम् । उदकं स्वतः
शुक्लं । एवं पृथिवी ‘स्वतो’ निरुपाधिकतया कृष्णैव । स्वतः इत्य-
स्य कृत्यं दर्शयति—नाभीति । विष्णोरिति शेषः । पद्मस्य लोकाधार-
त्वात्पीतरूपवत्त्वाच्चेति भावः । पद्मसम्वन्धादित्युक्त्या प्राक्स्थिताना-
मेव लोकानां पद्मदलैः संबन्धो, न तु पाद्मसृष्टौ प्राग्विलीनानां पद्मद-
लैः सृष्टिरिति ज्ञायते । ‘सा’ पृथिवी । तस्या एवौपाधिकं रूपान्तर-
माह—क्षत्रेति । दुष्टक्षत्रियाणां रक्ताभिसम्बन्धात् सा रक्तेत्यभिधीय-
ते इत्यर्थः । तस्या एवौपाधिकं रूपान्तरमाह--उदकबहुलत्वत इति ।
शुक्लत्वमेत्येवमेव वर्णान्तरगतिर्भवेत् ॥
विष्णुवीर्याभियोगाच्च पीतत्वं भुव इष्यते ।
स्वर्णवीर्यो हि भगवाननादिः परमेश्वरः ॥
इति व्योमसंहितायाम् ॥ १२ ॥
७. अधिकरणम् ॥
( १ ) 'प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेना
प्यायस्व' ( महाना. १६-२. ) इत्यादिनान्यः संहर्ता
प्रतीयते इति ।
उदकसम्बन्धबाहुल्यादित्यर्थः । 'एति' प्राप्नोति । सेत्यस्ति। एवमेवेति।
पृथिव्यां वर्णान्तरस्य वर्णविशेषस्य 'एवमेव' वक्ष्यमाणरीत्या 'गतिः'
स्थितिर्भवेदित्यर्थः । एवमेवेत्युक्तमेव दर्शयति-विष्ण्विति । 'वीर्या
भियोगात्' वीर्यसम्बन्धात् वीर्यविकाराण्डद्वारेति भावः । न केवलं
पद्मसम्बन्धात्,किं तु वीर्यसम्बन्धाच्चेति निमित्तसमुच्चये चशब्दः। वी
र्यसम्बन्धेऽपि कुतः पीतत्वं भुव इत्यत आह-स्वर्णेति । हिशब्दो भ
गवतः स्वर्णवीर्यत्वे 'तदण्डमभवद्धैमम्' 'शुष्मं हिरण्यात्मकम्' इ
त्यादिप्रमाणप्रसिद्धिद्योतकः । स्वर्णस्य पीतत्वमप्यनेनैव सिद्धम् । य
त इत्यर्थे वा हिशब्दः । नन्वन्यत्राहृष्टं विष्णुवीर्यस्य सुवर्णत्वं कथं क
ल्प्यते, वीर्यसम्बन्धात्पूर्वं निमित्ताभावश्चेत्यत आह-अनादिः पुरुषो
त्तम इति । तथा च विष्णोरनादित्वेन तद्वीर्यसम्बन्धस्यापि प्रवाहतो
ऽनादित्वात्न निमित्ताभावः । लौकिकक्षराक्षरपुरुषविलक्षणत्वान्न दृष्ट
विरोध इति भावः । परमेश्वर इति पाठे तु ऐश्वर्यमुक्तार्थघटकतया
व्याख्येयमिति । व्योमसंहितायामित्यस्य काष्र्ण्यप्रचुरेत्युक्तमुक्तमित्य
ध्याहृतेनान्वयः । अनेन प्रचुरेत्युक्तिप्रयोजनमुक्तं भवति ॥ ६ ॥
॥ इति पृथिव्यधिकरणम् ॥
७. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्मणः प्रकृताधिभूताधिदैवविषयसंहृतिकर्तृ
त्वे श्रुतिविरोधः परिह्रियते । पूर्वपक्षयति-प्राणानामिति ॥ तैत्तिरीय
श्रुतिरियम् । आदिशब्दादेवंविधश्रुत्यन्तराणि पातृत्वादिति युक्तिश्च
गृह्यते । व्याख्यातेयं श्रुतिर्द्युभ्वाद्यधिकरणे । 'अन्यो' विष्णोः रुद्र एवे
त्यर्थः ॥
[ अधि - ७. सू - १३. ] दीपिकासाहितम्. ५५९
( २ ) अतो ब्रूते—
सू—ॐ ॥ तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ ॐ ॥ १३ ॥
'तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायां
निवृत्तिः' (श्वे. १-१०.) इति बन्धलयस्य तदभिध्यान
निमित्तत्वलिङ्गात्तत्कर्तृत्वं प्रतीयते, किमु सादेर्जगतः ।
इत्येतस्मादेव सर्वसंहारकर्ता विष्णुरिति प्रतीयते ।
( २ ) सिद्धान्तयत्तसूत्रमवतार्य व्याचष्टे—अत इति ॥ इतीत्यनन्त-
रं श्रुताविति शेषः । बन्धलयस्येत्यनेन तदित्यस्यावृत्तिर्दर्शिता । अना-
देरित्यादौ ग्राह्यम् । अस्य तत्कर्तृत्वमित्यनेनान्वयः । अत्र तत्कर्तृत्वं
तदिच्छाधीनत्वं विवक्षितम् । ततः किमित्यतस्तल्लिङ्गादित्यस्य तच्च
तत् लिङ्गं चेति विग्रहाश्रयेणार्थमाह—तदभिध्यानेति । बन्धलयस्ये-
त्यत्राप्यन्वीयते । तथा च बन्धस्य संसारस्य लयस्य तस्मान्मोक्षस्ये-
श्वरेच्छाधीनत्वरूपहेतोरित्यर्थः । श्रुतादित्यध्याहारे लिङ्गादित्यस्येति
श्रुताल्लिङ्गात्तत्कर्तृत्वं प्रतीयत इत्यन्वयः । अत्र तत्कर्तृत्वं तत्कृत्यधी-
नत्वं, प्रतीयत इत्यस्य चानुमीयत इत्यर्थः । बन्धलयस्येच्छाधीनत्व-
लिङ्गेन तत्प्रयत्नाधीनत्वानुमानोपपत्तेरिति भावः । ततः किमित्यतोऽ-
नादिबन्धलयकर्तृत्वेनेश्वरस्य सादिजगत्संहृतिकर्तृत्वं सुतरां सिध्य-
तीत्यभिप्रेत्य तदेव विवरितुं सौत्रमेवशब्दं कैमुतिकन्यायपरतया व्या-
ख्याति—किम्विति । लयस्य तत्कर्तृत्वमित्यनुषज्यते । सिध्यतीति शे-
षः । नन्वस्तु विष्णोरनादिबन्धभेत्तुर्विश्वसंहारकर्तृत्वं, तावता प्रयत्ना-
ख्यतत्संहारफलोपधानं कुतः सिध्यतीत्यत आह—इत्येतस्मादिति ।
इत्येतद्रूपात् सादिजगत्संहर्तृत्वरूपाद्धेतोरेवेत्यर्थः । सूत्रे उद्देश्यसम-
र्पकपदाभावाद्योग्यतया लब्धं तद्दर्शयति—सर्वेति । विधेयसमर्पक-
स्य स इत्यस्यार्थो विष्णुरिति । निखिलनिगमतात्पर्यप्रसाधितजगतक-
र्तृत्वादिना तस्यैव प्रस्तुतत्वादिति भावः । यद्वा—स इत्यस्यावृत्त्योद्दे-
श्यविधेयपरत्वमित्याशयेन सर्वसंहारकर्ता विष्णुरिति चोक्तम् । वि-
ष्णुरिति सावधारणम् । अत एव सूत्रेऽवधारणार्थकस्तुशब्दः प्रायो-
जि । नन्वस्त्वीश्वरेच्छाधीनत्वमनादिबन्धलयस्येश्वरकर्तृत्वे लिङ्ग-
म्, अस्तु चानादिबन्धलयस्येश्वरकर्तृत्वं सादिजगत्संहर्तृत्वे । तथा-
पि सादिजगल्लयकर्तृत्वं तत्संहर्तृत्वे कथं लिङ्गमुभयोरभेदादिति चे-
न्न । संहारकर्तृत्वशक्तेर्हेतुत्वेन तत्कर्तृत्वफलोपधानस्य साध्यत्वेनाभ्यु-
-
iti -> kimviti = किन्विति / किंविति / किम्बिति). In many Marathi/Bombay Nirnaya Sagar prints, 'न्व' is often 'न्व', but 'म्ब' has a line across the loop. Look at 'म्ब' in 'बिम्ब': yes, that's 'म्ब'. Here it has a loop with a diagonal stroke: that is 'ब'! So 'म्ब' = mba. "किम्बिति". But wait, could it be "किमु इति" -> "किम्बिति"?
Wait, look at line 4:
"व्याख्याति—किम्बिति ॥" -> wait, is that a hyphen/dash? Yes, "व्याख्याति—किम्बिति ॥"
Let's look at the letters:
क (ka) + ि (i) = कि
म + ब = म्ब, with ि = म्बि
त + ि = ति
So "किम्बिति ॥".- Line 5:
इदं चावर्तते । किम्बिव्यादिश्रुतिभ्यः इत्यन्वयः । तथा च यदा लिङ्गा
Wait, look at "किम्बिव्यादिश्रुतिभ्यः":
कि (ki)
म्बि (mbi)
त्या (tyā) - wait, is that 'त्या'?
Look at line 5: "कि" "म्बि" "त्या" "दि"... wait, the letter after म्
- Line 5:
[ अधि - ७, सू - १३. ] दीपिकामहितम्. ५६१
युवेऽस्तु देवः । ' य इदं सर्वं विलापयति स हरिः परः
मोक्षस्य प्रसादसाध्यत्वे लिङ्गं भगवत्प्रसादेन तद्दर्शनाभावे च ज्ञापय-
ति-दृष्ट्वैव तं मुच्यत इति । मोक्षस्य दर्शनसाध्यत्वश्रवणात्प्रसादाद्द-
र्शनं दर्शनान्मोक्ष इत्यवश्यमङ्गीकार्यत्वादिति टीकावचनमुक्तार्थानु-
कूलम् । परिपाककाल इत्येतदधिकरणीयटीकापदस्योपासनाजनितप्र-
सादाद्दर्शने जाते सति प्रारब्धकर्मावसाने सतीति चार्थः । यथोक्तं त-
तत्त्वप्रदीपे-तस्य विष्णोरभिध्यानाद्विश्वमायान्निवृत्तिः कुतः जाता ।
तस्मिन्नेव मनोयोजनाद्भूयस्तत्त्वभावनया चान्ते परोक्षज्ञाने जा-
ते विश्वबन्धकमायान्निवृत्तिद्वारको मोक्षो भवतीति । उक्तं च सुधा-
याम्-अस्यापरोक्षज्ञाने जाते अन्ते कर्मक्षयान्ते इति । अत्र मायाश-
ब्देन मायाऽविद्याप्रकृतिरित्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्यम-
ङ्गीकरणीयमिति सुधोक्तेः,
अजे द्वे प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते ।
स्वगुणाच्छादिका त्वेका परमाच्छादिका परा ॥
स्वगुणाच्छादिकां हत्वा परमाच्छादिकां परः ।
व्याघुष्य मोक्षपदवीं ददाति पुरुषोत्तमः ॥
इति स्मृतिसिद्धे द्विरूपे दुष्टप्रकृती गृहीते । तयोर्दुष्टत्वं च स एवे-
श्वरः स्वप्रकाशमपि स्वरूपचैतन्यं स्वाधिष्ठानलब्धपरिणाममहद-
हङ्कारादिप्रकृत्यंशैः संयोज्याविद्यमानमेवास्य कर्तृत्वदि स्वातन्त्र्यादि
प्रदर्श्य रागाद्युत्पादनद्वारा दुःखमनुभावयतीति सुधोक्तरीत्या जीव-
स्य दुष्टत्वसम्पादकत्वात्, 'अजामजितदोषामगृहीतगुणाम्' इति व-
चनाच्च सिद्धम् । जडप्रकृतेर्बन्धकत्वं चित्प्रकृतिद्वारा, चित्प्रकृतेर्बन्धक-
त्वं तु 'दैवी ह्येषा गुणमयी मम माया दुरत्यया' इति स्मृतिसिद्धम् । ए-
षा तु अस्य मोहिका इति व्याख्यानात् अन्यप्रकृतिद्वयमप्यस्ति, तच्च
'अथान्ये प्रकृती दुष्टे' इत्यादिवचनात्सिद्धं, दुष्टत्वमपि अत एव तयोः
सिद्ध्यति । अनादिप्रकृतेः कीदृशो विनाश इति चेत्सुधोक्तरीत्या स्वरू-
पप्रध्वंस एवेति गृहाण । न च दुष्टप्रकृत्योरुभयोः स्वरूपेण निवृत्त्य-
भ्युपगमे श्रुतिगीतातात्पर्याहृतश्रुतौ हन द्रावयेत्युक्तिविरोधः, स्मृताव-
पि व्याघुष्येत्युक्तिविरोधश्चेति वाच्यम् । व्याघुष्येत्यस्य निहृत्येत्यर्था-
भ्युपगमात् । प्रथमं द्रावय पश्चाद्धनेत्यर्थसम्भवाच्च । श्रुतौ विश्वश
७२
५६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
परमात्मा ' ( ) इत्यादिश्रुतिभ्यः इति एवशब्दः ।
ब्दः एकैकाशेषपरः न तु समस्ताशेषपरः । एकैकस्य प्रातिस्विकमा-
यानिवृत्तावपि सर्वमायानिवृत्तेरभावात् । अत एव ऋग्भाष्ये प्राति-
स्विकी प्रकृतिर्यत्तमश्च दोषाश्चान्ये पुंस्यतो युक्तमेतदित्युक्तम् ।
सुधायां च एकमुक्तौ न सर्वमुक्तिः , प्रतिजीवमविद्याभेदाङ्गीकारादि-
त्युक्तम् । इदं त्ववधेयम्-जीवस्य न मायैवावरणं किन्त्वन्यान्यप्यावर-
णानि सन्ति । तानि चादौ देहः ततः प्रकृतिबन्धः ततः सत्त्वादिगुण-
बन्धः ततः कर्मादिबन्धः ततः लिङ्गदेहः ततः ईश्वरेच्छेत्येवंरूपा-
णि । न चात्र मूलाभावः। देहाद्वाह्यं विनाऽतीवबाह्यत्वादिति गीताभा-
ष्यस्य मूलत्वात् । इदं हि भाष्यं प्रमेयदीपे देहाद्वाह्यं विनाऽऽत्माभि-
मानस्थमध्यात्मम् ,तत्र युक्तिः-अतीवबाह्यत्वादभिमानविषयत्वाभा-
वादिति व्याख्यातम् । अत्र देहाद्वाह्यस्य गेहादेरध्यात्मत्वाभावे साध्ये
जीवापेक्षयाऽतीवबाह्यत्वादिति हेतुरुक्तः । अस्य हेतोर्व्यभिचारवार-
णायात्मभिमानविषयत्वाभावादिति व्याख्यातः । तथा च जीवापेक्ष-
या देहस्यातीवबाह्यत्वात् मध्ये बहून्यावरणाति सन्तीति सिद्धमिति।
न चापरोक्षज्ञाने जाते सतीत्यर्थाभ्युपगमे तन्निर्धारणाधिकरणविरोधः,
तत्र श्रवणादेरेवाज्ञाननिवर्तकत्वोक्तेः । अत्रापि पुनःपुनर्भगवति मनो-
योजनतत्वभावजनिताभिध्यानस्य श्रवणादिजनितप्रसादरूपस्य मा-
यानिवर्तकत्वोक्तेश्चेति वाच्यम् । यतोऽज्ञानस्य श्रवणादिनिवर्त्यत्वेऽप्य-
परोक्षज्ञाननिवर्त्यत्वमपि सम्भवति । श्रवणजनितापरोक्षज्ञानेन अज्ञान-
स्य शिथिलीभावरूपनिवृत्तिः अपरोक्षज्ञानेनात्यन्तिकी निवृत्तिरित्यभ्यु-
पगमात् । एतत्सर्वं
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥
इति गीताभाष्यप्रमेयदीपिकयोः स्पष्टमुपवर्णितम् । तथाहि प्रमेयदी-
पवचनं—स्वरूपज्ञानमविद्ययाऽऽवृतं, वृत्तिज्ञानं त्वविद्यां शिथिलयति ।
ब्रह्म प्रकाशयतीति । अत्र वृत्तिज्ञानशब्दस्य गीताभाष्यरीत्या परोक्षम-
परोक्षं चार्थः । न चैवं प्रमाणैरुत्पन्नमपीदं मनोवृत्तिरूपतत्त्वज्ञानं अन्त-
रङ्गभूतेन विशुद्धस्वभावरूपज्ञानेनोपोद्वलितं सत् बहिरङ्गमनाद्यपि स-
वासनमेवाज्ञानं समूलघातं हन्तीति सुधाविरोधः । अत्र केवलवृत्ति-
[ अधि - ७. सू - १३. ] दीपिकासहितम्. ५६३
( ४ ) स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः ।
स्रष्टृत्वादिकमन्येषां दारुयोषायदुच्यते ॥
एकदेशक्रिया चात्र न तु सर्वात्मनेरितम् ।
सृष्ट्यादिकं समस्तं तु विष्णोरेव पराद्भवेत् ॥ इति
च स्कान्दे ॥
ज्ञानस्याज्ञाननिवर्तकत्वोक्तेरज्ञाननिवर्तने स्वरूपज्ञानस्यापि वृत्तिज्ञान-
सहायत्वोक्तेश्चेति वाच्यम् । पूर्वं स्वरूपज्ञानस्यावृतत्वेनाकिञ्चित्कर-
त्वेऽपि परोक्षवृत्तिज्ञानेनावरकाज्ञानस्य शिथिलीभावानन्तरमपरोक्षवृ-
त्तिज्ञानोपोद्वलकत्वसम्भवात्केवलस्यापरोक्षवृत्तिज्ञानस्यात्यन्तिकाज्ञा-
ननिवर्तकत्वाभावेऽपि स्वरूपज्ञानोपोद्वलितस्य समूलाज्ञानघातक-
त्वोपपत्तेश्च । यमप्येतीति श्रुतिरस्त्यधिकरणे व्याख्याता । य इदमित्य-
न्यश्रुत्यर्थस्तु। यस्माद्यः ‘इदं सर्वं' विश्वं ‘विलापयति' नाशयति त-
स्मात्स भगवान् संहर्तृत्वाद्विरित्युच्यते । न च पितृत्वात्नाशकत्वा-
योगः । यतः स ‘परो' ममत्वादिदोषराहित्याल्लोकपितृविलक्षणः । त-
त्कथं ? यतः स परमात्मा सर्वोत्कृष्टचेतनोऽत इति ॥
(४) विष्णोरेव संहर्तृत्वे 'रुद्रो माऽऽविशन्तकः' (महा. ३५.) इत्युक्त-
श्रुतिविरोध इत्यत आह-स्रष्टेति ॥ यतो हरिः परमेश्वरो ईशोऽयं ब्रह्मा-
दिभ्योऽवर उत्तमोऽत एक एव स्रष्टा ‘पाता' रक्षिता संहर्ता च भवति।
ततोऽन्येषां ब्रह्मादीनां स्रष्टृत्वादिकं ‘दारुयोषवत्' दारुमयीस्त्रीप्रतिमा-
वत् परतन्त्रमुच्यते पुराणादावित्यर्थः । तदपि न सामस्त्येनेत्याह—ए-
कदेश इति । सृष्ट्यादिकमिति पूर्वत्रापि सम्बध्यते । चोऽवधारणेऽप्य-
र्थे च । तथा चात्र परतन्त्रेऽन्यनिष्ठस्रष्टृत्वाद्येकदेशस्य क्रियैव ज-
गदेकदेशविषयैव सृष्ट्यादिक्रिया निविष्टा, न तु ‘सर्वात्मना' सर्वथा
सर्वजगत्सम्बन्धिसृष्ट्यादिकमीरितं निविष्टमुक्तमित्यर्थः । यद्वा—पर-
तन्त्रेऽपि ब्रह्मादिजीवे ‘एकदेशक्रिया' जगदेकदेशस्यैव क्रिया सृष्ट्या-
दिरूपा तत्कर्तृत्वमिति यावत् । ‘न तु सर्वात्मना' सर्वथा सर्वजगत्स-
म्बन्धिसृष्ट्यादिकं तत्कर्तृत्वमीरितं प्रमाणेषु । तर्हि समस्तं सृष्ट्यादि-
कं कस्माद्भवेदित्यत आह—सृष्ट्यादिकमिति । तुशब्दो विशेषार्थः ।
परादिति हेतुगर्भम् । तथा च ‘समस्तं' सर्वजगत्सम्बन्धिसृष्ट्यादिकं
‘परात्' स्वतन्त्राद्विष्णोरेव भवेत्, न त्वन्यस्मादित्यर्थः । तथा चा-
न्तकत्वश्रुतिः पराधीनसंहारकर्तृत्वपरा परतन्त्रजगदेकदेशसंहृतिकर्तृ
५६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
( ५ ) निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।
हिरण्यगर्भश्शर्वश्च कालाख्यारूपिणस्तव ॥ इति
च भागवते ।
( ६ ) ‘स ब्रह्मणा विसृजति स रुद्रेण विलापयति सोऽनुत्प-
त्तिलय एक एव हरिः परः परानन्दः ’ इति च म-
त्वविषयतया भाक्ता चेति न तद्विरोध इति भावः । स्कान्द इत्यनन्तर-
मुक्तमिति शेषः ॥
(५) रुद्रस्य संहारे पारतन्त्र्यं च विष्णुकर्तृके तस्मिन् द्वारत्व-
मेवेति भावेनाह—निमित्तमिति ॥ दशमस्कन्धे उद्धववाक्यमेतत् ।
तवेति कृष्ण उच्यते । तस्य कालाख्यारूपिण इति हेतुगर्भं विशेषण-
म् । आख्या च रूपं च आख्यारूपे काल इत्याख्यारूपे यस्यासौ का-
लाख्यारूपी तस्येति विग्रहः । यस्येति बहुव्रीहिज्ञापकटीका तु इनेरर्थ-
कथनपरा । रूपस्याकृतेः कालत्वं सर्वसंहर्तृत्वादिगुणसम्पन्नत्वं, का-
लशब्दो जगद्बन्धनच्छेदनज्ञानादिसर्वभगवद्धर्मवाचीति गीताभाष्यो-
क्तः । धर्मविशिष्टभगवद्वाचीति तदर्थः । यद्वा—‘विष्णौ चाधीश्वरे
चित्तं धारयन् कालविग्रहः’ इति गीताभाष्योदाहृतस्मृतेः प्रमेयदीपे
कालनामा विग्रहो यस्यासौ तथोक्त इति व्याख्यानादत्रापि सप्तम्य-
न्तरूपपदघटितबहुव्रीहिसमासविग्रहप्रदर्शकतया टीका व्याख्येया ।
न चैवं कालाख्यारूपिण इति न स्यादिति वाच्यम् । आरूपिणो व्या-
प्ररूपिण इति आङ् प्रश्लेषात् । अस्य काल इत्याख्यया युक्तं रूपम-
स्यास्तीति मध्यमपदलोपित्वाद्वा । तत्त्वप्रदीपे तु—कालाख्यैव काल
इति नामैव रूपं ज्ञापकं वाचकत्वेन तद्वानिति व्याख्यातम् । तथा च
कालाख्यारूपिण ईशस्य तव ‘विश्वसर्गनिरोधयोः’ जगत्सृष्टिसंहार-
योः हिरण्यगर्भः शर्वश्च ‘निमित्तमात्रं’ द्वारमात्रं न तु स्वतन्त्रकारणं
मित्यर्थः । इति चेति चशब्दो न केवलं स्कान्दे, किन्तु भागवते चेति
समुच्चयार्थः । अत्रापि पूर्ववदेव शेषः ॥
(६) भागवतस्मृतेर्मूलभूतां श्रुतिं चाह—स इति ॥ स विष्णुः ब्र-
ह्मणा द्वारभूतेनेति शेषः । एवं रुद्रेणेत्यत्रापि । ‘विसृजति’ विविधं
सृजति । ‘विलापयति’ विनाशयति । सृष्ट्यादौ विष्णोरेव मुख्यकार-
णत्वे हेतुमाह—सोऽनुत्पत्तिलयो यत इति । उत्पत्तिनाशशून्य इत्य-
र्थः । स एक एव हरिरित्यन्वयः । ‘परः’ उत्तमो विलक्षणो वा । अने-
[ अधि - ८. सू - १४. ] दीपिकासहितम्. ५६५
होपनिषदि ॥ १३ ॥
--:--
८. अधिकरणम् ॥
( १ ) ' अत एव हीदं परात्क्रमादुत्पद्यते क्रमाद्विलीयते न
सावुदेति नास्तमेति' इति भाल्लवेयश्रुतौ क्रमाल्लयः
प्रतीयते ।
अक्षरात्परमादेव सर्वमुत्पद्यते क्रमात् ।
व्युत्क्रमाद्विलयश्चैव तस्मिन्नेव परात्मनि ॥
इति चतुर्वेदशिखायां व्युत्क्रमाल्लयः प्रतीयते ।
( २ ) अत आह—
सू— ॐ ॥ विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ ॐ ॥ १४ ॥
न ममत्वादिदोषराहित्येन लोकपितृवैलक्षण्याल्लोके पितुरन्यस्य मार-
कत्वेऽपि प्रकृते पितुरेव विष्णोर्मारकत्वोक्तौ न लोकविरोधः, तस्या-
दोषत्वादिति सूचितम् । 'परानन्दः' पूर्णानन्दः निर्दुःखत्वं चोक्तम्।
महोपानिषदीत्यस्य ब्रह्मरुद्रयोर्द्वारत्वमेवोक्तमित्यध्याहारेणान्वयः ॥७॥
॥ इति तदभिध्यानाधिकरणम् ॥
-:※:-
८. अधिकरणम् ॥
( १ ) अस्मिन्नधिकरणे अधिभूतादिसंहारक्रमविषयश्रुतिविरोधः
परिह्रियते । अत्र प्रकृताधिभूतादीनि किमुत्पत्तिक्रमानुसारेण भगव-
ता लीयन्ते व्युत्क्रमेण वेति सन्देहस्य बीजभूतं श्रुतिविगानं दर्शय-
ति—अत एवेति ॥ पूर्वप्रकृतादेव 'परात्' उत्तमात् 'इदं' जगत् 'क्र-
मात्' तत्त्वदेवतातारतम्यक्रमेणैवोत्पद्यते, क्रमेणैव लीयते इत्यर्थः । न
जगद्वत्परमात्माप्युत्पत्तिनाशवानित्याह—नेति । 'असौ' परमात्मा
'नोदेति' नोत्पद्यते 'अस्तं' नाशं 'नैति' न प्राप्नोतीत्यर्थः । श्रीतत्त्व-
व्यावृत्त्यर्थं परमादक्षराद्विष्णोरिति । न त्वन्यस्मादिति प्रथमैवकारस्य
व्युत्क्रमादेवेति द्वितीयस्य न त्वन्यस्मिन्निति तृतीयस्य चार्थः । उत्प-
त्तिक्रमेणैव लीयन्ते 'अत एव' इति श्रुतेर्लोकानुकूल्याच्च ।
( २ ) इति प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥
क्रमवचनमपीत्यनेन सूत्रे आवृत्तः क्रमशब्दः क्रमवचनपरः । अप्यर्थे
स्तुरित्युक्तं भवति । अपिः बाधकत्वेन उपन्यस्तमपीति विशेषणसमु-
५६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
क्रमवचनमपि विपरीतक्रमापेक्षया ।
(३) कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च ।
यः क्रमाद्व्युत्क्रमाच्चैव स हरिः पर उच्यते ॥
इत्यत एव भाल्लवेयश्रुतिवचनात् ॥
(४) अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः ।
इति क्रमेण भगवान् सृष्टिसंहारकृद्विभुः॥ इति च पाद्मे॥
(५) पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च ।
ष्यर्थः । आवृत्तस्य विपर्ययेणेत्यस्यार्थः विपरीतेति । प्रवृत्तं यत इति
शेषः । अस्यातो लयक्रमः विपर्ययेण उत्पत्तिक्रमवैपरीत्येनेवेति सौ
त्रपदोक्तसाध्येनान्वयः ॥
(३) कुतः क्रमश्रुतेरर्थान्तरकल्पनमित्यतोऽपि प्रवृत्तं अत इति प
दं तुशब्दार्थावधारणान्विततयाऽनूद्य व्याचष्टे—कर्तेति ॥ कर्तेत्यतः
प्राक् अतएवेत्युत्तरवचनात् कुत इत्युपस्कार्यम् । यस्यामेव श्रुतौ क्र
माल्लयः श्रूयते, तस्यामेव वचनान्न त्वन्यस्यामित्येवशब्दार्थः । यः 'प्रा
णादिकस्य' ब्रह्मादिकस्यास्य जगतः क्रमात्कर्ता यश्च 'भूम्यादिक
स्यास्य' व्युत्क्रमाद्धन्ता स हरेरेव परो, न त्वन्य इत्यर्थः । अनेनोत्प
त्तावुत्तमक्रमः, लये त्वधमक्रम इति सूचितम् ॥
(४) ननु श्रुतित्वाविशेषात् व्युत्क्रमश्रुत्या क्रमश्रुतेः कुतो बाधः,
विपरीतमेवं किं न स्यादित्यतोऽतःशब्दसूचितां स्मृतिमाह—अनुरूप
इति ॥ योजना तु—क्रमो द्विविधः अनुरूपः प्रतिरूपश्चेति । तत्र सृष्टौ
यः क्रमः सोऽनुरूपः । उत्तमादितारतम्यानुसारित्वात् । यो लये क्रमः
स प्रतिरूपः उत्तमादितारतम्यप्रतिकूलत्वात् । एवमुभयविधक्रमेण
'विभुः' समर्थो भगवान् सृष्टिसंहारकर्तेति । पाद्म इत्यनन्तरं वचना
दित्यनुषज्यते । अस्य सावकाशक्रमश्रुतेर्निरवकाशव्युत्क्रमपदघटित
श्रुत्या बाधो युक्त इत्याहृतसाध्यवाक्येनान्वयः ॥
(५) व्युत्क्रमालयाङ्गीकारे लोकविरोधापातान्नासौ युक्तो, लोके
प्रायेण पूर्वोत्पन्नानां पित्रादीनां प्रथमं लयदर्शनादित्यतः प्रवृत्तमतः
शब्दावृत्त्या उपपद्यते चेत्यंशं व्याचष्टे—पूर्वेषामिति ॥ पूर्वोत्पन्नानामि
त्यर्थः । उपपद्यत इत्यतः प्राक् लये क्रमो विपर्ययेणेति सूत्रांश आवृ
त्या संयोज्यः। उपपद्यत इत्यस्य सामर्थ्याधिक्ययुक्त्या सिद्ध्यतीत्यर्थः।
यद्वा-उपपद्यत इत्यस्य युज्यत इत्यर्थः। सामर्थ्याधिक्यं त्वतश्शब्दार्थः।
[ अधि - ८. सू - १४. ] दीपिकासहितम्. ५६७
( ६ ) वामने च—
पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् ।
सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ॥
न केवलं श्रूयते, किन्तु युज्यते चेति समुच्चये चशब्दः । तथा च लौकि-
कानां प्रायशशतवर्षजीवित्वादिरूपस्य बलज्ञानादिरूपस्य वा सामर्थ्य-
स्य साम्यात् क्रमाल्लयेऽपि नासावलौकिकतत्त्वदेवतालये भवति, यतः
पूर्वोत्पन्नानां सामर्थ्याधिक्यादुत्तरेषां तदभावात्, एवं च लौकिकविरोध-
स्यैष गुणवादिति भावः । पूर्वोत्पन्नेषु सर्वत्र उत्तरोत्पन्नापेक्षया साम-
र्थ्याधिक्यमस्तीति ज्ञापनाय द्विर्वचनम्। अनेन—यतः ‘क्रमस्तु’ क्रमवच-
नमपि ‘विपर्ययेण’ विपरीतक्रमापेक्षया प्रवृत्तमतो लये क्रमः ‘विपर्यये-
ण तु’ उत्पत्तिक्रमवैपरीत्येनैव। कुतोऽर्थान्तरकल्पनं क्रमश्रुतेः? अत एव व्यु-
त्क्रमाल्लयश्चेति श्रुतेरेव । तथाऽपि क्रमश्रुतेः कुतो बाधः श्रुतित्वाविशे-
षात् विपरीतं किं न स्यात् । अत एव सावकाशत्वादेव । न च लोक-
विरोधः । यत उपपद्यते चायं व्युत्क्रमो युज्यते च । कथम्? अतः
सामर्थ्याधिक्यात् । न केवलं श्रुत्योच्यते व्युत्क्रमः किन्तु उपपद्यते
चेति सूत्रार्थ उक्तो भवति ॥
( ६ ) ननु पूर्वोत्पन्नानां सामर्थ्याधिक्यमेव कुतः ? येन पश्चाल्लयः
स्यादित्यत आह—वामने चेति ॥ सामस्त्यं वीप्सार्थः । तथा च यतः
‘पूर्वे पूर्वे’ आदिसृष्टौ पूर्वोत्पन्नेषु चतुर्मुखादितत्त्वदेवेषु विष्णोः ‘स-
न्निधानं' सन्निधिः ‘क्रमाधिकं' तारतम्यक्रमेणाधिकं अत एव तेषां
पूर्वोत्पन्नानां पश्चादुत्पन्नापेक्षया ‘सामर्थ्याधिक्यम्' बलज्ञानशक्त्याधि-
क्यमेवास्ति । न केवलमेतावत्, किन्तु तेषां ‘व्याप्तिः' अण्डाद्बहिः
स्वस्वाभिमन्यमानपर्यन्तं देहतो व्याप्तिरपि तारतम्यक्रमेणाधिकैव,
न न्यूना समा च । यत एवं अतस्तेषां पश्चादेव लयो न कदाचित्पूर्व,
नात्र संशय इत्यर्थः । तथाशब्द उपमायां समुच्चये वा। तेन पश्चादुत्प-
न्नेषु उक्तवैपरीत्यं च सिध्यति । ‘पूर्वादिभ्यो नवभ्यो वा' इति सर्वना-
मसंज्ञायां विकल्पानुशासनात् तदभावपक्षे पूर्व इत्येतत्सप्तम्यन्तं, तद्भा-
वपक्षे तु प्रथमाबहुवचनमिदम् । न च तथात्वे सन्निधानमित्यस्यान-
न्वयः । सन्निधीयते विष्णुरत्रेतिव्युत्पत्त्याऽस्य प्रतिमापरत्वात् । तथा-
त्वे ‘पूर्वे पूर्वे’ पूर्वपूर्वमुत्पन्नास्तत्त्वदेवाः यतो विष्णोः ‘क्रमाधिकं स-
न्निधानं' क्रमेणाधिकप्रतिमारूपा इति योजना । इति वामन इत्यन्व-
५६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः ॥ इति च ॥ १४॥
----------------- ⁂ -----------------
९. अधिकरणम् ॥
( १ ) सू- ॐ ॥ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादि-
ति चेन्नाविशेषात् ॥ ॐ ॥ १५ ॥
'प्राणान्मनो मनसश्च विज्ञानम्' 'यच्छेद्वाङ्मनसी
प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि' (कठ. ३ - १३.) इति
लिङ्गाद्विज्ञानमनसी अन्तरा विपरीतक्रम इति चेत्—
थः । वचनादित्यत्राप्यनुषज्यते । न सामर्थ्यात्क्रियासिद्धिरित्यध्याहृ-
तेनान्वयः ॥ ८ ॥
इति विपर्ययाधिकरणम् ॥
—: ۞ :—
९. अधिकरणम् ॥
( १ ) अत्राधिकरणे पूर्वोक्तव्युत्क्रमेण लये विज्ञानादौ काँचिदप-
वादशङ्का निराक्रियते । पूर्वपक्षस्य सूत्र एवोक्तत्वात् तत्पाठित्वा पूर्व-
पक्षांशं तावद्व्याचष्टे—अन्तरेति ॥ तल्लिङ्गादित्येतच्छ्रुत्युक्तक्रमादुप-
त्तिक्रमाल्लयाख्यलिङ्गादित्यर्थः । यद्वा— इत्येतद्रूपालिङ्गदर्शनादित्यर्थः ।
मनसः पूर्वोत्पन्नत्वं 'प्राणान्मनः' इति श्रुत्युदाहरणेन तस्य पूर्वमेव
लये 'यच्छेत्' इति श्रुत्युदाहरणेन चोभयोरसिद्धिः परिहृता । पूर्व-
पक्षे प्राणात् 'मनो' मनस्तत्त्वं जातं ततो विज्ञानतत्त्वं जातमित्यर्थः ।
सिद्धान्ते तु—मुख्यप्राणान्मनोरूपेन्द्रियं, तस्माद्वृत्तिरूपं विज्ञानं उत्प-
न्नमित्यर्थः । यच्छेद्दिति काठकवाक्ये पूर्वपक्षे मनश्शब्दस्तत्त्वपरः ।
सिद्धान्तेऽर्थस्तु—'प्राज्ञो' ज्ञानी 'वाक्' वाक्तत्त्वं तदभिमानिनी उ-
मा 'मनसि' मनस्तत्त्वे तदभिमानिनि रुद्रे 'यच्छेत्' उपरेमेत्तद्वश-
त्वात्तत्र लीयत इति स्मरेदिति यावत् । 'तत्' मनः 'ज्ञान आत्मनि'
विज्ञानतत्त्वाभिमानिन्यां वाण्यां लीयत इति ध्यायेदिति । प्रमेयदीपे
तु—'यच्छेत्' नियच्छेदिति काठकभाष्यानुरोधात् 'वाक्' वाचं म-
नसि 'यच्छेत्' तन्नियतां ध्यायेत् वाग्देवतां मनोदेवताधीनतया चि-
न्तयेदिति विपरिणामाश्रयेण अध्याहारं लयपरत्वं च विना व्याख्यात-
म् । अत एव तत्त्वप्रदीपकारोऽपि वाचं मनसि यच्छेत इत्येवाह । मन
[अधि - ९. - सू- १६.] दीपिकासहितम्. ५६९
(२) न, विशेषप्रमाणाभावात् ॥ १५ ॥
(३) ॥ सू-ॐ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भा
क्तस्तद्भावभावित्वात् ॥ ॐ ॥ १६ ॥
'मनसश्च विज्ञानम्' इति व्यपदेशश्चराचरेष्वालोच
सीति दीर्घश्छान्दसः। वाङ्मनसी परस्परं 'यच्छेत्' एकैकञ्चैकैके
यच्छेत् इति व्याख्यानं त्वाहृतग्रन्थविरुद्धम् । हेत्वंशं व्याख्याय पूर्व
पक्षप्रतिज्ञांशं व्याचष्टे—विज्ञानमनसी इति । तत्त्वे इति शेषः । द्विती
याद्विवचनमेतत्। 'अन्तरा' विना। विपरीतक्रम इत्यनेन क्रमेणेत्येतदुक्ता
र्थं, अन्येषां लय इत्यादौ ग्राह्यम् । तेन सूत्रे लय इति शेषो दर्शितः ॥
(२) सिद्धान्तांशे व्याचष्टे—नेति ॥ विज्ञानमनस्तत्त्वे विना विप
रीतक्रमेण लय इत्युक्तं नेत्यर्थः । कुतो नेत्यतः प्रवृत्तं अविशेषादित्येत
द्विशेषधर्मरहितत्वादित्यन्यथाप्रतीतिनिरासाय व्याचष्टे—विशेषेति ।
सङ्कोचकप्रमाणाभावादित्यर्थः । यद्वा-विज्ञानमनस्तत्त्वयोर्यथोत्पत्ति
लय इति विशेषप्रमाणाभावादित्यर्थः । ननु सर्वेषामपि विपरीतक्रमेणै
व लय इत्यत्रापि प्रमाणं नास्ति । तथा च साम्यमेवेत्यतोऽप्याह—वि
शेषेति । अभावादिति विच्छेदः । तथा च सर्वे वा एतत्क्रमादुत्पद्यते
क्रमाद्विलीयते इति विशेषप्रमाणाभावादित्यर्थः । अनेन नाविशेषादि
त्येकपदं सूचितम् । अथ वा—अभावादित्येव छेदः । तथात्वे सर्वं वे
त्यविशेषप्रमाणाभावादित्यर्थः ॥
(३) नन्वस्त्येवोक्तं लिङ्गदर्शनं केषां चित्क्रमाल्लयः, केषां चिद्युत्क्रम
मादित्यत्र विशेषप्रमाणरूपमतः कथं विशेषप्रमाणाभाव इत्याशङ्कां परि
हरत्सूत्रमुपन्यस्य व्याचष्टे—चराचरेति ॥ मनसश्च विज्ञानमिति व्यप
देश इत्यनेन तद्व्यपदेश इत्येतत् स चासौ व्यपदेशश्च तद्व्यपदेशो
मनो विज्ञानमिति शब्द इति व्याख्यातम् । 'चराचरेषु' जङ्गमस्थाव
रेषु । विषयसप्तमीयम् । इदं चराचरेषु व्यपदेशश्चञ्चलान्तःकरणाव
बोधरूपचरतत्त्वरूपांचरविषयको व्यपदेश इति चराचरेष्वालोचना
दिति चोभयान्वयि । पूर्वत्रान्वयेन चराचरव्यपाश्रयो व्यपदेश इत्येत
द्व्याख्यातम् । चराचरेष्वालोचनाद्विज्ञानं भवतीत्यनेन च तद्भावभा
वित्वादित्यंशः तस्मिन् चराचरविषये तस्य मनसो भावेनालोचनेन त
स्यावबोधस्य वृत्तिज्ञानस्य भावित्वात् उत्पद्यमानत्वादिति व्याख्या
तः। यद्वा—चराचरेष्वालोचनादित्यनेन चन्द्रिकारीत्या चराचरव्य
७२
`
Wait!
"भागापेक्षया स्यात्" इति वदता सूत्रस्थः "तु" शब्दः, अथवा "भाक्त" शब्दः?
Wait, does the sutra have "भाक्तः"?
Wait, let's look at BS 2.3 in Madhva:
Wait! BS 2.3.17:
Let's list the sutras in Madhva 2.3:
- न वियदश्रुतेः
- अस्ति तु
- गौण्यसम्भवात्
- शब्दाच्च
- स्याच्चैकस्य ब्रह्मशब्दवत्
- प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः
- यावद्विकारं तु प्रभागो लोकवत्
- एतेन मातरिश्वा व्याख्यातः
- असम्भवस्तु सतोऽनुपपत्तेः
- तेजोऽतस्तथा ह्याह
- आपः
- पृथिव्यधिकाररूपशब्दान्तरेभ्यः
- तदभिध्यानादेव तु तल्लिङ्गात्सः
- विपर्ययेण तु क्रमोऽत उपपद्यते च
- अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्
- चरा
[ अधि - १०. सू - १७. ] दीपिकासहितम्. ५७१
विज्ञानतत्त्वात्तु मनो मनस्तत्त्वाच्च खादिकम् ।
एवं बाह्या परा सृष्टिरन्तस्तद्व्यक्त्यपेक्षया ॥
विपरीतक्रमो ज्ञेयो यस्मादन्ते हरेर्दृशिः ॥ इति ॥ १६ ॥
१०. अधिकरणम् ॥
( १ ) सू— ॐ ॥ नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॥ ॐ ॥ १७ ॥
का च । अथ यत्र क्वचित्त्तत्त्वानामेव अवरस्य पूर्वत्वमित्येवंरूपो विप-
रीतक्रमः श्रूयते, तत्र कथमित्यतस्तस्या विषयमाह—अन्तरिति । 'वि-
परीतक्रमः' परादित्युक्तापेक्षया विपरीतक्रमोत्पत्तिश्रुतिः 'प्राणान्मनोम-
नसश्च विज्ञानम्'इत्येवमादिरूपा अन्तः ब्रह्माण्डस्य देहस्य चान्तस्तत्त्वा-
भिव्यक्तौ ज्ञानिनां तदापरोक्ष्ये च क्रमापेक्षया च प्रवृत्तेत्यर्थः । यथो-
क्तं तत्त्वप्रदीपे—यस्मादवरेषा
५७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
' स इदं सर्वं विलाप्यान्तस्तमसि निलीनस्तद्विलाप्य
व्युत्तिष्ठते स इदं सर्वं विसृजति विलापयति विस्था
पयति प्रस्थापयत्याच्छादयति प्रकाशयति विमोचय
त्येक एव' ( ) इति श्रुतेः परमात्माऽपि न
लीयते अश्रुतत्वाद्ब्रह्मलयस्य ।
( २ ) निलीनशब्देनापिहितत्वमुच्यते । तुच्छ्येनाभ्वपि
हितं यदासीत् , ( ऋ.१०-१२९-३. ) इति श्रुतेः ।
ते। तत्र सूत्रमुपन्यस्य पूर्वपक्षं सूचयन् व्याचष्टे—नेति ॥ श्रुतेरित्यनेन
सूत्रे श्रुतेरित्यपिपदच्छेदः सूचितः। परमात्माऽपि लीयते इति नेत्यर्थः।
न केवलं पृथिव्यादिरित्यपिशब्दार्थः। अनेन 'आत्मा चेत्यन्वितश्चशब्दो
ऽप्यर्थतयाऽपि व्याख्यातः । तथा 'तमसि निलीनः' इति
श्रुतेः चेतनत्वयुक्तेश्च परमात्माऽपि लीयत इति सयुक्तिकपूर्वपक्ष
श्च सूचितः । सृष्ट्याद्यनेककर्तृत्वरूपब्रह्मलिङ्गप्रतिपादक 'स इदम्' इ
त्यादिवाक्यशेषोदाहरणं तु निलीनश्रुतेरीश्वरैकविषयत्वेन निरवकाश
त्वोपपादनाय । 'सः' एक एव परमात्मा 'इदं सर्वं' जगद्विलाप्य
चित्प्रकृतिरूपोदकात्मकेन तमसाऽऽच्छाद्य संहृत्य स्वयं तमस्यन्तर्नि
लीनः प्रकृतावाच्छन्नोऽथ तत्प्रकृतिरूपं तमो विलाप्याऽच्छाद्य स्वयं
'व्युत्तिष्ठते' प्रादुर्भवति । अथ स इदं जगत्सृजति। सृष्ट्वा च विविधं
'स्थापयति' स्थितिं प्रापयति। अथ 'विलापयति' संहारयति 'प्र
स्थापयति' प्रेरयति 'आच्छादयति' अज्ञानेनावृतं करोति 'प्रकाश
यति' जीवकर्तृकानुभवेन जीवं संयोजयति 'विमोचयति' स्वप्राप्ति
तबन्धादित्यर्थः । सर्वत्रान्वयार्थं स इति द्विरुक्तिः । नेत्यनेन सिद्धान्त
प्रतिज्ञाया उक्तत्वात् तत्राश्रुतेरिति पदच्छेदेनोक्तं हेतुं योजयति—अ
श्रुतत्वादिति । 'तद्विलाप्य व्युत्तिष्ठते' इत्याद्युक्तयोदाहृतश्रुतितोऽपि
ब्रह्मलयो नेति ज्ञायते । न चान्यतो ब्रह्मलयः श्रुतः । अतः कस्यामपि
श्रुतौ ब्रह्मलयस्याश्रुतत्वादित्यर्थः । परमात्मनः प्रकृतत्वात्तल्लयस्येत्ये
तावता पूतौ ब्रह्मेत्युक्तिः कालापरिच्छिन्नत्वरूपयुक्तिसूचनाथौ ॥
( २ ) नन्वन्तस्तमसि निलीन इति ब्रह्मलयस्य श्रुतत्वात्कथमुच्य
ते अश्रुतत्वमित्यत आह—निलीनेति ॥ अपिहितत्वमाच्छादितत्वम् ।
उपलक्षणमेतत् । इतरादृश्यत्वमित्यपि द्रष्टव्यम् । अतएव पैङ्गिश्रुता
वदृश्यत्वमुच्यते । यथोक्तं बृहद्भाष्ये—
[ अधि - १०. - सू - १७. ] दीपिकासहितम्. ५७३
' स एतस्मिम् स्तमासि निलीनः प्रकृतिं पुरुषं कालं
चानुपश्यति कश्चन ' इति पैङ्गिश्रुतिः ।
(४) ' नित्यो नित्यानां चेतनश्चेतनानाम् ' ( कठ. ५-१३. )
' स नित्यो निर्गुणो विभुः परः परमात्मा ' ' नित्यो वि
लौकिकव्यवहारो यो भूभारक्षपणादिकः ।
तद्दृष्टिं विना नान्यो लयः कृष्णादिनां क्वचित् ॥ इति ॥
लौकिको लोकविषयकः। कुतो निलीनशब्दोऽपिहितार्थकः, येनाश्रुत
त्वं सिद्ध्येत् इत्यतस्तदुत्तरत्वेनापि श्रुतेरिति छेदेनोक्तां श्रुतिं दर्शय
ति—तुरुच्छ्येनेति । श्रुतेरिति । समाख्यारूपश्रुतेरित्यर्थः । ' स इदं स
र्वे विलाप्य ' इत्यादेः ' व्युत्तिष्ठते ' इत्यन्तस्य ' नासदासीत् ' इत्यादेः
' महिना जायतैकम् ' इत्यन्तस्य च समर्थनार्थत्वादिति भावः । श्रुते
रित्यस्य पूर्वेणान्वयः । व्याख्यैतेयं श्रुतिः आनुमानिकनये। निलीनत्व
मिहापिहितत्वमेव न त्वन्यदिति ॥
( ३ ) अत्र न केवलं समाख्यानं, किन्तु वाक्यमपीत्याशयेन श्रुते
रित्यनेनोक्तं श्रुतिवाक्यं चाह—स इति ॥ अत्र पूर्वोत्तरवाक्यार्थप
र्यालोचनया वाक्यलक्षणप्रमाणेनार्थात् निलीनशब्दोऽपिहितार्थे प्र
युक्त इति ज्ञायते । केचिदियमपि प्रयोगरूपश्रुतित्वात्समात्र्यैव, समा
ख्यादीनामिति टीका तु वस्तुस्थितिकथनपरेत्याहुः। ' सः ' परमात्मा
' एतस्मिन् ' प्रकृतिरूपे तमसि ' निलीनः ' छन्नः स्वयं प्रकृतिजीवका
लाननुपश्यति एनं तु न कोऽपि पश्यतीत्यर्थः । ' पैङ्गिश्रुतेः ' पैङ्गीनां वा
क्यात् । अस्यापि निलीनशब्देनेति पूर्ववाक्येनान्वयः ॥
( ४ ) ननु किमर्थमेवं निलीनश्रुतेरर्थान्तरं परिकल्प्यते अस्याः ल
य एवार्थः किं न स्यात् । न च समाख्यादिविरोधः । तस्य श्रुतितो
दुर्बलत्वात् । न च ' नित्यो नित्यानाम् ' इति श्रुत्यन्तरबलात् । तस्या
प्रामाण्योपपत्तेरित्यतः प्रवृत्तं नित्यत्वाच्च ताभ्य इत्यंशं व्याचष्टे—
नित्य इति ॥
नित्यो नित्यानां चेतनश्चेतनानां
एको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेषां शान्तिः शाश्वती नेतरेषाम् ॥
इति कठश्रुतेरयमर्थः—' नित्यानां ' स्वरूपतः अविनाशिनां सकाशा
५७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
भुः कारणो लोकसाक्षी परो गुणैस्सर्वदृक् शाश्वतश्च'
( ) इत्यादिश्रुतिभ्यो नित्यत्वाच्च ॥ १७ ॥
--
११. अधिकरणम् ॥
(१) 'नित्यो नित्यानाम्' (कठ. ५-१३.) इति जीवस्यापि नित्यत्वमुक्तम् ।
'सर्व एते चिदात्मानो व्युच्चरन्ति' इत्युत्पत्तिरुच्यते।
त 'नित्यो' देहतोऽपि नित्यः परमनित्य इति यावत् । नित्यानां नित्य-
त्वप्रद इति वा । एवं 'चेतनानां' ज्ञातॄणामपि 'चेतनः' परमचेत-
नः, तेषां चैतन्यप्रद इति वा । यश्च स्वयमेक एव 'बहूनां' पुरुषाणां
'कामान्' काम्यान् 'विदधाति' करोति तं हृदयस्थं ये धीराः अनु-
पश्यन्ति तेषां 'शाश्वती' पुनरावृत्तिशून्या 'शान्तिः' मोक्षो भवेन्नेत-
रेषामिति । 'स नित्यः' इत्यन्यश्रुतिवाक्यम् । स परमात्मा देहतोऽपि
नित्यः, यतो 'निर्गुणः' सत्त्वादिगुणाबद्धो विभुः परो विलक्षणोऽत इ-
त्यर्थः । 'नित्यो विभुः' इत्यन्या श्रुतिः । नित्यत्वे हेतुर्विभुरित्यादिकं ।
'कारणः' कारणं जगत इति शेषः । 'गुणैः' गुणेभ्यस्सत्त्वादिभ्यः
'परो' मुक्तः गुणमयदेहादिवर्जितः 'सर्वदृक्' सर्वज्ञः 'शाश्वतो'
निर्विकार इत्यर्थः । आदिशब्देन नित्यत्वबोधकवाक्यान्तरं गृह्यते । ता-
भ्य इत्यस्य व्याख्या श्रुतिभ्य इति । नित्यत्वादिति। देहतोऽपि नित्यत्वा-
वगमादित्यर्थः । ब्रह्मण इत्यनुषज्यते । अस्यापि निर्लीनशब्देनापिहित-
त्वमुच्यत इति पूर्वेणान्वयः । चशब्दो हेतुसमुच्चये । तथा च बाहुल्ये-
न 'नित्यः' इत्यादिश्रुतीनां प्राबल्यान्नेतरश्रुतिविरोधेन अप्रामाण्यं शङ्क्य-
मिति तच्छ्रुतिविरोधान्निर्लीनश्रुतेरर्थान्तरकल्पनं युक्तमिति भावः॥१०॥
॥ इति आत्माधिकरणम् ॥
-:--:-
११. अधिकरणम् ॥
( १ ) अत्राधिकरणे जीवजन्मविषयश्रुतिविरोधः परिह्रियते । स-
न्देहबीजं श्रुतिविरोधं दर्शयति—नित्य इति ॥ न केवलं परस्येत्यपि
शब्दार्थः । नित्यत्वमिति । अविनाशित्वमित्यर्थः । उक्तमिति । पूर्वाधि-
करणोदाहृतवाक्येनेति शेषः । न चोत्पत्तिश्रुतिप्रतियोग्यनादित्वश्रुतेरे-
वोदाहर्तव्यतया नित्यत्वश्रुत्युदाहरणमसङ्गतमेवेति वाच्यम् । भावस्य
[header] [ अधि - ११. सू - १८. ] दीपिकासहितम् ५७५
अतो विरोध इति ।
( २ ) अत आह—
सू—ॐ ॥ ज्ञोऽत एव ॥ ॐ ॥ १८ ॥
जीवोऽप्यत एव परमेश्वरादुत्पद्यते, शब्दादेव । ‘ ते
वा एते चिदात्मानो विनष्टाः परं ज्योतिर्निविशन्त्यवि
नष्टा एवोत्पद्यन्ते न विनश्यन्ति कदाचन ’ इति का
षायणश्रुतिः ॥ १८ ॥
सतः नित्यत्वोक्त्यनुपपत्तित एव प्रागभावाप्रतियोगित्वरूपानादित्व
स्याप्युक्तप्रायत्वात् । इतीति । इति श्रुत्यन्तरेणेत्यर्थः । ‘ आत्मानो ’
जीवाः ‘ व्युच्चरन्ति ’ मातृदेहात् निस्सरन्ति जायन्त इत्यर्थः । ततः
किमित्यत आह—अत इति । यत एवं श्रुतिद्वयेन विरुद्धार्थद्वयमुक्तं,
अतः श्रुत्योर्विरोध इत्यर्थः ॥
( २ ) अनुत्पत्तिज्ञापकनित्यत्वश्रुत्युपन्यासेनैव जीवोऽनुत्पत्तिमान्
प्रागभावाप्रतियोगित्वरूपानादित्वात् ईश्वरवदिति सयुक्तिकपूर्वप
क्षो लब्धो भवतीत्याशयवान् सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अ
त इति ॥ जीव इत्यनेन जानातीति व्युत्पत्त्या ज्ञो जीव इति ज्ञशब्दो
व्याख्यातः । पूर्वसूत्रादनुवृत्तस्य चशब्दस्यार्थोऽपीति । न केवलं विय
दादिः किन्तु जीवोऽपीति तस्यार्थः । यद्वा—नित्यत्वेनोक्तोऽपीत्यर्थः ।
अत इत्यनुवादेन परमेश्वरादिति व्याख्यानम् । परमेश्वरादेवेत्येवका
रान्वयः । सर्वसूत्रेषु तस्यैव प्रकृतत्वादिति भावः । उत्पद्यत इति सू
त्रे शेषोक्तिः । एवकारस्यात्राप्यन्वयः । उत्पद्यत इत्यावर्तते । अनेन
जीवोऽपि उत्पद्यत एव, उत्पद्यमानश्चेश्वरादेव उत्पद्यत इति प्रतिज्ञाद्व
यं सूचितं भवति । उभयत्र हेतुमाह—शब्दादेवेति । अनेनातश्शब्द
स्यावृत्तिस्सूचिता । न तत्र प्रमाणान्तरं गवेषणीयमिति एवशब्दार्थः ।
तमेव शब्दमुदाहरति—त इति । वैशब्दोऽवधारणे । ‘ ते ’ प्रसिद्धाः
‘ एते ’ जीवाः यतः ‘ चिदात्मानो ’ ज्ञानस्वरूपाः अतस्स्वरूपतोऽविन
ष्टास्सन्तो ‘ज्योतिः’ प्रकाशरूपं ‘परं ’ ब्रह्म निविशन्ति प्रलये मुक्तौ च।
तर्हि अनादिनित्यत्वश्रुतिविरोध इत्यत आह—अविनष्टा इति । स्वरूप
तः अनादिनित्या एवेत्यर्थः । कादाचित्कनाशोऽपि नेत्याह—नेति । स्व
रूपत इति शेषः। ‘कदाचन’ महाप्रलयेऽन्यदा वेत्यर्थः। इति श्रुतिरित्या
नन्तरं अस्ति हीति शेषः ॥
१७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २। पा - ३। ]
( ३ ) सू—ॐ ॥ युक्तेश्च ॥ ॐ ॥ १९ ॥
नित्यस्यापि हि जीवस्योपाध्यपेक्षयोत्पत्तिर्युज्यते ।
( ४ ) उत्पद्यन्ते चिदात्मानो नित्या नित्यात्परात्मनः ।
उपाध्यपेक्षया तेषां उत्पत्तिरपि गीयते ॥
इति च व्योमसंहितायाम् ॥ १९ ॥
—::—
( ३ ) नन्वनादिनित्यस्य जीवस्योत्पत्तिः श्रुताऽपि कथं युज्यते व-
न्ध्यात्वमभ्युपगम्य मातृत्ववचनवत् नित्यत्वमभ्युपगम्य पुनरुत्पत्तिव-
चनस्य व्याहतत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे-युक्तेश्चे-
ति ॥ 'नित्यस्यापि' अनादिनित्यस्यापि । अपिः यद्यपितथापीत्यर्थे ।
अनेन सूत्रे ज्ञस्येति विपरिणतमनुषज्यते । चोऽप्यर्थः । स च विशेष-
णसमुच्चयार्थोऽपीत्युक्तं भवति । 'उपाध्यपेक्षया' बाह्यशरीराख्योपा-
ध्युत्पत्त्यपेक्षया तद्विषयकतया उत्पत्तिवचनं युज्यत इत्यर्थः । शरीरा-
देरुपाधित्वं न प्रतिफलनाधिकरणत्वम्, किन्तु उत्पत्त्यादिरूपविकार-
विशेषापादकत्वम्, अत एवाह—उत्पत्तिरिति । युज्यत इति । अनेन
नायं युक्तिशब्दो लिङ्गार्थः, किन्तु योगार्थको विवक्षार्थकश्चेति सूचित-
म् । सावधारणं चैतत् । तेन सौत्रचशब्दो व्याख्यातः । अवधारणेन नै-
वमुपचारमात्रम्, किन्तु मुख्यमेव । पराधीनविशेषावाप्तिरूपोत्पत्तेरेवा-
त्र विवक्षितत्वादिति सूचितम् । अनेन—अनादिनित्यस्यापि ज्ञस्य
पराधीनविशेषावाप्तिरूपोत्पत्तेः योगान्न तदुक्ति व्याघात इति सूत्रार्थ
उक्तो भवति ॥
( ४ ) अत्र स्मृतिसम्मतिमाह—उत्पद्यन्त इति ॥ चिदात्मत्वमना-
दिनित्यत्वे हेतुः । तथा च यद्यपि यतश्चिदात्मानो जीवा अतोऽनादिनि-
त्याः, तथाऽपि देहतोऽपि नित्यात्परात्मन उत्पद्यन्ते । व्याहतिमाश-
ङ्कयाह—उपाधीति । बाह्योपाध्युत्पत्त्यपेक्षयेत्यर्थः । 'तेषां' जीवानां,
न केवलमनादिनित्यत्वमित्यपिशब्दार्थः । व्योमसंहितायामित्यनन्तरं
नित्यस्यापीत्यादिशब्देनोक्तं युक्तमिति वाक्यशेषः ॥ १९ ॥
॥ इति ज्ञाधिकरणम् ॥
—::—