सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - १ ० - सू - ३ ० ] दीपिकासहितम् ० ५२९
'शून्योऽलौकिकः' इत्यादिश्रुतिर्गौणी ।
(५) अन्यथोत्पत्तिश्रुतिबाहुल्यासम्भवात् ॥ ३ ॥
र्कैः । चिरंतनत्वमात्रेण गौणी वेत्यर्थः । यद्वा—'इत्यादिश्रुतिर्गौणी'
अमुख्यपदोपेतेत्यर्थः । तद्यथाकरीत्याऽनादिपदमाकाशपदं वा । तस्या
पि भूतेतरस्मिन्नाकाशशब्दबोध्ये लाक्षणिकत्वसम्भवादिति भावः ।
इत्यादिश्रुतिरित्यनेन सूत्रेऽनुत्पत्तिश्रुतिरिति प्रकृतमनुपद्यते इति सू
चितम् । उपलक्षणमेतत् । उत्पत्तिश्रुतिस्तु मुख्यार्था सर्वविषयिणीत्य
पि द्रष्टव्यम् । गौणीत्यनन्तरं यत एवं व्यवस्था युज्यते, अतो नोक्तश्रु
तेस्तद्विरोध इति वाक्यशेषः । श्रुतौ अयमित्यव्याकृताकाशो ग्राह्यः ।
भूते कथमप्यवृत्तेरिति टीकाविरोधान् न भूताकाशोऽपि । आकाशा
नादित्वे हेतुमाह—यतः 'शून्यः' सूक्ष्मः अप्रतिघ इति । सूक्ष्मत्वं वा
योरप्यस्तीति व्यभिचार इत्यतो हेतुगर्भं विशेषणान्तरमाह—अलौ
किक इति । अतीन्द्रिय इत्यर्थः । नन्वव्याकृतस्य साक्षिवेद्यत्वात्कथमे
तत् । न, तत्त्वप्रदीपेरीत्यास्य लौकिकप्राकृतेन्द्रियागम्य इत्यर्थाश्रयणा
त् । ननु तथाऽपि व्यभिचारानुद्धारः, 'आकाशवायू त्वव्यक्तौ' इति भा
गवततात्पर्योक्तेः, तस्य प्रत्यक्षाप्रत्यक्षपञ्चमहाभूतविषयत्वादिति सु
धोधेश्च वायोरप्यतीन्द्रियत्वादिति चेत्—न, भूताकाशस्य दिव्यदृष्टि
गोचरत्वेन तद्विषयेऽव्यक्तशब्दस्य सङ्कोचेऽवश्यंभाविनि तद्वत् वायो
रपि स्पार्शनेन्द्रियग्राह्यत्वमङ्गीकृत्य अव्यक्तशब्दस्येतरेन्द्रियाग्राह्यार्थक
तया सङ्कोचसम्भवात् । अत एव सुधावाक्यस्थाप्रत्यक्षपदमपि भूता
काशमात्रपरं । न च पङ्क्तौ 'वायुस्पर्शाऽपि त्वचो विषयः' इति
वायुस्पर्शमात्रग्रहणविरोधः । वायुस्तत्स्पर्शोऽपीत्यर्थाश्रयणात् । अ
स्तु वा—तात्पर्यसुधानुसाराद्वायोरतीन्द्रियत्वम् । तथाऽपि न व्यभि
चारः । भूताकाशवत् वायोरपि योगिचाक्षुषप्रत्यक्षविषयत्वेन प्राकृते
न्द्रियग्राह्यतया तदग्राह्यत्वहेतोस्तत्राभावात् ॥
(५) ननु किमेतया व्यवस्थया, अनादित्वश्रुत्यनुसारेणानुत्पत्ति
रेव किं नाश्रीयत इत्यतः प्रवृत्तमसम्भवादित्यंशं व्याचष्टे—अन्यथेति ॥
उक्तव्यवस्थामनभ्युपगम्याकाशस्य सर्वथाऽनुत्पत्तेरेवाभ्युपगमे 'उत्प
त्तिश्रुत्यसम्भवात्' तत्प्रामाण्यासम्भवात्तदप्रामाण्यप्रसङ्गादित्यर्थः ।
विषयाभावादिति भावः । ननूत्पत्तिश्रुतेरनुभवाद्यनुसारिबलवदनादि
त्वश्रुतिविरोधेनाप्रामाण्यं युक्तमिति नेदमनिष्टमित्याशङ्कोत्तरत्वेनापि
६७

५३० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
( ६ ) सू—ॐ ॥ शब्दाच्च ॥ ॐ ॥ ४ ॥
'अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इति ।
अथ यान्यनित्यानि प्राणः श्रद्धा भूतानि भौतिकानी
प्रवृत्तमसम्भवादित्येतत बाहुल्यासम्भवपरतयाऽपि व्याचष्टे—अन्य
थेति ॥ अनादित्वश्रुतिविरोधेनोत्पत्तिश्रुतेरप्रामाण्याङ्गीकारे 'आत्मन
आकाशस्सम्भूतः' इत्युत्पत्तिश्रुतेर्बहुविषयत्वरूपबाहुल्येन प्रबलत्वात
दसम्भवप्रसङ्गादित्यर्थः । बाहुल्यस्य प्राबल्यहेतुतया उत्पत्तिश्रुतेरपि
बलवत्त्वेन अप्रामाण्यस्य वक्तुमशक्यतया श्रुतिद्वयप्रामाण्याय उक्त
व्यवस्थाया एव आश्रयणीयत्वादिति भावः । यद्वा—नन्वनादित्वश्रु
तिर्मुख्या , उत्पत्तिश्रुतिस्तु गौणीति वैपरीत्यं किं न स्यादित्याशङ्क्यो
त्तरत्वेनापि प्रवृत्तं असम्भवादित्येतद्बाहुल्यासम्भवपरतया व्याचष्टे-
अन्यथेति । उत्पत्तिश्रुतेरेवैकदेशविषयत्वरूपगौणार्थानभ्युपगमे तस्या
बहुविषयत्वरूपबाहुल्यासम्भवप्रसङ्गादित्यर्थः । अयं भावः—उत्प
त्तिवाक्यस्थाकाशशब्देन हि आकाशाख्यभूतं तदभिमानी विनायकः
अव्याकृताकाशं तदभिमानिचित्प्रकृतिश्चेति चत्वारो वाच्याः । उत्प
त्तिरपि अभूत्वाभवनरूपा देहसम्बन्धरूपा पराधीनविशेषावाप्तिरूपा
चेति त्रिधा । तत्राद्या भूताकाशे । द्वितीया तदभिमानिनि । तृतीया
मूर्तद्रव्यसम्बन्धरूपपराधीनविशेषवत्यव्याकृताकाशे , तदभिमानि
चित्प्रकृतौ चास्ति । तथा चोत्पत्ति श्रुतेर्बहुविषयत्वम्, अनुत्पत्तिश्रुते
स्त्ववकाशमात्रविषयत्वेनाल्पविषयत्वं सिद्धम् । एवं चोत्पत्तिश्रुतेरेव
गौणार्थत्वे एकदेशविषयत्वापत्त्या बहुविषयत्वासम्भवप्रसङ्गाद्बह्वनुग्र
हायानुत्पत्तिश्रुतेरेव गौणत्वं अङ्गीकृत्योत्पत्तिश्रुतेर्मुख्यार्थताऽङ्गीकार्य्ये
त्युक्तव्यवस्थैव युक्ता, न वैपरीत्यमिति ॥
( ६ ) न केवलमुक्तव्यवस्थाऽसम्भवयुक्तिसिद्धा, अपि तु श्रुतिसि
द्धा चेत्यर्थप्रतिपादकं सूत्रमुपन्यस्य तां श्रुतिमुदाहरति-शब्दाच्चेति॥
भाल्लवेयश्रुतेश्चेत्यस्य अनुत्पत्तिश्रुतिर्गौणीति व्यवस्था सिद्धेति पूर्वेणा
न्वयः । न केवलमसम्भवयुक्तेरिति चशब्दार्थः । श्रुतौ अथेति प्रमेया
न्तरारम्भे । वावेति निपातौ प्रसिद्धौ । हेत्यास्वादने । हवावेति नि
पातसमुदायो वा प्रसिद्धौ । यानीत्युभयत्र सम्बध्यते । तथा च यानि
पुरुषादीनि तानि नित्यानि, यानि च प्राणादीनि प्रसिद्धानि तान्यनि
त्यानीति प्रतिज्ञाद्वयस्यार्थः । इत्येतानीति इतिशब्दद्वयस्यान्वयः । 'पु

[ अधि - १०. सू - ४. ] दीपिकासहितम्. ५३१
ति । यानि ह वाव उत्पत्तिमन्ति तान्यनित्यानि । या-
नि ह वा अनुत्पत्तिमन्ति तानि नित्यानि, न ह्येतानि
कदाचनोत्पद्यन्ते न विलीयन्ते पुरुषः प्रकृतिरात्मा का-
रूपो' जीवचैतन्यं तदभिमानी ब्रह्मा च । 'प्रकृतिः' सत्त्वादिगुणात्म-
कं जडं तदभिमानिनी श्रीभूदुर्गात्मिका लक्ष्मीश्च । तत्र लक्ष्म्याः न
स्वरूपदेहयोरुत्पत्तिः, नापि प्रधानवत्परिणामेनेति नित्यं सत्त्वेन नि-
त्यत्वमुच्यते । 'आत्मा' परमात्मा । 'कालः' तत्प्रवाहस्तदभिमानी
प्रकृतिश्च । 'प्राणो' मुख्यवायुः । 'श्रद्धा' तत्पत्नी भारती । 'भूता-
नि' आकाशादीनि । 'भौतिकानि' भूतकार्याणि शरीरादीनि । यद्य-
पि सकलचैतन्यग्राहकपुरुषपदेनैव प्राणश्रद्धयोर्नित्यवर्गे गृहीतत्वात्
तदुपकरणभूतयोस्त

त इति । अथैतान्युत्पत्तिमन्ति च अनुत्पत्तिमन्ति च
प्राणः श्रद्धाऽऽकाश इति भागशो ह्युत्पद्यन्ते' इतिभाल्ल-
वेयश्रुतेश्च ॥ ४ ॥
( ७) सू—ॐ ॥ स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ॐ ॥ ५ ॥
स्यादेवैकस्योत्पत्तिमत्त्वमनुत्पत्तिमत्त्वं च गौणमुख्य-
त्वापेक्षया ।
केषु नञ्परित्यागेनोपनयनिगमने द्रष्टव्ये । अनित्यत्वेन गृहीतेषु प्रा-
णादिषु मध्ये न सर्वेषामनित्यत्वमेव मन्तव्य म्, किन्तु केषु चिन्नित्यत्व-
मपीत्याह—अथेति । अर्थान्तरवचनोऽयम् । चावन्वोन्यसमुच्चये ।
इत्येतानीत्यन्वयः । तस्मान्नित्यानीति शेषः । तत्रोपपत्तिमाह—भाग-
श इति । बहुभागैरुत्पद्यन्ते कैश्चिन्नोत्पद्यन्त इत्यर्थः । तथा च 'हि'
यस्मात्प्राणादीनि भागश उत्पद्यन्ते , भागशस्तु न, अथ तस्मादुत्प-
त्तिमन्ति चानुत्पत्तिमन्ति च तस्मान्नित्यानित्यानीति योजना । तथा-
हि-प्राणपदोक्तो भूततदमुख्यमुख्याभिमानिरूपत्रित्यात्मको वायुस्त्रि-
भिरपि भागैरुत्पद्यते । एवं श्रद्धापदोक्ता भारती च । एवमाकाश-
पदोक्तं भूतमव्याकृतं तदभिमानिद्वयं च । आहत्य चतुष्टयं चतुर्भि-
रपि भागैरुत्पद्यते उक्ताया उत्पत्तेश्च त्रिष्वपि सत्त्वात् । एतान्येवाभि-
मानिचैतन्यस्वरूपेणावकाशस्वरूपेण भूतसूक्ष्मरूपेण च नोत्पद्यन्ते इ-
ति । अनेन यानि प्राणः श्रद्धा आकाशाख्यभूतं चेत्येतानि, तानि नि-
त्यानित्यानीति प्रतिज्ञान्तरम् । तत्र स्यादनादित्वादितिहेतुः तदनुसार्यु-
दाहरणोपनयनिगमनानि चोपलक्षणयाऽनेन दर्शितानीति ज्ञातव्यम् ॥
( ७) ननु भवेदाकाशस्य गौणमनादित्वं उत्पत्तिस्तु मुख्यत इति
व्यवस्था, यद्यनादित्वश्रुतिर्गौणी भवेत्, नैतदस्ति, 'न जायते म्रियते
वा कदाचिन्नाऽयं भूत्वा भविता वा न भूयः' ( भ.गी-२. ) इत्यादौ न
जायत इत्यनुत्पत्तिमत्त्वाभिधायकशब्दस्य परमात्मनि मुख्यत्वदर्शनेन
तदेकार्थानादित्वश्रुतेरपि तथात्वौचित्यात् । यद्यप्ययं मन्त्रो गीताभा-
ष्ये जीवपरत्वेन व्याख्यातः । तथाऽपि तत्र परमात्मप्रतिबिम्बत्वेनैव त-
च्छब्दप्रवृत्तिर्मुख्यतो भगवत्येवायं शब्द इत्यस्ति चोद्यावकाशः । ' अ-
यं ना ' परमपुरुषो न जायते इति गीतातत्पर्ये परमात्मपरत्वेनापि
व्याख्यानाच्चेत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—स्यादिति ॥ ए

[ अधि - १० - सू - ६ . ] दीपिकासहितम्. ५३३
( ८ ) यथा ब्रह्मशब्दः । ' अथ कस्मादुच्यते परं ब्रह्मेति . .
बृहति बृंहयति च ' (अथर्वशिरः ) इति श्रुतेः । परे
ब्रह्मणि मुख्योऽपि गौणत्वेन विरिञ्चादिष्वपि वर्तते ।
अत एवाब्रह्मत्वं च तेषाम् । एवमन्यत्राप्यनुत्पत्तिम
च्छब्दः ॥ ५ ॥
( ९ ) सू—ॐ ॥ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥ ॐ ॥ ६ ॥
वकारो भिन्नक्रमः , चकारार्थोऽयम् । इदं चैकस्यैवाकाशस्य उत्पत्ति
मत्त्वमनुत्पत्तिमत्त्वं च गौणमुख्यत्वापेक्षया स्यात् । भावरूपत्वात्क्रम
व्यत्यासः । उत्पत्तिमत्त्वं मुख्यं अनुत्पत्तिमत्त्वं गौणमित्युभयमविरुद्धं
स्यात् । कुतः ? यत एकस्यैवानुत्पत्तिमच्छब्दस्य ब्रह्मणि मुख्यत्वेऽ
प्याकाशे गौणत्वमिति गौणमुख्यत्वापेक्षया प्रवृत्तिः स्यात् अत इत्या
वृत्त्या योज्यम् ॥
( ८ ) अत्र सूत्रकृदुक्तं दृष्टान्तं विवृणोति—यथेति ॥ आद्योऽपिर्य
द्यपितथापीत्यर्थे । द्वितीयस्समुच्चये । ब्रह्मशब्दः परे ब्रह्मणि कुतो
मुख्य इत्यत उक्तम्—अथेति । इति श्रुतेर्मुख्यत्वेनावगतोऽपीत्यन्वयः ।
'गौणत्वेन' अमुख्यत्वेन परममुख्यान्यवृत्त्येति यावत् । ब्रह्मशब्दो वि
रिञ्चादिष्वमुख्यतः कुतोऽस्तीत्यत उक्तम्—अत एवेति । ब्रह्मशब्दस्य
तत्रामुख्यत्वादेव 'तेषां' विरिञ्चादीनां 'अब्रह्मत्वं' अपूर्णत्वं मुख्यम
स्तीत्यर्थः । न केवलं गौणं ब्रह्मत्वमिति चकारार्थः । हिशब्दार्थो वा
चशब्दः । एवकारो मुख्यत्वस्य व्यापकतासूचकः । अनेन विरिञ्चादी
नाममुख्यब्रह्मशब्दार्थत्वे पूर्णत्वादिति व्यतिरेकी हेतुः सूचितः । अथे
ति प्रश्नार्थः । परं वस्तु ब्रह्मेति कस्मान्निमित्तादुच्यत इति । बृहति बृं
हयतीत्युत्तरम् । स्वयं वर्धते पूर्णं भवति, यथायोग्यं वर्धयति, पूरय
ति चान्यान् तस्मात् प्रवृत्तिनिमित्तसद्भावाद्ब्रह्मेत्युच्यत इति श्रुत्यर्थः ।
आथर्वणीयं श्रुतिः । ब्रह्मशब्दवदित्यनेन लब्धं दार्ष्टान्तिकमाह—एव
मिति । 'अन्यत्र' विष्णोः आकाशे । अपिः समुच्चये । 'अनुत्पत्तिम
च्छब्दः' तत्प्रतिपादको न जायतेऽनादिरित्यादिरूपः गौणत्वेन वर्तत
इति शेषः ॥
( ९ ) ननु युक्तं ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वमन्यत्रामुख्यत्वम्,
गुणपूर्णत्वरूपशब्दप्रवृत्तिनिमित्तसद्भावासद्भावस्य कारणसद्भावात् । न

!
Wait, does it have a second vertical stem? No!
Wait, could it be तद्वाचिनुत्पत्तिमत्? No, it's च्य.
Wait, why तद्वाच्यनुत्पत्तिमच्छब्द?
Wait, could it be:
"मुख्यतस्तद्वाचिनि"? No, it's नुत्पत्तिमच्छब्द.
Wait, look at line 7: च तथाऽनुत्पत्तिमच्छब्दे वक्तुं शक्यम्
Line 10: मुख्यतस्तद्वाच्यानुत्पत्तिमच्छब्द or तद्वाच्यनुत्पत्तिमच्छब्द?
Wait, look at तद्वाच्यनु: is there a sandhi or compound? In manuscripts/prints, sometimes hiatus or a typo drops the ा, or is it तद्वाच्यनुत्पत्तिमच्छब्द?
Wait, let's look at च्या: look closely at च्य:
Wait, is the loop च?
Wait, between द्वा and नु, what are the glyphs?
च with य: wait, look at च्या: is there another vertical line? No, just one.
So it reads तद्वाच्यनुत्पत्तिमच्छब्दवाच्यत्वेऽङ्गीकृते.

Let's check line 11:
`सति। अनेन सूत्रे पूर्ववाद्युक्त

[अधि - १. सू - ७. ] दीपिकासहितम्. ५३५

२-१०.) 'इदं वा अग्रे नैव किञ्चनासीत्' (तै. ब्रा. २-२-
९.) इत्यादिश्रुतिभ्यः ॥ ६ ॥
( ११ ) सू— ॐ ॥ यावद्विकारं तु विभागो लोकवत् ॥ ॐ ॥ ७ ॥
कं सर्वं जगदपेक्ष्य ततगुणत्वात् 'आत्मा' विष्णुरेव 'अग्रः' अ
ग्रथो गुणतोऽधिक आसीदिति व्याख्यातम् । तथाऽपीदं बृहद्भाष्यदि
शा टीकोक्तं व्याख्यानान्तरमित्यदोषः । 'सदेवेत्याद्यद्वितीयम्' इतन्तं
छान्दोगवाक्यम् । सोम्येति श्वेतकेतुसम्बोधनं 'इदमस्य' जगतो अ
ग्रे 'सत्' ब्रह्मैव स्वातन्त्र्येणासीत् । तद्ब्रह्म च 'एकं' स्वसजातीय
मत्स्यादिभिर्भेदशून्यम् । 'एव' स्वगतगुणक्रियावयवादिभिरभिन्नं न
तु तैर्भिन्नम् । यद्वा-अवयवादिनाऽप्यभिन्नमेव न तु घटादिवत्स्वावयवै
र्भिन्नाभिन्नमित्येवशब्दार्थः । 'अद्वितीयं' समशून्यं अधिकशून्यत्वमां
र्थिकार्थः । 'इदं वा अग्रे' इत्यध्वर्यूणां श्रुतिः । इयं च—
सर्वसंहारकं विष्णुं देवीं जीवांस्तथैव च ।
कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम् ॥
संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लय्ये त्वभूत् ॥
इति बृहद्भाष्योदाहृतब्रह्मतर्कवचनानुसारेण 'इदं' अस्य 'अग्रे' प्र
लये 'किञ्चन' विष्णुरमादिभ्योऽन्यो नैवासीदिति व्याख्येया । इत्या
दिश्रुतिभ्य इत्यस्यानुत्पत्तिमच्छब्दो ऽन्यत्रामुख्यो ब्रह्मणि तु मुख्य इ
त्यवसीयत इति पूर्वेणान्वयः । तथा चाकाशब्रह्मणोः 'आत्मा' इत्या
दिश्रुतिभिः स्पष्टमेव सादित्वानादित्वप्रतीतेस्ता एव तयोरनुत्पत्तिम
च्छब्दमुख्यत्वामुख्यत्वयोः कारणमिति तदनुपलम्भोऽसिद्ध इति भा
वः । बहुवचनाद्बहुश्रुतिविरोधे च एकस्यानुत्पत्तिमच्छब्दस्यामुख्यार्थं
त्वं न्याय्यमिति न्यायं सूचयति—यद्यप्युदाहृतवाक्येष्वपि ब्रह्मणोऽ
नादित्वस्य तदन्यस्य च कतिपयस्यानादित्वाभावस्य च प्रतीतावपि
न स्पष्टमाकाशस्योत्पत्तिः प्रतीयते । तथाऽप्यादिशब्दगृहीतेषु तदुक्त
रपूर्वभाविषु 'स इमान् लोकानसृजत' (ऐ. १ - १०) इत्यादिषु सा
प्रतीयत इति नानुपपत्तिरिति ध्येयम् । न च गौण्यसम्भवादित्यनेनेदं
पुनरुक्तं, श्रुतिनिरूपितबाहुल्यासम्भवस्यापि असम्भवपदेनोक्तत्वाद्वि
ति वाच्यम् । शब्देभ्य इत्यस्य पूर्वोक्तासम्भवसम्बन्धिबहुत्वाश्रयविव
रणरूपत्वेनापुनरुक्तेः । अत एव 'अस्ति तु' इत्यनेनापि न पुनरुक्तिः ॥
( ११ ) अनुमानेनापि ब्रह्मण एवानादित्वं, अन्येषां सादित्वमनुत्प

५३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
विभक्तत्वाच्च विकारित्वं युक्तम् ।
( १२ ) विकारिण एव हि विभक्ता लोके दृश्यन्ते ।
त्तिश्रुतेर्मुख्यामुख्यत्वसिद्ध्यर्थं साध्यसूत्रमुपन्यस्यति—यावदिति ॥
अत्र तुशब्दश्चार्थो हेताववधारणे च। तेन विकारस्य व्यापकता लक्ष्य
ते। यावच्छब्दोऽवधारणे। अत्र अवधारणमियत्तापरिच्छेदः। अव्ययीभा
वसमासश्चार्थे । विकारविभागशब्दौ कर्मणि घञन्तौ। लोकवदिति स
प्तम्यन्ताद्वतिरित्यभिप्रेत्य व्याप्त्यभिधानेन लब्धौ प्रतिज्ञाहेतू बहिरेव
दर्शयित्वा सूत्रं व्याप्तिप्रदर्शनपरतया व्याचष्टे-विभक्तत्वाच्चेति । विय
त इति विपरिणामेनेहानुवर्तते । चो हेतुसमुच्चये । तथा च न केवलं श
ब्देभ्यः, किन्तु वियतो 'विभक्तत्वात्' अल्पशक्तित्वानुमानाच्च 'वि
कारित्वं' उत्पत्तिमत्त्वमेव 'युक्तं' न्याय्यमित्यर्थः । चकारादविभक्त
त्वाद्विकारित्वं च ब्रह्मणो युक्तमिति समुच्चयोऽपि सूच्यते ॥
( १२ ) एवं प्रतिज्ञाहेतू अभिधाय हेतोरप्रयोजकत्वशङ्कामपाकर्तुं सू
त्रे यावद्विकारमिति सकलसाध्याश्रयार्पकांशेन साधनाश्नयार्पकेण
विभाग इत्यनेन च लोकवदिति दृष्टान्तोक्त्या च ज्ञापितां व्याप्तिं दर्श
यति—विकारिण एवेति ॥ घटादय इति शेषः । न त्वविकारिण इत्ये
वार्थः । बहुवचनेन यावत्पदतात्पर्यमुक्तम् । एवेत्यनेन विभक्तत्वहेतो
र्व्यतिरेकव्याप्तिश्च दर्शिता । तेन विकारित्वसाध्येन व्यभिचाराभावो
ज्ञापितः । एवकारस्य विभक्ता एवेति भिन्नक्रमेणान्वये समव्याप्तिर
प्यनेन उक्ता । तेन ब्रह्मण्यविकारित्वे साध्ये तद्व्यतिरेकस्याविभक्त
त्वाभावरूपविभक्तत्वव्याप्यता सिद्ध्यति । हिशब्दोऽस्यार्थस्य प्रमाण
प्रसिद्धतामाह। यद्वा—सौत्रतुशब्दो हेतावपीत्याशयेन हिशब्दप्रयोगः।
'लोके' जगति । तस्माद्विभक्तत्वहेतोर्नाप्रयोजकताशङ्केति वाक्यशे
षः। अनेन वियद्विकृतमुत्पत्तिमत् विभक्तत्वात् घटवत् , ब्रह्मानुत्प
त्तिमत्, अविभक्तत्वात्, व्यतिरेकेण घटवत्, इत्यनुमानद्वयमुक्तं भव
ति । सूत्रार्थस्तु—'लोकवत्' यथा लोके जगति 'यावद्विकारं' वि
क्रियमाणं यावद्वस्तु घटादिकं तत्सर्वमेव 'विभागः' अल्पशक्तिमत्
दृष्टम्, यद्यद्विभक्तं तत्तद्विकृतं दृष्टम्, यथा लोके घटादीति । यावदि
ति । एवं यावद्विभागं तु विकारो 'लोकवत्' यथा लोके इत्यपि व्या
ख्येयम् । यस्मादेवं तस्माद्विभक्तत्वाच्च वियद्विकारो विकृतमुत्पत्तिम
त्, अविभक्तत्वात् ब्रह्माविकारीति च सिद्धमिति सूत्रशेषः ॥

[ अधि - १. सू - ७. ] दीपिकासहितम्. ५३७
( १३ ) एकोऽविभक्तः परमः प्ररुषो विष्णुरुच्यते ।
प्रकृतिः पुरुषः कालश्चय एते विभागतः ॥
( १४ ) चतुर्थस्तु महान् प्रोक्तः पञ्चमाऽहङ्कृतिर्मता ।
तद्विभागेन जायन्त आकाशाद्याः पृथक्पृथक् ॥
( १५ ) यो विभागी विकारः स सोऽविकारः परो हरिः ।
अविभागात्परानन्दो नित्यो नित्यगुणात्मकः ॥
( १३ ) सूत्रार्थे स्मृतिसम्मतिं चाह—एक इति ॥ यतो विष्णुरेक
एव परमपुरुषः । अतः स एक एवाविभक्त उच्यते । एतत्समर्थनाया
न्येषां विभक्तत्वमाह—प्रकृतिरिति । प्रकृतिः पुरुषः कालः इति । ए
तैः प्रान्नित्यत्वेन उत्तरत्र परनित्यत्वेन च गृहीतानां ग्रहणम् । तत्त्वप्र
दीपे तु प्रकृतिः पुरुषः काल इत्येतैः परनित्यभूताः श्रीभूदुर्गाः सत्त्वा
द्यात्मिकाः गृह्यन्त इत्युक्तम् । तत् नित्यस्याप्युपलक्षकं, श्रुत्यर्थनिर्णाय
कत्वात्स्मृतेः । श्रुतावक्रमेण निर्दिष्टानामपीह क्रमेण निर्देशः कृतः ।
तथा च प्रकृतिः पुरुषः काल इत्येते त्रयो 'विभागतो' विभागत्वेन
प्रोक्ता इत्यर्थः ॥
( १४ ) एवं विभक्तेषु त्रीन् तत्त्वदेवान् प्रदर्श्य तत्सृज्यं चतुर्थमा
ह—चतुर्थ इति ॥ 'महान्' महत्तत्त्वाभिमानी चतुर्मुखस्तु विभक्तेषु
'चतुर्थः प्रोक्तः' तत्त्वेन परिगणितः । 'अहंकृतिः' रुद्रस्तु 'पञ्चमा'
पञ्चमीत्वेन मता । अस्त्वेवं, ततः किमित्यत आह—तदिति । स चा
सौ विभागश्च स तथोक्तः । तथा च तेन विभक्तत्वरूपहेतुना आका
शाद्याः 'पृथक्पृथक्' प्रकृतिगुणेभ्यो महान्, ततो अहम्, तत आका
शः, आकाशाद्वायुः, वायोरग्निरिति परम्परया जायन्ते । न त्वेकस्मा
त्सर्वमित्यनुमीयत इत्यर्थः । आद्यशब्देन वाय्वादिकं गृह्यते ॥
( १५ ) विभक्तत्वेऽपि कुतो जन्मेति तत्राह—य इति ॥ 'यो विभा
गी' विभागवान् 'स विकारः' विकृत इत्यर्थः । इति व्याप्तेरिति शे
षः। ननु विष्णुरेक एवाविभाग इत्युक्तम्, समर्थितं च तत् । ततः कि
मित्यत उक्तम्—स इति । अविभक्तत्वेनोक्तो हरिः 'अविकारः' अना
दिनित्यः । कुतः? अविभागात् । न च द्वयमसम्भावितम् । यतः 'परः'
लोकविलक्षणः । न केवलं हरिरविभागादविकारीत्येतावन्मात्रम् , किं
तर्हि ? 'परानन्दः' पूर्णानन्दः स्वरूपतो देहतश्च नित्यः नित्यज्ञानादि
गुणश्च भवति । नन्वविभागादित्यसिद्धं, तथासति विष्णोः द्रव्यत्वा
६८

५३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
विभागो ह्यल्पशक्तिस्स्यान्न तदस्ति जनार्दने ॥
इति बृहत्संहितायाम् ॥ ७ ॥
—:*:—
२. अधिकरणम् ॥
( १ ) ‘अथ ह नित्याश्चानित्याश्च तेजोऽबन्नान्याकाश इति
नुपपत्तेरित्यत आह—विभाग इति । नात्र विभागशब्देन विभागाख्यो
गुणो ग्राह्यः, येन द्रव्यत्वानुपपत्तिः, किन्तु ‘अल्पशक्तिः’ अल्पसा-
मर्थ्यम्, तच्च जनार्दने नास्ति । अन्यथा तस्य महाबलदुर्जनसंहर्तृत्वा-
नुपपत्तिरित्याशयेन जनार्दन इत्याह । न च तद्विभागेनेत्यत्र अन्वय-
साधने विभागस्य हेतुत्वोक्त्या व्यतिरेके तदभावस्य व्यापकत्वात्
अविभागादिति तस्य हेतुत्वोक्तिरयुक्तेति वाच्यम् । विभागाख्यहेतोः
समव्याप्त्यभिप्रायेणास्य प्रवृत्तेः । न च ‘प्रकृतिः पुरुषः कालः’ इति
[L

[ अधि - २. सू - ८. ] दीपिकासहितम्. ५३९
तान्यनित्यानि वायुर्वाव नित्यो वायुना हि सर्वाणि भू-
तानि नेनीयन्त' ( )।
( २ ) 'अथ ह चेतनाश्चाचेतनाश्च तेजोऽबन्नान्याकाश इति
तान्यचेतनानि वायुर्वाव चेतनो वायुना हि सर्वाणि
भूतानि विज्ञायन्ते' ( )
आकाश इत्यत्र भूताकाश उच्यत इति तत्त्वप्रदीपोक्तेरत्राकाशशब्देन
भूताकाशमात्रमुच्यते, न त्वव्याकृतमिति । न चैवं ' न चाकाशशब्देन
भूतमेवात्राऽव्यते इत्यत्र नियामकमस्ति ' इति टीकाविरोधः । नियाम-
कत्वोक्तेः पूर्वे पूर्वपक्षदशायां वायुभिन्नस्य सर्वस्याकाशादेः नित्यत्वा-
भावप्रदर्शनार्थं प्रौढवादेन तथोक्तिसम्भवात् । तत्त्वप्रदीपस्य च सम-
भिव्याहारानुसारेण वस्तुस्थित्या प्रवृत्तत्वात् । तथा च यान्यनित्या-
नि प्रतिज्ञातानि तानि तेजोऽबन्नान्याकाश इ

५४० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
( ३ ) ‘कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास
आसन् ।
ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण’ ॥
(ऋ. ७-९१-१.)
( ४ ) सा वा एषा देवतानादियोऽयं पवत इति ॥
( ५ ) ‘यस्य नादिर्न मध्यं नान्तो नोदयो न निम्लोचः’
( ) इत्यादिश्रुतिभ्यो वायोरनुत्पत्तिरिति ॥
( ६ ) अतो ब्रवीति—
( ३ ) वायोरनुत्पत्तौ युक्त्यन्तरोपन्यासाय श्रुत्यन्तरमुदाहरति—
कुविदङ्गेति ॥ व्याख्यातोऽयं मन्त्रः शब्दाधिकरणे । अनेन वायोरुत्प-
त्तिमत्त्वे दोषित्वेन सर्वदेवतोपास्यत्वानुपपत्तिरिति पूर्वपक्षे विशेषयु-
क्त्यन्तर मुपन्यस्तं भवति ॥
( ४ ) वायोरुत्पत्त्यभावे युक्त्यन्तरोपन्यासाय श्रुत्यन्तरमुदाहर-
ति—सेति ॥ ‘पवते’ शोधयति । कल्मषमिति शेषः । सञ्चरतीति वा
शुद्धोऽस्तीति वा । इतिशब्दः श्रुत्यन्तर्गतः । ‘योऽयं पवते’ इति बृहदा-
रण्यके ‘अयं वै ब्रह्मा योऽयं पवते’ इति बह्वृचब्राह्मणे च । या पवत इ-
ति पवनकर्तृत्वेनोक्ता साऽनादिरित्यर्थः ॥
( ५ ) अनादित्व एव वाक्यान्तरमाह—यस्येति ॥ ‘आदिः’ उ-
त्पत्तिः । ‘मध्यं’ मध्यमवयः । ‘अन्तो’ नाशश्च नास्ति यस्याः सा वा-
युदेवतेति सम्बन्धः । वायोरुदयनिम्लोचयोरेवाभावात्कुतो जन्म स-
म्भवतीत्याह—यतो नोदयो न निम्लोच इति । प्रादुर्भावतिरोभावौ
न स्त इत्यर्थः । युक्तीनामपि श्रुतिगृहीतत्वाच्छ्रुतिभ्य इत्येवोक्तम् । हेतु-
मुक्त्वा साध्यमाह—वायोरनुत्पत्तिरिति । सावधारणमेतत्सिध्यतीति
शेषः। अतः उत्पत्तिश्रुतिरप्रमाणमिति न जगत्कारणे ब्रह्मणि श्रुतिसम-
न्वयोयुक्त इति वाक्यशेषः ॥
( ६ ) एवमधिकाशङ्कया पूर्वपक्षितेऽतिदेशेन सिद्धान्तयत्सूत्रमव-
तार्य व्याचष्टे—अत इति ॥ एतेनेत्यनूद्य मुख्यामुख्यानुत्पत्तिवचनेन
विभक्तत्वाच्चेति च व्याख्यातम् । अत्र ‘भाष्यं चात्यर्थविस्तरम्’ इ-
त्युक्तेः मुख्यस्य वायोरमुख्यानुत्पत्तिवचनेन मुख्यानुत्पत्तिवचनाभा-
वेनेत्येकोऽर्थः । अनेनाश्रुतेरिति प्रथमसूत्रोक्तो हेतुरुक्तो भवति । एवं

[ अधि - २. सू - ८. ] दीपिकासहितम् ५४१
सू—ॐ ॥ एतेन मातरिश्वा व्याख्यातः ॥ ॐ ॥ ८ ॥
एतेन मुख्यामुख्यानुत्पत्तिवचनेन विभक्तत्वाच्च वाय्व-
नुत्पत्तिश्रुतिरपि व्याख्याता ॥
(७) नित्यः परमनित्यश्च तथा नित्यः परस्तथा ।
चतुर्थैतज्जगत्सर्वं परानित्यं तु पार्थिवम् ॥
मुख्यस्यामुख्यानुत्पत्तिवचनेन 'प्राणाद्वायुरजायत' इत्यादिमुख्योत्प-
त्तिवचनेनेति व्याख्यानेऽस्तीति सूत्रोक्तहेतुर्दर्शितः । एवं मुख्यस्यामु-
ख्यानुत्पत्तिवचनेन अमुख्यानुत्पत्तिरितिवचनेनेति व्याख्याने तृतीयसू-
त्रोक्तहेतुर्दर्शितः । एवं 'अथैतानि' इतिवायोर्मुख्यामुख्योत्पत्त्यनुत्पत्ति-
वचनेनेति व्याख्याने चतुर्थसूत्रोक्तो हेतुर्दर्शितः । एवं तत्त्वप्रदीपरीत्या
अनुत्पत्तिश्रुतिर्ब्रह्मण्येव मुख्या अन्यत्र प्रतिज्ञाहान्यादिबाधकाद

Here is the line-by-line transcription of the text in pure Unicode Devanagari:

५४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
अनित्यानि तु भूतानि नित्यो वायुरुदाहृतः ।
परस्तु नित्यः पुरुषः प्रकृतिः काल एव च ॥
(८) एतच्चतुष्टयं विष्णुः स्वयं नित्यः परात्परः ।
प्रतिव्यूह्य व्यूह्य चासावतीत्य च जनार्दनः ॥
तानि क्रमेण दर्शयति—परेति । तुशब्दाः पूर्वपूर्वस्मादुत्तरोत्तरस्य वि-
शेषद्योतकाः । 'पार्थिवं' पृथिव्युपलक्षितभूतकार्यं संसृष्टमण्डादि ।
'अनित्यानि तु भूतानि' असंसृष्टान्तर्गतानि आकाशादीनि तदभिमा-
निवियानकादीनि च । भूतानामुपचयमात्रनाशात् तदभिमानिनः अ-
भिमानमात्रनाशात् पूर्वेभ्यो विशेषः । न च प्रागाकाशस्य 'प्राणः श्र-
द्धाऽऽकाशः' इति नित्यानित्यत्वोक्तिविरोध इति वाच्यम् । पार्थिववत्प

[ अधि - ३. सू - ९. ] दीपिका सहितम्. ५४३
धारयत्यनिशं देवो नित्यानन्दैकलक्षणः ॥
इति कौर्मे ॥ ८ ॥
---*-
३. अधिकरणम् ॥
( १ ) सू—ॐ ॥ असम्भवस्तु सतोऽनुपपत्तेः ॥ ॐ ॥ ९ ॥
'असद्वा इदमग्र आसीत् । ततो वै सदजायत' (तै.
२-७.) 'असतः सदजायत' (ऋ. १० - ७२ - २.)
रात्परनित्य इति योजना । अनेन विष्णोः परात्परनित्यत्वे स्वातन्त्र्यं
निमित्तमित्युक्तं भवति । टीकायां तु निमित्तनैमित्तिकयोः उपचारेण
भेदोक्तिर्वा निमित्तार्थो वा लक्षणशब्दो द्रष्टव्यः यद्वा-परात्परनित्यः
स्वतन्त्रनित्य इत्यर्थः । तथा च 'वायुर्वाव नित्यः' इत्याद्यनुत्पत्त्या
दिश्रुतौ वायोः परतन्त्रत्वेन ईश्वरवत्स्वातन्त्र्यलक्षणपरात्परनित्यत्वा
भावेऽ

? It really looks like र्ब्रह्मावदनादित्वे. Let's check whether it's र्ब्रह्मावदनादित्वेorर्ब्रह्मवदनादित्वे. Wait, let's look at the letter: ब्र ह्मthen a vertical strokeा, then व द न ा दि त्वे. Yes, it is printed as र्ब्रह्मावदनादित्वे`.

Line 17:
दुत्पत्तिः । ब्रह्मणस्तु तदभावtag... wait:
दुत्पत्तिः । ब्रह्मणस्तु तदभावtag... let's read line 17:
दुत्पत्तिः । ब्रह्मणस्तु तदभावादनुत्पत्तिरिति वैषम्यनिमित्तोक्त्या पूर्व

Line 18:
पक्ष्युक्तवैषम्यायोगहेतोर्गतिfeed... let's read:
पक्ष्युक्तवैषम्यायोगहेतोर्गथिकथनार्थं च सत इत्युक्तिः । मयाऽपि धिय
Wait, र्गथिकथनार्थं or र्गति कथनार्थं?
हेतोर्गथिकथनार्थं? No, र्गति कथनार्थं -> हेतोर्गति कथनार्थं or हेतोर्गतेः कथनार्थं or `हेतोर्गतिम

? A hyphen is right after स्तु.
ब्रह्मेत्याहुः वृद्धाः । वै प्रसिद्ध
Line 24:
म्। कस्मान्निमित्तात् ? यतः स्वयं 'बृहति' वर्धते वै। नित्यवृद्धस्याप्ययं
Notice: म्। कस्मान्निमित्तात् ?
Space before ? - yes, in typical old Indian printing, punctuation like ? often has a preceding space.
वै। नित्यवृद्धस्याप्ययं - no space between वै। and नित्य.

Line 25:
व्यपदेश आत्माऽस्तीति वद्युक्तः । न केवलमेतावान् किन्तु स जीवांश्च
आत्माऽस्तीति वद्युक्तः । - space between वद् and युक्तः? Yes.
किन्तु स जीवांश्च

Line 26:
'बृंहयति' वर्धयतीत्यतः। निमित्तद्वयसमुच्चये चः। इतिशब्दः श्रुतिस्थः
वर्धयतीत्यतः। (no space after danda, or small space)
निमित्तद्वयसमुच्चये चः।
इतिशब्दः श्रुतिस्थः

Line 27:
`इति हेतोरित्यर्थेऽस्ति । तदेतदसच्छब्दवाच्यमाहुः। किं निमित्तं ? '

५४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
( ५ ) 'देवानां पूर्वे युगेऽसतः सदजायतेति ब्रह्म वा असत्
सद्वाव प्राणः प्राणं ह्वाव महान् सह ओजो बलमित्या-
चक्षते' इति पैङ्गिश्रुतिः ॥
( ६ ) त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेऽजः।
ततो वयं सप्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते ॥
( ५ ) असच्छब्दस्य ब्रह्मपरत्वेऽपि कः समस्तश्रुत्यर्थ इत्यत आ-
ह—देवानामिति ॥ पैङ्गिश्रुतिर्देवानामिति ऋक्प्रतीकं गृहीत्वा ब्रह्मोत्य-
नेन तां व्याख्याति । 'पूर्वे युगे' आदिसृष्टिकाले देवानां मध्ये प्रथमं
सच्छब्दितो वायुः 'असतः' परब्रह्मणोऽजायतेत्यर्थः । 'असत्' अस-
च्छब्दवाच्यं, वैशब्दोऽवधारणे । वावेति निपातसमुच्चयः प्रसिद्धौ ।
कथं प्राणः सच्छब्दवाच्य इत्याह—प्राणमिति । यतो वृद्धाः 'प्राणं'
मुख्यं 'महान्' पूज्यः 'सहः' सहनशक्तिः 'ओजो बलम् ' इत्याचक्ष-
ते' प्राहुः, अतः प्राणो महत्त्वादि सद्गुणशालित्वान्निमित्तात् 'सद्भावे
साधुभावे च सदित्येतत्प्रयुज्यते' इति गीतोक्तेरिति भावः। धर्मधर्म्य-
भेदविवक्षया सह इत्याद्युक्तिः । यद्यप्युक्तार्थसिद्धौ पैङ्गिश्रुतिरेवालम्।
तथाऽप्यसच्छब्दस्य ब्रह्मणि निर्वचनार्थं 'तद्वा एतत्' इति पूर्वश्रुत्यु-
दाहरणम् । असच्छब्दितान्नारायणात्सच्छब्दितो वासुदेवः समुद्भूत
इति तैत्तिरीयभाष्यं तु व्याख्यानान्तरम् । यच्च 'असतः' इति श्रुतेर-
नेकार्थत्वादिति प्रमेयदीपिकायामसच्छब्दस्य प्रकृतिपरतया व्याख्या-
नम्, तदप्यमुख्यवृत्त्यैवेति ध्येयम् । श्रुतिर्यत इति शेषः । अस्यातो
ऽसच्छब्दो ब्रह्मवाचीत्यनेन वा न हीति पूर्वेणान्वयः । तथा च असत
इति श्रुतेः अन्यथा सम्यग्व्याख्यातत्वात् नाप्रामाण्यमिति भावः यद्वा
न केवलं 'तद्वा एतत्' ( ) इति श्रुतिरिति समुच्चये चशब्दः॥
( ६ ) सच्छब्दवाच्यस्य वायोः परब्रह्मजातत्वे न केवलं 'असतः'
इति श्रुतिर्मानं, किन्त्वत्र स्पष्टस्मृतिश्चास्तीत्याह-त्वमिति ॥ भागवते
तृतीयस्कन्धे देवानां वाक्यमेतत् । हे देव त्वं 'कविः' अतिक्रान्तदर्शी
'अजो' देहतोऽप्युत्पत्तिशून्यश्च अतः यद्यपि त्वयि देवदत्तवद्गर्भाधाना-
दिकर्माण्यसम्भावितानि । तथाऽपि भवान् 'शक्त्यां' भार्यायां 'गुण
कर्मयोनौ' गुणानां ज्ञानादीनां सत्त्वादीनां वा कर्मणामदृष्टादीनां यो-
नौ हेतुभूतायां 'अजायां' जननधर्मरहितायां चित्प्रकृतौ 'रेतो' गर्भं

[ अधि - ३. सू - ९. ] दीपिकासहितम्. ५४७
इति भागवते ॥
(७) 'अजायमानो बहुधा विजायते' (तै.आ.३-१३.) इति च ।
(८) प्रत्यक्षत्वं हरेर्जन्म न विकारः कथं चन ।
पुरुषः प्रकृतिः कालो महानित्यादिषु क्रमात् ॥
'आदधे' आधत्त । तुर्विशेषार्थः । ततः अथ तस्याः प्रकृतेस्सप्तमुखाः
वायुप्रभृतयो बभूविम । किञ्चातः हे 'आत्मन्' स्वामिन् वयं यदर्थं
यत्कार्याय बभूविम, ते तव तत्तिकार्यं करवाम, न किमपि तदुपयु
क्तज्ञानाद्यभावादित्यर्थः । यद्यपि सप्तमुखाः महदादय इति तात्पर्ये
व्याख्यातम् । तथाऽपि वायुरपि महत्तत्वाभिमानित्यविरोधः । यद्यपि
त्वमग्ने प्रथमं मातरिश्वनः आविर्बभूवेति ऋग्भाष्यटीकायां युष्मद्युपप
देऽपि भाष्ये आविर्बभूवेति प्रथमपुरुषप्रयोगो युक्त इत्यत्र त्वं देवश
क्त्यां रेत आदधे इति प्रयोगो दृष्टान्तीकृतः । तद्वदत्राप्यार्षत्वसमाधा
नं वक्तुं युक्तम् । तथाऽप्यार्षत्वं विना वाक्यभेदेन भवानित्यध्याहारेण
च व्याख्यानान्तरमिदं व्यासतीर्थैः कृतमित्यदोषः । भागवते उक्तमत
उक्तं युक्तमिति शेषेणान्वयः ॥
(७) ननु रामकृष्णदिरूपेण हरेर्जायमानत्वात्कथं जन्माभाव इ
त्यत आह—अजायमान इति ॥ व्याख्यातेयं श्रुतिर्युभ्वाद्यधिकरणस्था
नाधिकरणयोः । इति श्रुतिश्चार्थे मानम्, अतो न प्रातीतिकजनिविरो
ध इत्यन्वयः ॥
(८) अजायमानस्य कीदृशं जन्मेत्यत आह—प्रत्यक्षत्वमिति ॥ अ
वतारेषु व्यक्तिरेवेत्यर्थः । कथं चनेति स्वरूपदेहविशेषाणामन्यतमे
नेत्यर्थः । अन्यत्र तु विकार एव जन्मेत्याह—पुरुष इति । 'पुरुषः'
चेतनः, अत एव चित्रप्रकृतेरपि लाभः । प्रकृतिकालमहच्छब्दैः जडा
न्युच्यन्ते । तथैव तत्त्वप्रदीपोक्तेः । 'इत्यादिषु' एवमादिशब्दवाच्ये
षु । आदिशब्देन अहमादिशब्दवाच्याहङ्कारतत्त्वादीनि गृह्यन्ते । अ
भिमानिचेतनव्यावर्तनाय तत्त्वमात्रं ग्राहयितुमितिशब्दः । 'क्रमात्'
पूर्वतत्त्वापेक्षया उत्तरोत्पन्नतत्त्वोपचयाधिक्यक्रमात् । उपचयो नाम
स्थूलभावः । तस्याधिक्यमतिशयः तस्य क्रमः तारतम्यं तदनुसारेणा
धिक्यतारतम्यवान्यो विकारस्तदेव प्रकृत्यादिषु जननमित्यर्थः । क्र
मादित्यस्य प्रकृतिमहदादिष्वेवान्वयः । न तु पुरुषकालयोरपि, तयो

५४८ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - ३.]


विकार एव जननं पुरुषे तद्विशेषणम् ।
परतन्त्रविशेषो हि विकार इति कीर्तितः ॥ इति च पाद्मे॥
( ९ ) अविकारोऽपि भगवान् सर्वशक्तित्वहेतुतः ।


विकारवत्त्वेऽप्युपचयकृतविकारस्याभावात् । अतएव पुरुषैः तद्विशेष-
णमिति पृथगुक्तिः । तत्र सत्त्वरजस्तमोगुणात्मकप्रकृतिगुणेषु मध्ये
सत्त्वगुणस्य न द्रव्यान्तरसंयोगकृत उपचयः, अपि तु स्वत एव स्थू-
लभूतस्य मूलराशितो विभागेन देशान्तरसंयोगकृतः। रजसस्तु न मू-
लराशितो विभागेन देशान्तरसंयोगमात्रकृत उपचयः । अपि तु द्र-
व्यान्तरसंयोगकृतश्च स च तमसोऽल्पः। सत्त्वापेक्षयाधिकः। अतएव
विकारोऽप्यधिकः । एवं तमसो रजोऽपेक्षयोपचयकृतविकारोऽधिकः
गुणत्रयापेक्षया महत्तत्त्वस्य, तदपेक्षया अहङ्कारस्याधिकः । एवमुत्तर-
त्रापि । पूर्वपूर्वतत्त्वादुत्पन्नानामुत्तरोत्तरतत्त्वानां न केवलं पूर्वपूर्वत-
तत्त्वभागसंयोगकृत एवोपचयः किन्तु स्वस्वसूक्ष्मभागसंयोगकृतश्च ।
अत एवोत्तरोत्तरतत्त्वेषूपचयाधिक्यमिति ध्येयम् । केचित्तु पुरुषपदो-
क्तचेतनानां सूक्ष्मसृष्टिकाले सूक्ष्मप्रकृतिभिरुपचयः । प्रकृतेरपि प्रकृ-
त्यन्तरसम्बन्ध एवोपचयः । कालप्रकृतेरपि स एवोपचयः । महत्तत्त्व-
प्रकृतीनां गुणत्रयरूपकार्यभागैरुपचयः । एवमहङ्कारादिप्रकृतीनामपि
महत्तत्त्वादिभागैरुपचय इत्युपचयाधिक्यक्रमादित्यर्थ इत्याहुः । ननु पुरु-
षस्य चेतनत्वात्कथं विकार इत्यत आह-पुरुष इति । चेतन इत्यर्थः। त-
द्विशेषणमिति। तेन विकारेण विशेषितत्वं तदाख्यविशेषवत्त्वं भवतीत्य-
र्थः । तथैव तत्त्वप्रदीपोक्तेः । स च विकारो विकारिवस्त्वभिमानकृ-
तः । तर्हि चेतनगतविशेषस्यैवोत्पत्तिर्गता न चेतनस्येत्यत आह-
परतन्त्रेति । पराधीनविशेष एव विकार इत्यर्थः । हिशब्दो यत इत्य-
र्थे । तत्र जडप्रकृतौ परिणामः चित्प्रकृतौ सिसृक्षाविषयत्वादिरूपो वि-
शेषः परमात्मेऽधीनोऽस्ति । जीवे तु विकाररूपविशेष एव पराधीनोऽ-
स्ति । कालस्य तु निमेषादिरूपेणोत्पाद एव अस्ति । अत एव तत्त्वप्र-
दीपे 'सर्वे निमेषाः' ( महा. १ - ८. ) इत्यादिश्रुत्युपन्यासः । कीर्तित-
इत्यनेनास्य प्रमितत्वमाह पाद्म इत्यनन्तरं तच्चदवतारिकशङ्कापरिहृ-
तेति शेषः ॥
( ९ ) ननु जगत्कारणत्वात्परमेश्वरस्य कथमविकारित्वमित्यत