सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - ९. सू - ३४. ] दीपिकासहितम्. ४६७
( ५ ) ' देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा '
र्द्विविषये ' प्रयोजनमतिः' अनेन मम भविष्यत्प्रयोजनमस्तीति बुद्धि
स्तदपेक्षा वा 'कुतो' न कुतोऽपीत्यर्थः । कुतो नेत्यतस्तत्र—आप्तका
मत्वादिति हेतुः पूर्णेत्यनेनोक्तः । तस्यासिद्धिमाशङ्क्य कैमुतिकन्याये
न तं साधयति—मुक्ता इति । विशेषणसमुच्चयार्थोऽपिशब्दः । तथा
च अनीश्वरा अपि ' मुक्ताः' जीवाः यदा आप्तकामाः स्युः तदा अखि
लस्वामिनस्तस्य विष्णोराप्तकामता किमु वक्तव्येत्यर्थः । इति नाराय
णसंहितायामित्यन्वयः । सूत्रकारोक्तमुक्तमिति शेषः ॥
( ५ ) विवक्षिताशेषार्थप्रतिपादकत्वात् प्रथमं स्मृतिमुपन्यस्य सौ
त्रलीलाशब्दार्थविवेकायात्रैवार्थे माण्डूकेयीं श्रुतिमप्याह—देवस्येति ॥
चः समु

४६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
(मां. २-९.) इति च श्रुतिः ॥ ३४ ॥
—: * :—
१०. अधिकरणम् ॥
( १ ) सर्वकर्तृत्वे वैषम्यनैर्घृण्ये तस्येति ।
( २ ) अतो वक्ति—
सू—ॐ ॥ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ ॐ ॥ ३५ ॥
कर्मापेक्षया फलदातृत्वान्न तस्य वैषम्यनैर्घृण्ये ।
सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्तस्य स्पृहा विभोः ॥
[ इति ॥ ९ ॥
इति नप्रयोजनाधिकरणम् ॥
—::*—
१०. अधिकरणम् ॥
( १ ) अत्राधिकरणे पूर्वोक्तपरप्रयोजनरूपफलविषययुक्तिविरोधः
परिह्रियते । सयुक्तिकं पूर्वपक्षयति—सर्वैति ॥ परप्रयोजनाय कर्मान
पेक्ष्येति शेषः । तथा च ' तस्य ' ईश्वरस्य परप्रयोजनाय कर्मानपेक्ष
या सर्वजगतकर्तृत्वेऽङ्गीकृते वैषम्यनैर्घृण्ये स्यातामित्यर्थः । अयं भा
वः—परप्रयोजनाय पारमेश्वरी सृष्टिरिति पूर्वोक्तमयुक्तं, स किं कर्मा
नपेक्षया परप्रयोजनाय सृष्टिं करोति ? उत तदपेक्षया । नाद्यः, तथा
सति सर्वेऽपि सर्वदा सुखिनः स्युः, न तु कदाचित्केचित् सुखिनः के
चित् दुःखिनः । अन्यथा निर्निमित्तमीश्वरः कांश्चित्सुखयन् कांश्चिद्दुः
खयन्निरये पतितानतिविह्वलानाक्रन्दतोऽनन्यनाथानुदिधीर्षुर्विषमो
निर्दयश्च स्यात् । कर्मबोधकवेदाप्रामाण्यं च स्यात् । न द्वितीयः, अ
स्वातन्त्र्यापत्तेः । तथाच उभयथाऽपि दोषित्वान्नेश्वरस्य सर्वकर्तृ
त्वं युक्तमिति ॥
( २ ) एवं प्राप्ते सिद्धान्तयत्सूत्रमवतार्यव्याचष्टे—अत इति ॥ फ
लेति । सुखदुःखरूपेष्टानिष्टाख्यफलदातृत्वादित्यर्थः । अनेन सापेक्ष
त्वादिति सौत्रहेतोस्तात्पर्यमुक्तं भवति । फलदाने कर्मापेक्षासहितत्वा
दित्यक्षरार्थः । तस्येश्वरस्येति हेतुसाध्ययोरन्वेति । वैषम्यनैर्घृण्ये इति।
कर्मादिकमनपेक्ष्य निर्निमित्तं विभागेन ईश्वरस्य सुखदुःखप्रदत्वे कर्मा
देः सुखदुःखसाधनत्वप्रतिपादकज्योतिष्टोमेनेत्यादि वेदाप्रामाण्यापाद
कतया दोषभूते ये वैषम्यनैर्घृण्ये प्रसक्ते ते न स्त इत्यर्थः । अनेन साध्यांशो

[ अधि - १०. सू - ३६. ] दीपिकासहितम्. ४६९
'पुण्येन पुण्यं लोकं नयति पापेन पापम्' ( प्र. ३-७. )
इति हि श्रुतिः ॥ ३५ ॥
( ३ ) सू— ॐ ॥ न कर्माविभागादिति चेन्नानादित्वात् ॥ ॐ ॥ ३६ ॥
यदपेक्ष्याऽसौ फलं ददाति न तत्कर्म 'एष ह्येव साधु
कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ
एवासाधु कर्म कारयति तं यमधो निनीषते' ( कौ.
३-८. ) इतिश्रुतेः कर्मणोऽपि तन्निमित्तत्वादिति चेत्—
व्याख्यातः। हेत्वसिद्धिपरिहारकतया तथाहीति सूत्रांशं व्याचष्टे—पुण्ये-
नेति। इति हि श्रुतिरिति। हिशब्दो यत इत्यर्थे। अतः न हेत्वसिद्धिरिति वा-
क्यशेषः। अस्य हेतुवाक्येनान्वयः। षट्प्रश्नश्रुतिरियम्। अत्र जीवमीश्वर
इति शेषः। तथा चेश्वरः 'पुण्येन' जीवपुण्यं निमित्तीकृत्य 'पुण्यं लो-
कं' पुण्यसाध्यं स्वर्गादिलोकं 'नयति' प्रापयति जीवमित्यर्थः। एवं
ज्ञानेन मोक्षमिति च द्रष्टव्यम्। पापेन 'पापं' नरकादिकं दुःखबहुल-
लोकं नयति। 'उभाभ्यां' समप्रधानाभ्यां पुण्यपापाभ्यां समदुःखसु-
खे मनुष्यलोकं नयति इति शिष्टश्रुत्यर्थः। यद्यपि षट्प्रश्नभाष्यटीकयो-
रियं श्रुतिरुदानाख्यमुख्यवायुपरतया व्याख्याता। तथाऽपि परममु-
ख्यवृत्त्या विष्णुपरत्वात् अत्रोदाहरणं युक्तम्। सूत्रं स्पष्टार्थम् ॥
( ३ ) कर्मापेक्षया फलदातृत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—
न कर्मेति॥ अत्र कर्मेति व्यस्तपदस्य नञाऽन्वयमभिप्रेत्याक्षेपांशं व्याच-
ष्टे—यदपेक्ष्येति। 'असौ' ईश्वरो यदपेक्ष्या फलं ददातीत्युच्यते, त-
दपेक्षणीयं कर्मैव नास्तीति प्रतिज्ञा विशिष्टप्रतिषेधपरा। नन्वस्ति पू-
र्वकर्मैवेत्यतः—अविभागादित्युक्तं सूत्रे। तत् लोके विभक्ते अस्वतन्त्र
इति प्रयोगदर्शनात्तदनुसारेण अस्वतन्त्रत्वादित्यर्थकतया व्याचष्टे—
कर्मणोऽपि तन्निमित्तत्वादिति। पूर्वकर्मणोऽपि भगवदधीनत्वादित्यर्थः।
दोषपरिहारायापेक्ष्यस्यापीत्यपेरर्थः। न केवलं फलस्येति वाऽर्थः। त-
था च कर्मणोऽपि स्वाधीनत्वान्निमित्तं विषमाणां कर्मणां कारयि-
तुः पुनर्वैषम्याद्यापातेन तत्परिहाराय तदपेक्षा सम्भवतीत्यपेक्ष्यं क-
र्म नास्तीति भावः। अनेन कर्माविभागादिति समस्तपदं चेति सूचितं
म्। न च हेत्वसिद्धिरित्याह—एष ह्येवेति। श्रुतेरिति। अस्य तन्नि-
मित्तत्वावगमादित्यनेनान्वयः। तेनाविभागादित्यस्य अविभक्ततया प-

४७० ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - १. ]
(४) न, तस्यापि पूर्वकर्म कारणमित्यनादित्वात्कर्मणः ।
(५) भविष्यत्पुराणे—
पुण्यपापादिकं विष्णुः कारयेत्पूर्वकर्मणा ।
रमात्माधीनतया श्रुत्युक्तत्वादित्यर्थ उक्तो भवति । श्रुतौ साधुकर्मेति
मोक्षसाधनज्ञानादिकमुपलक्ष्यते । उन्निनीषतिशब्दोक्तमोक्षहेतुप्रसाद
स्य केवलकर्मासाध्यत्वात् । हिशब्दः प्रसिद्धौ । तथा च ‘एषः’ भग
वान् ‘यं’ जीवं ‘एभ्यो’ भूर्भुवस्स्वराख्यलोकेभ्यः ‘उन्निनीषते’ ऊ
र्ध्वं नेतुमिच्छति ‘तं’ योग्यजीवं ‘कर्म ज्ञानादिकं कारयति’ तेन त
त्सम्पादयतीत्यर्थः । अनेन मोक्षस्येच्छाविशेषरूपेश्वरप्रसादसाध्यतो
क्ता भवति । उशब्दो विष्णुवाची । असाधुकर्म मिथ्याज्ञानोपलक्षक
म् । तथा च एषः यमेभ्यो लोकेभ्यः ‘अधो निनीषते’ तमो नेतुमि
च्छति, तमयोग्यजीवं तेन असाधुकर्म कारयतीत्यर्थः । अयं च सुधा
रीत्योक्तः ॥
(४) परिहारांशं व्याचष्टे—नेति ॥ कुतो नेत्यतस्तत्रापेक्षितहेतुमु
पस्कुर्वन्ननादित्वादिति हेतुं क्रमेण योजयति—तस्येति, पूर्वकर्मण इत्य
र्थः। सत्त्वादिति शेषः, नेत्याद्यावर्तते । तथा चेत्थं योजना—नापेक्ष्यक
र्माभावो वक्तव्यः । कुतः ? पूर्वकर्मणस्तादृशस्यासत्त्वात् । ननु पूर्व
स्यापि कर्मणो भगवन्निमित्तत्वेन वैषम्यादिपरिहाराहेतुत्वान्नापेक्ष्य
ता सम्भवतीत्यत आह—तस्यापीति, तस्यापेक्ष्यकर्मणस्ततोऽपि पूर्व
कर्मकारणमिति हेतोः, तस्यापि तत्पूर्वकर्मकारित्वादिति यावत् ।
न केवलं पूर्वकर्मण इत्यपरेर्थः । तथा च तस्यैवापेक्ष्यतोपपत्तिरिति
भावः । ननु पूर्वतनस्यापीश्वरनिमित्तत्वेन पुनर्वैषम्याद्यापादकत्वादन
पेक्ष्यतैवेत्यत आह—तस्यापीति । पूर्वतनकर्मणोऽपि पूर्वं तत्पूर्वत नं
कर्म कारणमिति हेतोः, तस्यापि तत्कारित्वादित्येवार्थः । ननु यत्र
कर्मापेक्षाशान्तिरूपं पर्यवसानं तदारभ्य वैषम्यादिरूपो दोषः स्यादि
त्यत आह—अनादित्वादिति । ‘कर्मणः’ कर्मपरम्परायास्तत्समुदाय
स्यानादित्वादिति ॥
(५) सूत्रकृदुक्तार्थे पुराणसम्मतिमप्याह—भविष्यदिति ॥ न के
वलं सूत्रे, किन्तु पुराणेऽपीति समुच्चये चशब्दः । इदमुक्तमिति शेषः।
किमुक्तमित्यतस्तत्पठति—पुण्येति । पुण्यपापपदाभ्यां तत्साधनं क
र्मोपलक्ष्यते । आदिशब्दात् तपआदि गृह्यते । जीवेनेति शेषः । ‘पूर्व

[ अधि - १०. सू - ३७. ] दीपिका सहितम्. ४७१
अनादित्वात्कर्मणश्च न विरोधः कथं चन ॥ इति ॥ ३६ ॥
( ६ ) सू—ॐ ॥ उपपद्यते चाप्युपलभ्यते च ॥ ॐ ॥ ३७ ॥
न च कर्मापेक्षत्वेन ईश्वरस्यास्वातन्त्र्यम् ।
( ७ ) द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतस्सन्ति न सन्ति यदुपेक्षया ॥
कर्मणा' स्वापेक्ष्येण निमित्तभूतेनेत्यर्थः । 'कर्मणः' स्वापेक्ष्यस्य । च
शब्दात्तत्पूर्वतनेन कर्मणा इति सूचितम् । तथा च कर्मपरम्परया अना
दित्वात् 'कथं चन' केनापि प्रकारेण कार्यमूलकतया कारणकर्ममूल
कतया वा 'विरोधो' वैषम्यनैर्घृण्याख्यो दोषो नास्तीत्यर्थः । इति भ
विष्यत्पुराण इत्यन्वयः ॥
( ६ ) नन्वीश्वरस्य कर्मापेक्षासहितत्वात् वैषम्याद्यभावेऽपि निय
मेन कर्मापेक्षयैव फलदातृत्वादस्वातन्त्र्यं प्रसज्यत इत्याशङ्कां परिहर
त्सूत्रमुपन्यस्य व्याचष्टे—उपपद्यत इति ॥ अस्वातन्त्र्यमित्यनन्तरं
किन्तूपपद्यते च तदिति शेषः । चशब्दोऽवधारणे । तथा च नेश्वर
स्य कर्मापेक्षत्वेन निमित्तेन 'अस्वातन्त्र्यं' स्वातन्त्र्यानुपपत्तिः, कि
न्तु तत्स्वातन्त्र्यमुपपद्यत एवेति योजना । अनेन उपपद्यते चेति प्र
तिज्ञा व्याख्याता ॥
( ७ ) ननु सापेक्षस्य कथं तदुपपद्यते इत्यतस्तत्र हेतुत्वेन प्रवृत्त
स्य यतस्तदुपलभ्यते इत्यंशस्य तात्पर्यमाह--द्रव्यमित्यादिना ॥ 'न
र्ते त्वत्क्रियते' इत्यादिरादिशब्दार्थः । कर्मेत्यतः प्रागपेक्षणीयेत्युपस्का
र्थम् । कालजीवादिः द्वितीयादिशब्दार्थः । 'सत्त्वस्य' सत्त्वादेः । न
केवलं कर्मादिस्वरूपाणां, किन्तु तेषां सत्तादेरपीत्यपिशब्दार्थः । 'त
दधीनत्वात्' ईश्वराधीनत्वेनोपलभ्यमानत्वादित्यर्थः । तथा च स्वे
च्छया नियमेन स्वाधीनतत्त्वादिमदपेक्षायामपि नास्वातन्त्र्यमिति
भावः । अनेन यतस्तत्कर्मादिसत्त्वाद्यपि तदीश्वराधीनमुपलभ्यते
स्मृत्यादाविति हेत्वर्थ उक्तो भवति । अत एव तत्त्वप्रदीपे उपपद्यते
च तस्य स्वातन्त्र्यं, यत उपलभ्यते कर्मादेस्तदधीनत्वं श्रुतिस्मृत्यो
रिति प्रतिज्ञाहेत्वोर्योजना दर्शिता । केचित्तु—कर्मादीनामिति भाष्यं
सूत्रे अध्याहृतहेतुपरं चशब्दसूचितहेतुपरं वा । द्रव्यमित्यादि च त
स्यासिद्धिपरिहारायापिशब्दसूचितभागवतस्मृत्यादिप्रमाणोपन्यास
रूपमित्याहुः । तत्तु तत्त्वप्रदीपविरुद्धं द्रव्यमिति स्मृत्युदाहरणेन 'ए

नादेरपि" or "द्रव्यमित्यादिनाऽनादेरपि" is standard.
Wait, let's look at L11: "कर्मादिसत्ताऽपि" - the avagraha is printed as 'ऽ'.
In L16: "ऽपि पूर्वमुत्पादित..." - the avagraha is printed as 'ऽ'.
In L6, is it 'ऽ'? Yes, it's an avagraha 'ऽ' or 'ना'! If there's an avagraha: "द्रव्यमित्यादिनाऽनादेरपि".

Let's check the rest of the text line by line to ensure 100% accuracy:

४७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
इत्यादिना कर्मादीनां सत्त्वस्यापि तदधीनत्वात् ।
(८) न च पुनर्वैषम्याद्यापातेन दोषः । तादृशवैषम्यादेरुप- (wait, does it have hyphen? No hyphen in print, it's just तादृशवैषम्यादेरुप at the end of line 3, and लभ्यमानत्वात् । at line 4)
Wait, let's check line 3:
" (८) न च पुनर्वैषम्याद्यापातेन दोषः । तादृशवैषम्यादेरुप"
line 4:

[ अधि - ११. सू - ३८. ] दीपिकासहितम्. ४७३
( ९) स कारयेत्पुण्यमथापि पापं न तावता दोषवानीशिताऽपि।
ईशो यतो गुणदोषादिसत्त्वे स्वयं परोऽनादिरादिः प्र
[ जानाम् ॥
इति चतुर्वेदशिखायाम् ॥ ३७ ॥
११. अधिकरणम् ॥
( १ ) अवशिष्टैरुपसंहरति-
( ९ ) काऽसौ श्रुतिरित्थतस्तामुदाहरति-स कारयेदिति ॥ चतु
वेदशिखायामित्यस्य उपलभ्यमानत्वादित्यनेनान्वयः । श्रुतौ स इत्य
स्योत्तरत्राप्यधिकारसूचकोऽथशब्दः । अपिशब्दौ समुच्चयार्थी । तथा
च ‘सः’ विष्णुः स्वाधीनपूर्वकर्मापेक्षया पुण्यं कर्म जीवेन कारयेत्
पापं कर्म च कारयेत् । एवं तस्य कर्मणः ‘ईशिता’ नियन्ताऽपि स
एव । तावता न वैषम्यादिदोषवानित्यर्थः । तत्त्वप्रदीपे तु-स भगवा
न् स्वयमीशिताऽपि पुण्यस्य शोभनमेव फलं पापस्य तद्विपरीतमित्ये
तदन्यथा कर्तुं समर्थोऽपि न तथा करोति, किन्तु पुण्यं पुण्यैः कारये
त् पापं पापैरथ मिश्रकर्माण्यपि विमिश्रैः कारयेन्नैतावता वैषम्यादि
दोषवान् । कुतो ? यतः ‘परः’ स्वतन्त्रः स परमात्मा ‘गुणदोषादि
सत्त्वे’ अन्येषु गुणदोषसम्बन्धापादने गुणदोषादीनां गुणदोषत्वापा
दने च स्वयमेवेशः अतः । किञ्चायं न सकर्तृकः, येन पराधीनतया
दोषसम्भवः, अतो न तस्य दोष इत्याह-‘अनादिः’ उत्पादकशून्य
इति । इतोऽपि न दोषसम्भव इत्याह-आदिः प्रजानामिति । प्रजोप
लक्षितसर्वकर्तेत्यर्थः । न च कस्यापि स्वदोषेच्छा भवति, किमु सर्व
कर्तुरतो न दोषवान्, किन्तु परमेश्वरः स्वातन्त्र्यात् सर्वगुणगणपरि
पूर्ण एव स्वाभाविकीं स्वीयां स्थितमनपोह्य त्रिविधान् धर्मान् त्रिवि
धैः कारयतीत्यभ्युपगमे श्रुत्याद्यनुग्रहश्चोपपद्यते । वक्ष्यन्ते च नियमा
स्तद्रूपाभावाः । तत्रोपपद्यते चैवंनियमवत्त्वं स्वतन्त्रस्य । उपलभ्यते
चैवं स्वभावत्त्वं ‘देवस्य’ (मां. २-९.) इति श्रुतौ, इति श्रुतिर्व्या
ख्याता। अनेनोपपद्यते उपलभ्यत इत्यनयोरसकृदावृत्तिस्सूचिता॥१०॥
॥ इति वैषम्यनैर्घृण्याधिकरणम् ॥
११. अधिकरणम्
( १ ) अत्राधिकरणे विष्णोः सर्वगुणपूर्तौ सर्वदोषराहित्ये च युक्त्य
६०

४७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
सू-ॐ ॥ सर्वधर्मोपपत्तेश्च ॥ ॐ ॥ ३८ ॥
गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवा
[ त्र शङ्का ।
विरोध उच्यते । ननु सर्वेषां युक्तिविरोधानां परिहृतत्वात्किमुत्तरसू-
त्रेणेत्यत एतत्सूत्रतात्पर्यमाह—अवशिष्टैरिति ॥ पूर्णत्वमितिशेषः । त-
था च विशिष्यप्रतिपादितेभ्यः स्रष्टृत्वादिगुणेभ्यः अवशिष्टैः सर्वगुणैः
प्रतिपादितैः पूर्णत्वं 'उपसंहरति' निगमयत्यत्रेत्यर्थः । इदमुकं भवति-
पूर्वाधिकरणेषु विष्णोः प्रत्येकमेकैकगुणविषये दोषाभावविषये च वि-
रोधं परिहृत्य तत्समर्थनं कृतम् । तेभ्योऽवशिष्टाः ये सर्वगुणा दोषा-
भावाश्च तत्र सामान्यतो युक्तिविरोधपरिहारेण तान् समर्थ्य धिष्णोः
सर्वगुणपूर्णत्वविषयं सर्वदोषाभाववत्त्वविषये च प्राप्तयुक्तिविरोधप-
रिहारेण तत्प्रकरणमत्राधिकरणे समापयति सूत्रकार इति । यथोक्तं
प्रमेयदिपे 'उपसंहरति' प्रकरणं समापयतीति । अत्र भाष्ये तृती-
या द्वितीयार्थे । समर्थ्य पूर्णत्वमितिपदद्वयमध्याहार्यमिति ध्येयम् ।
न विष्णोस्सर्वगुणपूर्णत्वं युक्तं, चेतनत्वात् जीववत्, अन्यथा
ऽन्यस्यापि तत्स्यादविशेषादितिप्राप्ते सिद्धान्तयत्सूत्रं पठित्वा व्या-
चष्टे—सर्वैति । इति सर्वधर्मोपपत्तेरिति । एवंरूपसर्वधर्मोपपाद-
कश्रुतेरित्यर्थः । क्वचित् 'सर्वगुणोपपत्तिश्रुतेश्च' इतिपाठः । गुणे
तिधर्मशब्दव्याख्यानम् । न केवलं स्वातन्त्र्यादिना विष्णोः सर्वे
धर्मोपपत्तिः, किन्तु 'गुणाः श्रुताः' (सौपर्णश्रुतिः) इति सर्वधर्मो-
पपादकश्रुतेश्चेति समुच्चये चशब्दः । तत्त्वप्रदीपे तु—'इति सर्व-
गुणोपपत्तिश्रुतेः' कयाऽपि विधया दोषाभावश्रुतेश्चेति चशब्दार्थ
उक्तः । अस्य हेतोः चशब्दसूचितेन नायुक्तं विष्णोः पूर्वत्वमि-
तिसाध्येनान्वयः । चेतनत्वं त्वप्रयोजकं श्रुतिविरुद्धं चेति भावः । सू-
त्रार्थस्तु स्पष्टः । वेदे 'श्रुता गुणाः' अणुत्वमहत्वादिशुभधर्माः 'सु-
विरुद्धाश्च' लोकदृष्ट्याऽतिविरुद्धाः अन्यत्र सहादृष्टा अपि 'देवे' ह-
रौ सन्त्येव, न तु तेषां विरुद्धतया मिथ्यात्वं कल्पनीयमित्यर्थः । न के-
वलं विरुद्धा इत्यपिशब्दार्थः । एवं हरौ 'अश्रुताः' वेदानुक्ताश्च रमा-
चतुर्मुखवाणीचिन्त्या गुणास्सन्ति । तर्हि यावन्तो रमादिभिश्चिन्तयि-
तुं शक्यन्ते तावन्त एव गुणाः किमित्यतो नेत्याह—अचिन्त्या इति ।
यथा रमादिभिश्चिन्त्यास्सन्ति, तथा तैरचिन्त्याश्च गुणाः सन्तीत्यर्थः।

[ अधि - ११. सू - ३८. ] दीपिकासहितम्. ४७५
चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि त
[ था प्रतीताः ॥
इति सर्वधर्मोपपत्तेरिति ॥ ३८ ॥
—: ❖ :—
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये द्वितीयास्याध्यायस्य
प्रथमः पादः.
॥ ॐ ॥
—
ननु यथा गुणाः श्रुताः चिन्त्या अचिन्त्याश्च देवे सन्ति तथा दोषा अ
पि किमित्यतो नेत्याह—दोषा इति । देवे दोषाः श्रुता एव न सन्ति,
नापि चिन्त्याः, किमुपुनरचिन्त्या दोषान सन्तीति वक्तव्यमित्यर्थः। ननु
कथं न दोषाः श्रुताः ‘जनितोत धिष्ण्येः’ ( ) इत्यादौ प्रती
तैरित्यत आह—अज्ञैरिति । मिथ्यादृग्भिर्हि तथा श्रुता इति सन्तीति च
प्रतीताः, न तु ज्ञानिनामित्यर्थः । अयं चार्थस्तत्त्वप्रदीपन्यायदीपिकासू
क्तः। न चाश्रुता रमादिचिन्त्याः सन्ति चेत् ‘अनुक्तं पञ्चभिर्वेदैर्न च
स्त्वस्ति कुतश्च न’ इत्युक्तिविरोध इति वाच्यम् । सामान्यतः श्रुताः
विशिष्याश्रुता इत्यर्थस्येह विवक्षितत्वेन विरोधाभावात् । इयं च गी
तातत्पर्योक्तरीत्या ऋग्वेदे सौपर्णशाखाश्रुतिः । गीताभाष्ये तु इयं
जाबालिखिलश्रुतिरित्युक्तम् । सुपर्णदृष्टाया अपि श्रुतेर्जाबालिदृष्टत्वस
म्भवादविरोधः ॥ ११ ॥
॥ इति सर्वधर्मोपपत्त्यधिकरणम् ॥
—❦—
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि
कायां द्वितीयाध्यायस्य प्रथमः पादः.
॥ ॐ ॥
—

४७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
१. अधिकरणम् ॥
( १ ) इतरेषां चानुपलब्धैरिति सामान्यतो निराकरणं सम
यानां कृतम् । विशेषतो निराकरोत्यस्मिन् पादे ।
( २ ) अचेतनप्रवृत्तिमंतं प्रथमतॊ निराकरोति—
( ३ ) सू— ॐ ॥ रचनानुपपत्तेश्च नानुमानम् ॥ ॐ ॥ १ ॥
१. अधिकरणम् ॥
( १ ) एतत्पादार्थं दर्शयति—इतरेषामिति ॥ तानिति शेषः । तथा
च ‘ इतरेषां चानुपलब्धेः ’ इति सूत्रे येषां समयानां दर्शनानां तदुक्त
फलानुपलब्ध्याऽनाप्तोक्तत्वेन च लिङ्गेन निराकरणं कृतम् । तान् क-
पिलकणादादिसमयान् निराकरोत्यस्मिन् पादे सूत्रकार इति योज-
ना । ननु प्राङ्गिराकृतानां पुनर्निराकरणं व्यर्थमित्यत आह—सामान्य-
तो विशेषत इति । योजना तु सामान्यतो विशेषत इति पदद्वयप्रक्षेपे-
ण पूर्ववदेव । तथा च प्राक्सामान्यतो निराकरणं कृतम् । नैतावता-
धिकारिणश्शास्त्रे निःशङ्का प्रवृत्तिर्युज्यते । तेषामनादिकालाद्यनुवृत्त-
त्वात्प्रतीतिसुन्दरत्वाच्च । अतोऽधिकारिणो निःशङ्कप्रवृत्त्यर्थं प्राङ्गिराकृ-
तानेव समयान्विशेषतया एकैकपक्षानुवादेन निराकरोत्यस्मिन्पादे इ-
ति न वैय्यर्थ्यमिति भावः ॥
( २ ) एतत्पादीयाद्याधिकरणार्थं दर्शयति—अचेतनेति ॥ ईश्व-
रनिरपेक्षाचेतनप्रकृतेरेव महदादिकार्यकरणे प्रवृत्तिरिति यन्निरीश्वर-
साङ्ख्यमतं तत् ‘प्रथमतः’ अस्य पादस्य प्रथमेऽधिकरणे निराकरोति
सूत्र कृदित्यर्थः । इतरसमयापेक्षया प्रबलत्वादतिविरोधित्वादतितुच्छ-
त्वाच्चेति भावः ॥
( ३ ) अत्र नानुमानमित्यंशव्याख्यानेनैव पूर्वपक्षः प्रदर्शितो भव-
तीत्याशयेन तमप्रदर्श्य सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—रचनेति॥
रचनानुपपत्ते रित्यस्यैकपदत्वे तदन्वययोग्यपदं दर्शयति—अचेतन-
स्येति । हेतुगर्भविशेषणमेतत् । प्रधानस्येति विपरिणामेनाकृष्यते । र-
चनेत्यस्य भिन्नपदत्वेऽत्र स्वतःप्रवृत्तीत्येकं पदम् । तथात्वे बहुव्री-
हिः । प्रधानमित्यनेनान्वेति । अनुपपत्तेरित्यत्र नञ् विरुद्धार्थः । स्वम-
तेऽपीश्वरप्रेरितचेतनप्रवृत्त्यभ्युपगमाद्धितं भेतादित्यत उक्तं —स्वत इ-
ति । ईश्वरनिरपेक्षस्येत्यर्थः । प्रवृत्तेर्यत्नः रचनपदव्याख्यानमेतत् । 'अ

[ अधि - १. सू - २. ] दीपिकासहितम्. ४७७
अचेतनस्य स्वतः प्रवृत्त्यनुपपत्तेर्नानुमानपरिकल्पितं
प्रधानं जगत्कर्तृ ।
(४) चशब्देन प्रमाणाभावं दर्शयति ॥ १ ॥
(५) सू—ॐ ॥ प्रवृत्तेश्च ॥ ॐ ॥ २ ॥
नुपपत्तेः' उपपत्तिविरुद्धत्वात् । अनेन सूत्रे अचेतनस्य स्वतःइति शेषः
कार्यः। नेत्यस्य रचनेत्यनेन संबंधभाष्ये स्वतः प्रवृत्तीत्यत्रापि अन्वयः। सू
त्रे अनुमानमिति वा आनुमानमिति वा छेदं अनुमीयत इत्यनुमानमिति
व्युत्पत्तिं जगत्कर्तृ इत्यध्याहारं चाश्रित्य पर्यवसितार्थमाह—अनुमाने
ति । 'परिकल्पितं' सिद्धम् । प्रधानमिति शेषोक्तिः । अनेन नानु
माने प्रधानं जगत्कर्तृ इति प्रतिज्ञान्तरं दर्शितम् । तथा चेत्थं सूत्र
भाष्ययोजना—अनुमानं महदादिकं सदसदृशकारणं कार्यत्वात्
पटवदित्यनुमानेन सिद्धं प्रधानं न जगत्कर्तृ । कुतः ? यतो नास्य
रचना न प्रधानं स्वतःप्रवृत्ति ईश्वरनिरपेक्षप्रवृत्तिमत् । न चासि
द्धिः । अचेतनस्य रचनानुपपत्तेः । रचनायाः स्वतःप्रवृत्तेरचेतन
त्वोपपत्तिविरुद्धत्वात् । अनेन प्रधानस्य स्वतः प्रवृत्त्यभावे अचे
तनत्वाख्यहेतुसूचनादसिद्धिः परिहृता । तद्विरुद्धोपपत्तेरेव तद्
भावसाधकत्वात् । यद्यद्विरुद्धं लिङ्गं तत्तदभावसाधकं यथा नित्यत्व
विरुद्धकृतकत्वमनित्यत्वसाधकमितिव्याप्तेः । यद्यपि नानुमानमुपपत्ते
रिति सुवचम्, सर्वस्यापि हेतोः सङ्ग्रहात् । तथापि विरोधिहेतुप्राब
ल्यसूचनाय विरोधस्फोरणाय चैवमुक्तम् । अतएवाचेतनस्येति पद
मध्याहृतम्, असम्भवादित्यनुक्त्वाऽनुपपत्तेरिति चोक्तम् ॥
(४) प्रामाणिकं प्रधानस्य कर्तृत्वं न युक्त्या निराकर्तुं शक्यमि
त्यतः प्रवृत्तस्य सौत्रचशब्दस्यार्थमाह—चशब्देनेति ॥ प्रमाणाभावमि
ति । वादिनो हैतुकत्वेनात्र प्रमाणशब्दोऽनुमानपरः । वस्तुस्थितिकथ
नार्थं सामान्योक्तिः । अचेतनस्य स्वतः प्रवृत्तौ जगत्कर्तृत्वे चेति शे
षः । 'दर्शयति' समुच्चिनोति सूत्रकृदित्यर्थः । अनेन न केवलं प्रकृति
कर्तृत्वे स्वतःप्रवृत्तौ च प्रमाणविरोधः, अपि तु प्रमाणाभावश्च । न चा
नुमानं मानम्, 'रचनानुपपत्तेः'अनुमानरचनानुपपत्तेः कार्यत्वाद्यनुमा
नं तु कारणतामात्रसाधकतया सिद्धसाधकत्वान्न प्रकृतोपयोगीति सू
त्रस्य वृत्त्यन्तरं दर्शितं भवति ॥
(५) एवं प्रधानस्य स्वतःप्रवृत्तिकर्तृत्वे अचेतनत्वस्वतःप्रवृत्ति

४७८ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - २.]
चेतनस्य स्वतः प्रवृत्तिदर्शनाच्च ॥ २ ॥
( ६ ) सू—ॐ ॥ पयोऽम्बुवच्चेत्तत्रापि ॥ ॐ ॥ ३ ॥
पयोऽम्बुवदचेतनस्यापि प्रवृत्तिर्न युज्यत इति न युक्तम् ।
'एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यस्स्र-
न्दन्ते याश्च श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यांयां च दिश-
शून्यत्वप्रमाणाभावैः निराकृत्य युक्त्यन्तरेणापि तन्निराकुर्वत्सूत्रमुपन्य-
स्य व्याचष्टे—प्रवृत्तेश्चेति ॥ चेतनस्येति सावधारणम् । तथा च 'चे-
तनस्य' एव कुलालादेर्घटादिसृष्टौ 'प्रवृत्तेः' व्यापारस्य 'दर्शनात्'
अहं करोमीत्यनुभवसिद्धत्वादित्यर्थः । अचेतनस्यापि चेतनाधीनप्रवृ-
त्तिदर्शनाद्व्यभिचारपरिहाराय 'स्वतः' इत्युक्तम् । चेतननिरपेक्षेत्य-
र्थः । अनेन सूत्रे चेतनस्य स्वतो दर्शनादितिपदत्रयमध्याहार्यमिति सू-
चितम् । चशब्दो न केवलमचेतनत्वसाधितस्वतःप्रवृत्तिशून्यत्वाख्या-
नुमानात्, नापि प्रधानकर्तृत्वसाधकप्रमाणाभावान्नानुमानं जगत्कर्तृ,
किन्तुमहदादिसृष्टिश्चेतनेच्छानुसारिणी सृष्टित्वाद्धटादिसृष्टिवदित्य-
नुमानान्तरविरोधाच्चेति हेतुसमुच्चयार्थः । न चेदं कथं सूत्रोक्तमिति
वाच्यम् । चेतनस्य ज्ञातुः प्रवृत्तेरित्यनेनास्योक्तत्वात् । प्रवृत्तिर्हि क्रि-
या, सा च कृतिं विना नोपपन्ना । सा च नेच्छां विना । सा च न ज्ञा-
नं विनेति प्रवृत्त्यादिकार्याणां स्वस्वकारणाविनाभूतत्वेन प्रवृत्त्या इ-
च्छापूर्वकत्वसाधनसम्भवात् । दर्शनादित्यस्य न दृष्टान्ते साध्यवैक-
ल्यमित्यध्याहृतसाध्येनान्वयः ॥
( ६ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्य व्याचष्टे—पयोऽम्बुवदि-
ति ॥ अचेतनस्येत्यनन्तरं प्रधानस्येति शेषः । चो विशेषणसमुच्चये ।
यद्यपि तथापीत्यर्थे, न केवलं चेतनस्य किं त्वचेतनस्यापीतिसमुच्चये
वाऽपिशब्दः । सूत्रे व्यस्तस्य रचनेत्यतोऽनुवृत्तस्य रचनाशब्दस्यार्थ-
माह—प्रवृत्तिरिति । युज्यत इति शेषोक्तिः । तथा चेत्थं पूर्वपक्षांशा-
र्थः—यथाऽचेतनस्य पयसः क्षीरस्य दध्याकारेण परिणामः अम्बुनो
जलस्य गतिश्च दृष्टा। तथा अचेतनस्यापि प्रधानस्याचेतनत्वेऽपि रचना
स्वतःप्रवृत्तिर्युज्यत इति चेदिति । अनेन. सिद्धान्त्युक्ताद्यानुमानस्य
प्रत्यनुमाने पक्षसाध्यहेतुदृष्टान्तप्रदर्शनेन प्रतिपक्ष उक्तो भवति । व्या-
सत्यभिधानायानेकदृष्टान्तोपादानम् । स्वतः परिणामे पयः, अम्बु तु प्र-
वृत्तिमात्रे दृष्टान्त इति केचित् । अनेन सिद्धान्तिहेतोर्व्यभिचाराभिधा-

[ अधि - १. सू - ४. ] दीपिकासहितम्. ४७९
मनु' (बृ. ५-८-९.) 'एतेन ह वाव पयो मण्डं भवति'
( ) इत्यादि तत्रापीश्वरनिमित्तप्रवृत्तिश्रुतेः ॥३॥
(७) सू—ॐ ॥ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ॐ ॥ ४ ॥
'न ऋते त्वत्क्रियते किञ्चनारे' (ऋ. १०-११२-९.) इति
नायाभिहिते पयोऽम्ब्वादौ स्वतःप्रवृत्त्यभावरूपप्रथमसाध्यस्याभावो
दर्शितः । अचेतनस्येत्यनेन हेतुरपि । तथा चाचेतनत्वहेतोः स्वेनैव
सत्प्रतिपक्षिक्षतत्वात्पयोऽम्ब्वादौ व्यभिचारित्वाच्च न साधकत्वमिति भा
वः । सौत्रापिपदं नञस्समाकर्षकमिति भावेनाह — नेति । इत्यादी
त्यविभक्तिको निर्देशः । इत्यादावित्यर्थः । 'तत्रापि' पयोऽम्ब्वादावपि
न केवलं प्रधान इत्यपिशब्दार्थः । सौत्रापिशब्दः ईश्वराख्यचेतनाधीन
प्रवृत्तेराकर्षकश्चेति भावेनाह — ईश्वरनिमित्तेति । पूर्वसूत्राध्याहृतस्य
दर्शनादित्यस्य इहानुवृत्तिः कार्येतिभावेन तदर्थमाह—श्रुतेरिति । त
थाच पूर्ववाद्युक्तप्रत्यनुमानदृष्टान्ते पयोऽम्ब्वादौ सिद्धान्त्यभिमतसाध्य
स्यैव सत्त्वान्न तदनुमानस्य सत्प्रतिपक्षता न वा व्यभिचार इति भा
वः । श्रुतेः प्राबल्यात्तत्क्रमानुसारेण सौत्रक्रमातिक्रमः कृतः। अन्यथा ए
तेनेति वाक्यमादावुदाहरेत् । बृहदारण्यके एतस्यवेत्येकं वाक्यम् । ए
तेनेत्यन्यत्तत्रैव । तदर्थस्तु—याः अन्याः विलक्षणाः काश्चित्प्राच्यः
प्राच्यां दिशि स्थिताः याश्चान्याः काश्चित्प्रतीच्यः प्रतीच्यां दिशि
स्थिताः नद्यः श्वेतेभ्यः तन्नामकपर्वतेभ्यः । बहुवचनमाद्यर्थे । सकाशा
दिति शेषः । यां यां दिशमनुस्यन्दन्ते स्रवन्ते ताः नद्यः एतस्याक्षर
स्य भगवदाख्यस्य प्रशासने । निमित्तसप्तमीयम् । आज्ञामात्रान्तां तां
दिशमनुस्यन्दन्ते । एतेन भगवता पयः क्षीरं मण्डं दधि भवति तद्रू
पं भवति । यद्वा—मण्डं दधिभावं भवति प्राप्नोति दध्युपादानं भवती
ति वेति ॥
(७) ननु श्रुतिसामर्थ्येन पयोऽम्बुनोः प्रवृत्तेरीश्वराधीनतया तत्र
व्यभिचाराभावेपि अयस्कान्तशिलादिरूपाचेतनान्तरस्य प्रवृत्तौ सि
द्धायां भविष्यति तत्र व्यभिचारः सेत्स्यति च प्रधानस्य स्वतः प्रवृ
त्तौ साध्यायामयस्कान्तादिकमेव निदर्शनं उदाहरणनियमस्यान्याश्रय
णीयत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—व्यतिरेकेति ॥ इ
र्त्यनन्तरं श्रुत्येति अनवस्थितेरित्यनन्तरं सिद्धत्वादिति च शेषः ।
यद्वा—इत्यनवस्थितेरसत्त्वश्रुतेरित्यर्थः । तद्व्यतिरेकेणेत्यनेनापि पदेन

४८० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
तद्व्यतिरेकेण कस्यापि कर्मणोऽनवस्थितेः अनपे
क्षितमेवाचेतनवादिमतम् ॥ ४ ॥
:—*—:
प्रकृत ईश्वरोऽत्र व्यतिरेकप्रतियोगितया संयोज्य इति सूचितम् । सौ
त्रेश्चशब्दस्यार्थमाह--कस्यापि कर्मण इति । किञ्चित्कर्तृकर्मण इति
व्यधिकरणे षष्ठ्यौ । यदा समानाधिकरण्ये षष्ठ्यौ अपिरभिव्याप्तौ ।
तदा अनवस्थितेरित्यनन्तरं अत इति शेषः । अत इति अनपेक्षितमि
ति चावर्तते । अचेतनेति । अचेतनस्यैव स्वतः प्रवृत्तिरितिवादिनो
मतमित्यर्थः । तथा चेत्थं सूत्रभाष्ययोजना—नर्ते इतीश्वरव्यतिरेकेण
तं विना कस्यापि कर्मणोऽनवस्थितिश्रुतेर्नाचेतनत्वहेतोः कुत्रापि व्य
भिचारः न वा पूर्ववाद्युक्तानुमाने दृष्टान्तलाभः । यतएवमतोऽचेतन
[L

[ अधि - २. सू - ४. ] दीपिकासहितम्. ४८१
२. अधिकरणम् ॥
( १ ) सेश्वरसाङ्ख्यमतं निराकरोति । यथा पृथिव्या एव प-
र्जन्यानुगृहीतं तृणादिकमुत्पद्यते एवं प्रधानादीश्वरा-
नुगृहीतं जगदिति ।
( २ ) अतो ब्रवीति—
२. अधिकरणम् ॥
( १ ) एतदधिकरणार्थं दर्शयति—सेश्वरेति ॥ प्रधानमेव जगत्क-
र्तृ, तस्य गुणभूतत्वेनेश्वरोऽस्तीति वदन् सेश्वरः, स चासौ साङ्ख्यश्च
तस्य पतञ्जलेर्मतं निराकरोत्यस्मिन्नधिकरणे सूत्रकृदित्यर्थः । सिद्धा-
न्तप्रतिज्ञापरेण न तृणादिवदित्यनेन सूचितं पूर्वपक्षमाह—यथेति । पृ-
थिव्या इति पञ्चमी । उपलक्षणमेतत् । कलमादिबीजाच्चेत्यपि द्रष्टव्य-
म् । एवशब्दस्योत्तरत्राप्यन्वयः । प्रधानपदं पुरुषस्याप्युपलक्षकम् ।
तथा च—यथा स्वाधीनोपादानत्वशक्तिमत्या एव केवलायाः पृथि-
व्याः, न पुनर्वेदवादिन इव ईश्वराधीनत्वशक्तिमत्याः, एवं स्वाधीनबी-
जत्वशक्तियुक्तात्कलमादेश्च सकाशात् स्वोत्पत्तौ पृथिव्यनुग्राहकेण त-
त्सन्निधिमता तदनुकूलेन पर्जन्येनानुगृहीतं तदनुग्रहसहितं तत्क-
र्तृकस्वोत्पत्तीच्छाविषयीकृतं 'तृणादिक'मङ्कुरादिकमुत्पद्यते । तथा प्र-
धानात्स्वाधीनोपादानत्वशक्तियुक्तादेव केवलात्, न पुनरीश्वराधीनश-
क्तियुक्तात् । एवं देहादिसम्बन्धेनोत्पत्तौ या शक्तिः सा बीजशक्तिः
स्वाधीनतच्छक्तियुक्तात्पुरुषाच्च स्वोत्पत्तौ स्वोपादानभूतप्रकृत्यनुग्रा-
हकेनेश्वरेणानुगृहीतं तत्कर्तृकस्वोत्पत्तीच्छाविषयीकृतं जगदुत्पद्यत
इत्यर्थः । तथा चेश्वरस्य प्रेरकत्वबीजावापकर्तृत्वाभावेऽपि सन्निधिमा-
त्रेण प्रकृत्यनुग्राहकत्वमस्त्येवेति तदर्थमीश्वरोऽङ्गीकार्य इति न तद्वैय-
र्थ्यशङ्केति भावः । अत्र दृष्टान्तदार्ष्टान्तिकयोः कार्ये पर्जन्येश्वरानुग्रहो-
क्तिः कारणेऽपि तदनुग्रहोपलक्षणार्था । सिद्धान्ते सौत्रचशब्देन तस्य
व्यावर्तनात्प्रकृत्यनुग्रहशक्तिरेवेश्वरस्येति पतञ्जलिनाऽङ्गीकारादिति सु-
धोक्तेश्चेति ध्येयम् ॥
( २ ) सिद्धान्तवत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ श्रुत्युदाहर-
णेन हेतुसिद्धिः परिहृता । 'अन्यत्र' ईश्वरात् 'राज्ञि राष्ट्रं' इतिव-
त्, अन्यत्राभावादित्यस्यान्याधीनत्वेनाभावादित्यर्थः । अवगमोपलक्ष-
६१

४८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २, पा - २, ]
सू—ॐ ॥ अन्यत्राभावाच्च न तृणादिवत् ॥ ॐ ॥ ५ ॥
( ३ ) ‘यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः ॥
ब्रह्मण्येवेदमाविरासीद्ब्रह्मणि स्थितं ब्रह्मणि लयमध्यु
पैति ब्रह्मैवाधस्ताद्ब्रह्मैवोपरिष्टाद्ब्रह्म मध्यतो ब्रह्म सर्व
तः’ ‘ब्रह्मैवेदं सर्वम्’ ( बृ.४-५-१० ) इत्यादिश्रुतिभ्योऽ
न्यत्र जगतोऽभावात्तृणादीनां पर्जन्यवन्नानुग्राहक
त्वमात्रमीश्वरस्य ।
( ४ ) स एव भूयो निजवीर्यचोदितां स्वजीवमय्यां प्रकृतिं
णमेतत् । तथा च इत्यादिश्रुतिभ्योऽन्यत्र जगतोऽभावावगमादित्यन्व
यः । तृणादिवदिति । तृणादीनामुत्पत्तौ यथा पर्जन्योऽनुग्राहक एव,
न स्वतन्त्रोत्पादकः, तथा जगदुत्पत्तावीश्वरस्यानुग्राहकत्वमात्रं न,
किन्तु स्वातन्त्र्येण तदुत्पादकत्वमेवेत्यर्थः ॥
( ३ ) यच्चेति तैत्तिरीयवाक्यम् । ब्रह्मण्येवेत्यादीनि श्रुत्यन्तरवा
क्यानि। आद्यश्रुतावपिशब्दः क्रियासमुच्चये कर्मसमुच्चये वा । वाशब्दो
ऽनादरे । तथा च नारायणो यत्किञ्चिद्दृश्यते यच्च श्रूयते वा तत्सर्वमपि
जगत्सर्वं सर्वपदार्थानां सत्तादिकं प्रति तत्प्रदानाय व्याप्य । यद्वा-त
दुद्दिश्य सर्वै सर्वथा देशकालगुणशक्तिभिर्व्याप्य तत्प्रेरकतया स्थितः।
न केवलमेतावत, किन्तुजगतोऽन्तर्बहिश्च तद्देशे तद्रहितदेशे च त
त्काले तद्रहितकाले व्याप्य तद्भूतैस्तदभूतैश्च गुणैः शक्तिभिश्च युक्त
स्सन् श्रुत इति तत्त्वप्रदीपटीकादिशा श्रुत्यर्थः । द्वितीयश्रुतावाद्यो ब्र
ह्मशब्दो निमित्तसप्तम्यन्तः। द्वितीयतृतीयावधिकरणसप्तम्यन्तौ। 'इदं'
जगत्'आविरासीत्'अजायत। अनेनेशाधीनोत्पत्तिसत्तादिकमुक्तम्। ब्र
ह्मैवाधस्तादित्यनेनापि सत्ताप्रदानाय सर्वगतत्वमुच्यते । तदधीनसत्ता
कस्य तदधीनत्वं सिद्धमेव । ब्रह्मैव सर्वपदार्थानामधस्तादुपरिष्टान्म
ध्यतः । किं बहुना-'सर्वतः' सर्वत्र च तत्तत्सत्तादिप्रदानाय तत्र तत्रा
स्तीत्यर्थः । ब्रह्मैवेदमितिवाक्यान्तरेणापि इदं जगत् तदधीनसत्ताकमे
वोच्यते ॥
( ४ ) इदानीं सप्रमाणकं सौत्रचशब्दार्थमाह—स एवेति ॥ अत्र स
एवेत्यनेन ईश्वराधीनोद्बोधकत्वं प्रकृतेरुच्यते।'शास्तिकृत्'जगच्छिक्षकः

' 'व' 'ज्' 'ज' 'ग' ... wait, what is the letter after 'ग'?
Is it 'द्'? Yes, it's 'द्' (da with virama).
And line 26 starts with:
'नु' 'ग्रा' 'ह्य' 'मा' 'त्र' 'म्' ','
Wait, let's look at the letter 'नु' in line 26 again.
Is it 'नु'?
Wait! Could it be 'ऽनु'? An avagraha before 'नु'? No.
Could it be 'न'? No, it clearly has a 'ु' hook at the bottom.
So it is literally printed:
दिमत्त्वादिति यावत् । एवं प्रकृत्यादेश्चान्यत्राभावाच्च तृणादिवज्जगद्
नुग्राह्यमात्रम्, नापीश्वरः पर्जन्यवदनुग्राहकमात्रमिति सूत्रार्थ उक्तो

Let's check line 27:
"भवति । द्रव्यमित्येतद्वैषम्याधिकरणे व्याख्यातम् ॥ २ ॥"
Wait, after व्याख्यातम्: ॥ २ ॥
Then line 28:
"इति अन्यत्राभावाधिकरणम् ॥"
Then a decorative flower/asterisk ornament:
※ or similar printer's flower.
Then line 29:
"३. अधिकरणम् ॥"
Then line 30:
"( १ ) अत्राधिकरणार्थं दर्शय

४८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
( २ ) सू- ॐ ॥ अभ्युपगमेऽप्यर्थाभावात् ॥ ॐ ॥ ६ ॥
( ३ ) यस्य धर्माधर्मौ न स्तस्तत्सिद्धान्ते किं प्रयोजनम् ।
चार्वाकाचार्यस्य अयं लोकायतिकः स चासौ पक्षः सिद्धान्तश्च त
मित्यर्थः । लोकायतेनाङ्गीकृत इति वा ॥
( २ ) धर्माद्यतीन्द्रियपदार्थानां तत्साधकश्श्रुत्यादिप्रामाण्यस्य चा
नभ्युपगमात्प्रमाणाभावेनेश्वरस्यैवाभावादान्तरेणापीश्वरं पूर्वपूर्वस्मा
दुत्तरोत्तरवस्तूत्पत्तिसम्भवाच्च तस्य जगत्कारणत्वं युक्तमिति प्राप्ते
सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे-अभ्युपगम इति । न केवलं परोपपा
दनेन किन्तु 'अभ्युपगमेऽपि' स्वसिद्धान्तेऽपि तद्रीत्यापि विषयप्रयोजन
योरभावादनारम्भणीयमेव चार्वाकशास्त्रमिति सूत्रार्थः सुधायामुक्तः।
चन्द्रिकायां तु पूर्वसूत्रान्नञोऽनुवृत्तिः। तथा च स्वकीयशास्त्रस्य सि
द्धान्तत्वानभ्युपगमे सिद्धमस्मदिष्टम् । अभ्युपगमेऽपि तत्र तद्व्यापक
योर्विषयप्रयोजनयोरभावाभ्युपगमात् व्याहतिः स्यादिति उभयथा
पि न चार्वाकसिद्धान्तो युक्त इति सूत्रार्थ उक्तः । अत्र सुधापक्षे अ
नपेक्षभवेदित्यस्यावृत्तिः । योजनाद्वयेऽप्यपिशब्दः समुच्चयार्थः विरोधसू
चकश्चेति ध्येयम् ॥
( ३ ) यस्येति॥ सिद्धान्त इत्याकृष्यते। धर्मो यागादिजन्यादृष्टम्। अध
र्मस्तदन्यः स्वर्गादिः । यद्वा--अधर्मः पापं तत्साध्यो नरकश्च । अध
र्मनिवृत्तिप्रयोजनकत्वस्यापि निराकरणार्थमधर्मग्रहणम् । धर्माधर्म
पदाभ्यामतीन्द्रियमात्रमुपलक्ष्यते । सप्तमी षष्ठ्यर्थे । किमाक्षेपे । प्रयु
ज्यते प्रवर्त्यते शास्त्रे अधिकार्यनेनेति व्युत्पत्त्या प्रयोजनशब्देन फल
विषयौ गृह्येते । तथा च-'यस्य धर्माधर्मौ न स्तः' येन धर्माधर्मौ
नाङ्गीकृतौ तस्य वादिनः सिद्धान्ते तेन सिद्धान्तत्वेनाभ्युपगतस्य शा
स्त्रस्य किं प्रयोजनं ? न किमपि विषयादिकमङ्गीकृतमिति योजना ।
सिद्धान्तप्रयोजनपदाभ्यां सौत्राभ्युपगमार्थशब्दौ विवृतौ । ततः कि
मित्यत आह-अत इति । स्वशास्त्रस्य सिद्धान्तत्वाभ्युपगमेऽपि तत्र
तद्व्यापकयोर्विषयप्रयोजनयोरभावाङ्गीकारादित्यर्थः । ततोपि किमि
त्यतो विरोधस्फोरकेण सौत्रापिशब्देन सूचितं हेतुं दर्शयति-स्वेति।
यः सिद्धान्तः असौ प्रयोजनादिमानिति नियमात्सिद्धान्तत्वेन अङ्गी
कृतशास्त्रस्य प्रयोजनाद्यभावमभ्युपगतवतो माता वन्ध्येतिवत्स्ववच
नंविरुद्धवादित्वापातादित्यर्थः । न तत्र युक्त्यन्तरं वक्तव्यमित्येवश

[ अधि - ४. सू - ७. ] दीपिकासहितम्. ४८५
र्थातः स्वव्याहतेरेवोपैक्ष्यः ॥ ६ ॥
४. अधिकरणम् ॥
( १ ) पुरुषोपसर्जनप्रकृतिकर्तृवादमपाकरोति—
( २ ) सू-ॐ ॥ पुरुषाश्मवदिति चेत्तथाऽपि ॥ ॐ ॥ ७ ॥
यथा चेतनसम्बन्धादचेतनमेव शरीरमश्मादिकमा
ब्दार्थः । ततः किमित्यतः सूत्रेऽपेक्ष्य इति बुद्ध्या विविच्यानुवृत्तपदेन
मञ्जनुवृत्त्या वा लब्धसाध्यं दर्शयति—उपेक्ष्य इति । स इति विपरि
णामेनानुवर्तते । एवकारोऽत्रापि सम्बध्यते । तथा च स चार्वाकः त
त्सिद्धान्तो वा उपेक्ष्य एव न त्वादरणीयः परिहारायाक्षिप्तो वा । अ
तो न तद्विरोधो विष्णुजगतकारणत्वस्येत्यर्थः ॥ ३ ॥
इति अभ्युपगमाधिकरणम् ॥
:-*-:
४. अधिकरणम् ॥
( १ ) अत्राधिकरणप्रतिपाद्यं दर्शयति—पुरुषेति ॥ पुरुषश्चेतनः
प्रकृतिरचेतना । कर्तृरिति भावप्रधानम् । उच्यते अर्थोऽत्रेति वादो मत
म् । तथा चात्राधिकरणे निरीश्वरसाङ्ख्यैकदेशिनां चेतनोपसर्जनका-
चेतनप्रकृतिकर्तृत्ववादिनां मतं निराकरोति सूत्रकारदित्यर्थः ॥
( २ ) पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं ताव
द्व्याचष्टे—पुरुषेति ॥ चेतनसम्बन्धाज्जीवसन्निधानादित्यनेन सूत्रे पु
रुषपदं जीवसम्बद्धशरीरपरमित्युक्तं भवति । एवकारः शरीरमेवेत्य
न्वेति । न तु चेतनमपीत्येवार्थः । अश्मा पाषाणः । आदिशब्दादार्वादि
ग्रहः । ‘आदाय’ तदर्थे प्रवर्तते तत् प्रगृह्य च ‘गच्छति’ गन्तुं प्रवृ
र्तत इति । अनेन अश्मपदं लक्षणया तदादानादिविषयप्रवृत्तिपरमित्युक्तं
भवति । दृष्टान्तवाक्येन सूचितं दार्ष्टान्तिकं दर्शयति-- एवमिति । अ
पिशब्दो यद्यपीत्याद्यर्थे प्रकृतिरपीति समुच्चये च प्रकृतिरेव न ट्वीश्व
र इत्यवधारणे वा । अचेतनमचेतनेतिहेतुगर्भविशेषणाभ्यां सिद्धा
न्त्युक्ताचेतनत्वहेतोः पक्षविपक्षवृत्तित्वोक्त्या तस्य व्यभिचारः, प्रधा
नं चेतनसन्निधानात्स्वतः प्रवृत्तिमत् अचेतनत्वात् शरीरवदिति अ
नुमानरूपप्रतिपक्षश्चोक्तो भवति । तथा च प्रधानादेव जगदुत्पत्तावी
श्वरवैयर्थ्यान्नासावस्ति । तदभावे च तस्य जगत्कारणत्वं नास्त्येव ।

Here is the complete line-by-line transcription in pure Devanagari Markdown with line markers:

४८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
दाय गच्छति। एवमचेतनाऽपि प्रकृतिः पुरुषसम्बन्धा
त्प्रवर्तत इति चेन्न । 'न ऋते त्वत्क्रियते' इति तत्रा
पि तथात्वे दृष्टान्ताभावात् ॥ ७ ॥
(३) सू-- ॐ ॥ अङ्गित्वानुपपत्तेः ॥ ॐ ॥ ८ ॥
शरीरप्रवृत्तौ पुरुषस्याङ्गित्वान्,
शस्यैव जगत्कारणत्वमित्येतद्दूरोत्सारितमिति भावः । एवमनुमानाव
लम्बेन प्राप्ते पूर्वपक्षं प्रतिक्षेप्तुं प्रवृत्तं तथापीति सिद्धान्तांशं नञनुवृ
त्त्या व्याचष्टे—नेति । नानुमानेन प्रकृतेः स्वतः प्रवृत्तिसाधनं युक्तिम
दित्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन तथापीत्यंशमावर्त्याव्ययानामने
कार्थत्वमिति न्यायमनुसृत्य व्याचष्टे—नेति । इतिश्रुतेरितिशेषः ।
'तत्रापि' ईश्वरप्रवृत्तावपि । न केवलं पूर्वोक्तपयोऽम्ब्वादावित्यपिश
ब्दार्थः । तत्रापीति सूत्रपाठेऽप्ययमेवार्थो बोद्धव्यः । 'तथात्वे' परमा
त्माधीनत्वे सिद्धेसतीति शेषः । तथापीत्येतद्दृष्टान्ताभावादित्यनेना
पि सम्बध्यते । तथा च महदादिकार्यकरणप्रवृत्तेः पुरुषोपसर्जन प्रकृ
त्यधीनत्वसाधनेऽपि निरीश्वरोपन्यस्तपूर्वानुमान इव निदर्शनाभावादि
त्यर्थः । अनेन–पुरुषाश्मवत् चेतनोपसर्जनशरीरस्याश्माद्यानयनादौ
स्वतः प्रवृत्तित्त्वत् पुरुषोपसर्जनप्रधानस्यैव महदादिकार्यकरणे स्वतः
प्रवृत्तिः सम्भवतीति ईश्वरवैयर्थ्यम् । तद्भावे चै तस्य जगत्कारणत्व
मपि नास्ति तस्यैव जगत्कारणत्वमित्येतद्दूरोत्सारितमिति चेन्न। कुतो?
यतः पुरुषोपसर्जनप्रकृतिकर्तृत्वे न मानमस्ति । न चोक्तानुमानं मान
म् । यतः तथा श्रुतेः नर्ते इति श्रुतेः । तथापि तत्रापि शरीरप्रवृत्ताव
पि तथैव व्यतिरेकानवस्थितेरित्यनेनोक्तेश्वराधीनत्वमेव सिद्धं अत
एव तथापि पुरुषोपसर्जनप्रकृतिकर्तृत्ववाद्युपन्यस्तानुमानेऽपि तथा
निरीश्वरसाङ्ख्योपन्यस्तपूर्वानुमान इव तथा दृष्टान्ताभाव इति सूत्रा
र्थे उक्तो भवति ॥
(३) एवं श्रुतिलक्षणहेतुना दृष्टान्ते साध्यवैकल्यमभिधाय हेत्व
न्तरेण दृष्टान्ते साध्यवैकल्योपपादनाय सूत्रं—अङ्गित्वेति ॥ अत्राङ्गि
त्वपदं लौकिकपरीक्षकद्वयव्यवहारोपलक्षकम् । तथापीत्यनुषज्यते, पु
रुषस्य चेत्यभिप्रेत्य दृष्टान्ते परोक्तसाध्याभ्युपगमे बाधकतर्कोक्तिपर
तया तद्व्याचष्टे—शरीरेति । यस्मादित्यादौ संयोज्यम् । शरीरप्रवृत्ता