पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 520, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ११. सू - ३८. ] दीपिकासहितम्. ४७३
( ९) स कारयेत्पुण्यमथापि पापं न तावता दोषवानीशिताऽपि।
ईशो यतो गुणदोषादिसत्त्वे स्वयं परोऽनादिरादिः प्र
[ जानाम् ॥
इति चतुर्वेदशिखायाम् ॥ ३७ ॥
११. अधिकरणम् ॥
( १ ) अवशिष्टैरुपसंहरति-
( ९ ) काऽसौ श्रुतिरित्थतस्तामुदाहरति-स कारयेदिति ॥ चतु
वेदशिखायामित्यस्य उपलभ्यमानत्वादित्यनेनान्वयः । श्रुतौ स इत्य
स्योत्तरत्राप्यधिकारसूचकोऽथशब्दः । अपिशब्दौ समुच्चयार्थी । तथा
च ‘सः’ विष्णुः स्वाधीनपूर्वकर्मापेक्षया पुण्यं कर्म जीवेन कारयेत्
पापं कर्म च कारयेत् । एवं तस्य कर्मणः ‘ईशिता’ नियन्ताऽपि स
एव । तावता न वैषम्यादिदोषवानित्यर्थः । तत्त्वप्रदीपे तु-स भगवा
न् स्वयमीशिताऽपि पुण्यस्य शोभनमेव फलं पापस्य तद्विपरीतमित्ये
तदन्यथा कर्तुं समर्थोऽपि न तथा करोति, किन्तु पुण्यं पुण्यैः कारये
त् पापं पापैरथ मिश्रकर्माण्यपि विमिश्रैः कारयेन्नैतावता वैषम्यादि
दोषवान् । कुतो ? यतः ‘परः’ स्वतन्त्रः स परमात्मा ‘गुणदोषादि
सत्त्वे’ अन्येषु गुणदोषसम्बन्धापादने गुणदोषादीनां गुणदोषत्वापा
दने च स्वयमेवेशः अतः । किञ्चायं न सकर्तृकः, येन पराधीनतया
दोषसम्भवः, अतो न तस्य दोष इत्याह-‘अनादिः’ उत्पादकशून्य
इति । इतोऽपि न दोषसम्भव इत्याह-आदिः प्रजानामिति । प्रजोप
लक्षितसर्वकर्तेत्यर्थः । न च कस्यापि स्वदोषेच्छा भवति, किमु सर्व
कर्तुरतो न दोषवान्, किन्तु परमेश्वरः स्वातन्त्र्यात् सर्वगुणगणपरि
पूर्ण एव स्वाभाविकीं स्वीयां स्थितमनपोह्य त्रिविधान् धर्मान् त्रिवि
धैः कारयतीत्यभ्युपगमे श्रुत्याद्यनुग्रहश्चोपपद्यते । वक्ष्यन्ते च नियमा
स्तद्रूपाभावाः । तत्रोपपद्यते चैवंनियमवत्त्वं स्वतन्त्रस्य । उपलभ्यते
चैवं स्वभावत्त्वं ‘देवस्य’ (मां. २-९.) इति श्रुतौ, इति श्रुतिर्व्या
ख्याता। अनेनोपपद्यते उपलभ्यत इत्यनयोरसकृदावृत्तिस्सूचिता॥१०॥
॥ इति वैषम्यनैर्घृण्याधिकरणम् ॥
११. अधिकरणम्
( १ ) अत्राधिकरणे विष्णोः सर्वगुणपूर्तौ सर्वदोषराहित्ये च युक्त्य
६०