पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
२२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
(१९) सू— ॐ ॥ अनुस्मृतेर्बादरिः ॥ ॐ ॥ ३० ॥
तत्र तत्रोक्तस्य विष्णोरग्न्यादिष्वनुस्मर्यमाणत्वात्त-
न्नियम इति बादरिः ॥ ३० ॥
(२०) सू— ॐ ॥ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ॐ ॥ ३१॥
साक्षादप्यविरोधं वदन् जैमिनिः सूक्तादिनियमम
ग्न्यादिसम्प्राप्त्या मन्यते ।
षः । अनेनापि—तत्तत्सूक्तादौ ब्रह्मण एव प्रतिपाद्यत्वेऽपि अग्निवा-
य्वादीनामप्रतिपाद्यत्वेऽपि अविरोधः । अग्न्यादिसूक्तनियमः इदम-
ग्रिसूक्तं इदं वायुसूक्तं इति सूक्तनियमः, इयमग्निविद्या इयं वायुवि-
द्येति विद्यानियमश्च युज्यते । कथं ? तैरग्न्यादिसूक्तादिभिस्तस्य ब्र-
ह्मणस्तस्यामुपास्तौ कृतायां तत्राग्न्यादिष्वेव तस्य ब्रह्मणः 'अभि'
स्वेच्छयाऽभिव्यक्तिनियमात्तदभिप्रायेण तत्प्रसिद्धेरुपपत्तेरित्येवं वै-
दिकाग्न्यादिसूक्तादिप्रसिद्धयविरोधमाश्मरथ्याचार्यो वक्तीति सूत्रा-
र्थ उक्तो भवति ॥
(१९) प्रकारान्तरण सूक्तादिनियमस्यान्यथोपपत्तिं कथयत्सूत्र-
मुपन्यस्य व्याचष्टे—अनुस्मृतेरिति ॥ अत्र पूर्ववदध्याहारादिः । 'त-
त्र तत्र' अग्न्यादिविद्यासु । सूत्रेऽविरोधमित्यनुषक्तपदतात्पर्यमाह—
तन्नियम इति । अनेनापि—विष्णोरेव अग्न्यादिविद्याप्रतिपाद्यत्वेऽपि य-
तस्तस्याग्न्यादिविद्यासु उक्तस्य विष्णोस्तैस्तत्तत्सूक्ताद्युपासकैस्त-
त्राग्न्यादिष्वेव 'अनुस्मृतेः' अनुस्मर्तव्यत्वात् प्रतिपत्तव्यत्वात् अवि-
रोधस्तन्नियमः अग्न्यादिसूक्तादिव्यवस्था युज्यते । अतो नैतदन्यथा-
ऽनुपपत्त्याऽन्येषां वाच्यत्वं कल्प्यमिति सूक्तादिप्रसिद्धयविरोधं 'बाद्-
रिः' बादरात्मजः शुकाचार्यो वक्तीति सूत्रवृत्तिर्दर्शिता भवति ॥
(२०) रीत्यन्तरेण सूक्तादिनियमस्यान्यथोपपत्तिं कथयत्सूत्रमुप-
न्यस्यति—सम्पत्तेरिति ॥ जैमिनिमतस्य पूर्वमुपन्यस्तत्वात्किमर्थं पु-
नर्वचनमिति मन्दाशङ्कानिरासाय उभयान्वयीतिशब्दपरामृष्टपूर्वो-
क्तानुवादेन विषयभेदं दर्शयन् सूत्रं व्याचष्टे—साक्षादिति ॥ अग्न्या-
दिशब्दानां मुख्यतो ब्रह्मवाचकत्वेऽपि 'अविरोधं' लौकिकव्यवहार-
विरोधाभावं वदन्नित्यर्थः । अत्राप्यनुवृत्तस्य अविरोधमित्यस्यार्थमा-
ह—सूक्तादीति । नियमो व्यवस्था । संप्राप्त्या निमित्तभूतयेति शेषः ॥
[ अधि - ७. सू - ३१. ] दीपिकासहितम्. २२९
( २१ ) 'तं यथा यथोपासते तदेव भवति' इति दर्शयति॥३१॥
( २१ ) नन्वग्नयादिषु भगवदुपास्तौ अग्नयादिप्राप्तिर्भवतीत्येतत्कुत
इत्यतः सूत्रसूचितां श्रुतिमुदाहरति-तमिति॥ 'तं' परमात्मानं येन येन
प्रकारेण उपासते अधिकारिणः तेन प्रकारेण तदेव रूपं 'भवति' प्राप्नुव
न्तीत्यर्थः। तत्त्वप्रदीपेऽपि 'यादृशो भावितस्वीशस्तादृशो जीव आ
भवेत्' इति तृतीयतात्पर्येक्तेः 'तदेव भवति' तथैव भवति । यत्प्र
कारेणोपास्ते तत्प्रकारेण भवतीत्ययमेवार्थ उक्तः। तत्त्वप्रदीपकारप
क्षे उपासते इत्येकवचनं धात्वन्तरमेतत् । अनेन-यतोऽग्नयादिसूक्ता
दिषु मुख्यतः परब्रह्मण एव प्रतिपाद्यत्वेप्यविरोधः, सूक्तादिनियमो
युज्यते । अतः न तदन्यथानुपपत्त्याऽन्येषां वाच्यत्वं मन्तव्यम् । कथ
मिदं युज्यते ? तैरग्नयादिषु भगवदुपासकानां अग्नयादिसम्पत्तेः प्रा
प्तेः । न च तदसिद्धिः । 'हि' यस्मात्तमिति प्रसिद्धा श्रुतिः । ' तथा '
अग्नयाद्यधिकरणकोपास्त्या अग्नयादिप्राप्तिर्भवतीति 'दर्शयति' प्रति
पादयति । साक्षादिति लौकिकव्यवहारेऽविरोधं वदन् जैमिनिः सूत्रे
षु 'अविरोधं' अनियमाख्यविरोधाभावं नियमं 'मन्यते' वर्णयतीति
सूत्रार्थ उक्तो भवति । यद्यप्युत्तरसूत्रद्वये साधकव्यापारोक्तेरल्पाक्षर
त्वाच्च दृष्टेरिति वाच्यम्, न त्वभिव्यक्तेरिति, तस्या ईश्वरव्यापार
त्वात् । तथाप्यभिव्यक्तिं विना दृष्टेरयोगात्तद्ग्रहणेनोभयलाभात्प्राधा
न्यादीश्वरव्यापार एवोक्तः । यद्यप्यनुस्मृतिशब्दितोपास्यनन्तरम
भिव्यक्तेः तदनन्तरं तत्सम्पत्तेः प्रथममनुस्मृतेरिति वक्तव्यम् । त
थाप्यभिव्यक्तिसम्पत्युभयानन्तरमप्युपास्तिः कार्येति दर्शयितुमनु
स्मृतेर्मध्ये निवेश इति द्रष्टव्यम् । यद्यपि ऋग्भाष्ये—
पृथग्रूपाणि विष्णोस्तु देव्तान्तरगाणि तु।
अग्नयादिशब्दवाच्यानि नाम्ना सूक्तभिदा भवेत् ॥
इत्यग्नयाद्यन्तर्गतविष्णुवाचकाग्नयादिशब्दयोगः सूक्तस्य व्यवस्थापक
उक्तः। तथा चाग्नयादिशब्दास्तत्तत्सूक्तानि च अग्नयादिगतरूपा
ष्वेव मुख्यानि । एवं बहिर्गतरूपेषु च अतीतानागतवर्तमानाग्नयादि
ष्वमुख्यानीति व्यवस्था सिध्यति । तथापि इहाभिव्यक्तिर्वाऽग्नयादि
सूक्तोपासकैरग्नयादिगतत्वेन अनुस्मर्तव्यत्वं वा संप्राप्तिर्वा तत्तत्सू
क्तव्यवस्थापकमित्यनुष्ठानविशेषोपयोगितया सौरसावित्रवामनवि
ष्ण्वादिसूक्तादिव्यवस्थार्थं च व्यवस्थापकान्तरमुक्तमित्यविरोधः ।
२३० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
( २२ ) न ह्यन्योपासकोऽन्यं प्राप्नुत इति युज्यत इत्यत आह—
सू—ॐ ॥ आमनन्ति चैनमस्मिन् ॥ ॐ ॥ ३२ ॥
एनं विष्णुमस्मिन्नग्न्यादावामनन्ति ।
( २३ ) 'योऽग्नौ तिष्ठन्' ( बृ. ५-७-५. ) ' य एष एतस्मि
लौकिकवैदिकव्यवहारयोरग्रथादावुपचरितत्वबीजं तु तयोस्तत्र मुख्य-
त्वाङ्गीकारे 'तथा दृष्ट्युपदेशात्' इत्यनेन सूचित 'सर्वनाम' इत्या-
दिश्रुतिविरोधादिरूपप्रागुक्तानुपपत्तिरिति टीकायामेवोक्तम् ॥
( २२ ) यदुक्तमग्न्यादिसूक्तादिभिः ब्रह्मोपासकस्याग्न्यादिप्राप्तिर्भ-
वतीति तच्छ्रुत्युक्तमपि न युक्तम् । 'मद्भक्ता यान्ति मामपि' इत्यादे-
रन्योपासकस्यान्यप्राप्तेरयोगात् । 'श्रुतोपनिषत्कगत्यभिधानात्' इ-
त्यादौ तदनभ्युपगमाच्चेति भावेनाशङ्क्य तत्परिहारतया सूत्रमवतार्य
व्याचष्टे—न हीति ॥ टीकायामाशङ्कावतार्येत्यन्वयः । शङ्कारूपसूत्रा-
वतारिकां प्रदर्शयेत्यर्थः । 'हि' यस्मादन्योपासकोऽन्यं प्राप्नुत इत्येत-
त्प्रमाणविरोधान्न युज्यते । तस्मादुक्तमयुक्तमित्यर्थः । एनमित्यनुवादे-
न विष्णुमिति व्याकृतम् । अस्मिन्नित्यस्य व्याख्यानमग्न्यादाविति ।
'आमनन्ति' प्रतिपादयन्ति श्रुतय इति शेषः । चशब्दः विष्णूपास-
कस्याग्न्यादिप्राप्तिर्युक्तेति पूर्वपक्षिशङ्काव्यावर्तकः । तेन सिद्धान्ति-
प्रतिज्ञा, अग्न्यादिप्राप्तिपदेन तदन्तर्गतभगवत्प्राप्तेरेव विवक्षितत्वादि-
ति साक्षाद्धेतुश्च सूचितः । तत्त्वप्रदीपे तु—न केवलमेकत्रैवामनन्ति
पठन्ति वाजसनेयाः, किन्त्वन्यत्र 'स यश्चायमस्मिन्' इत्यादौ, एवमं-
न्ये आमनन्ति 'य एष एतस्मिन्' इत्यादौ, अन्ये चामनन्ति 'एतस्या-
म्' इत्यादौ, अन्ये च 'तत्सृष्ट्वा । तदेवानुप्राविशत्' इत्यादौ । स्मर-
न्ति च स्मृतिकर्तारः 'यच्चन्द्रमसि यच्चाग्नौ' इत्यादीनि । समुच्च-
यार्थश्चशब्द इत्युक्तम् ॥
( २३ ) ताः श्रुतीः दर्शयति--य इति ॥ 'योऽग्नौ तिष्ठन्' इत्येकं वा-
जसनेयं वाक्यम् । 'य एषः' इत्यपरं छान्दोग्यवाक्यम् । उभयत्र यच्छ-
ब्दस्य तत्रत्यतच्छब्देनान्वयः । 'तेजोमयः' तेजोरूपः'अमृतमयः' नित्या-
त्मा । आदिशब्देन 'एतमग्नावध्वर्यवः' इत्यादिकं गृह्यते । इत्यादिना
आमनन्तीत्यन्वयः । अनेन-न विष्णूपासकस्याग्न्यादिप्राप्त्युक्तिरयुक्ता ।
कुतः ? अग्न्यादिप्राप्तिपदेन तदन्तर्गतभगवत्प्राप्तेर्विवक्षितत्वात् । न
[ अधि - ७. सू - ३२. ] दीपिकासहितम्. २३१
श्नग्नौ तेजोमयोऽमृतमयः पुरुषः ' ( बृ. ४ - ५ - ३० )
इत्यादिना ॥ ३२ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये प्रथमस्याध्यायस्य
द्वितीयः पादः .
॥ ॐ ॥
च विष्णोरग्न्याद्यन्तर्गतत्वासिद्धिः । यत ' एनं ' विष्णुं ' अस्मिन् '
अग्न्यादौ आमनन्ति श्रुतयोऽत इति सूत्रार्थ उक्तो भवति ॥
इति वैश्वानराधिकरणम्
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वत
न्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपा
दानां शिष्येण श्रीमज्जगन्नाथयतिना
कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदी
पिकायां प्रथमाध्यायस्य
द्वितीयः पादः
॥ ॐ ॥
-like curve or is it र्ति?
Wait, look at: र्ति विषयवाक्य...
Wait, why does line 15 end with:
श्रुत्यादिसङ्क?
Wait, is line 15 end श्रुत्यादिसङ्क or श्रुत्यादिसङ्ग?
Wait! Look at line 16 first character:
It has: a curve at top, a vertical line, an i-matra... wait, is that तिं?
Wait, look at:
श्रुत्यादिसङ्गतिं - if it was split: श्रुत्यादिसङ्ग- at end of line 15, and तिं at start of line 16?
Wait, look at line 16 start:
It looks like: र्ति with an anusvara?
Wait, why would there be a repha on तिं?
Wait, could it be श्रुत्यादिसङ्कीर्तिं?
Let's look at the end of line 15:
श्रुत्यादिसङ्क - wait, the letter is क or ग?
In Devanagari, सङ्क has ङ् + क. But here, look at: सङ्क? No, it's सङ्क or
inजीवलिङ्गाच्च: Look at जीवलिङ्गाच्च: ग ा च्च! Look at the च्चinजीवलिङ्गाच्चon line 6: It has a top part and a bottomच! Now look at line 14: Does it look identical to the च्चinजीवलिङ्गाच्च? YES! It is IDENTICAL to the च्चin line 6जीवलिङ्गाच्च! Aha! Look at line 6: जीवलिङ्गाच्च! The ligature च्चin this typeface has that exact shape! So it ISतच्च! Not तश्च! What a great catch! Comparing with जीवलिङ्गाच्चin line 6 makes it 100% indisputable: it isतच्च`!
Now let's check प्रदीपरित्या vs प्रदीपरीत्या:
Look at दी: it has an ी (dirgha i).
Now look at प: it has nothing.
Now look at र: does it have an ि (hrasva) or ी (dirgha)?
Look at the top stroke: it curves to the LEFT! That is a hrasva ि!
Wait, look at line 14:
तच्चप्रदीपरित्या - wait, does the stroke go to the left?
२३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( ३ ) अत उच्यते—
सू—ॐ ॥ द्युभ्वाद्यायतनं स्वशब्दात् ॥ ॐ ॥ १ ॥
‘तमेवैकं जानथ आत्मानम्’ (मु. २-२-५.) इत्यात्म
शब्दात् द्युभ्वाश्रयो विष्णुरेव ।
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न सम्भवन्ति यस्मात्तैर्नैवाप्ता गुणपूर्णता ॥
इति ब्रह्मवैवर्ते ॥ १ ॥
( ४ ) सू—ॐ ॥ मुक्तोपसृप्यव्यपदेशात् ॥ ॐ ॥ २ ॥
त्यन्तरार्थः । सिद्धान्ते तु रुद्रादिशब्दा विष्णुपराः । य एष जीवो
‘बहुधा’ बहुशरीरेणोत्पद्यमानः शरीरान्तःसञ्चारीत्याथर्वण श्रु
त्यथः ॥
( ३ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे--अत इति ॥ सौत्रस्वशब्द
स्य स्वशब्दपर्यायात्मशब्दादिति विष्णुतत्त्वनिर्णयोक्तेः, स्वेतिशब्दः
स्वशब्द इति व्युत्पत्त्या स्वशब्दपर्यायात्मशब्दग्राहित्वं विष्णोः स्वरूप
स्यैव साक्षाद्वाचको ह्ययमात्मशब्द इति तत्त्वप्रदीपोक्तेः, स्वस्य वि
ष्णोरेव वाचकः शब्दः स्वशब्द इति विग्रहाश्रयेण च आत्मशब्दप
रामर्शित्वमाश्रित्य स्वशब्दादित्येतदात्मशब्दादिति व्याख्यातम् । तथा
च ‘इत्यात्मशब्दात्’ इत्यात्मशब्दश्रवणादित्यर्थः । द्युभ्वाद्याश्रय इ
त्यनेनायतनशब्दो व्याख्यातः । क्वचिदायतनशब्दस्यैव पाठः । वि
ष्णुरेवेत्यनेन समन्वयसूत्रानुवृत्तं तत्त्वित्येतत् श्रुत्यनुसारालिङ्गविपरि
णामेन व्याख्यातम् । अनेन-‘स्वशब्दात्’ विष्णुवाचिस्वशब्दपर्याया
त्मशब्दात् स्वशब्दात् ‘द्युभ्वाद्यायतनं’ स्वर्गभूम्यादिसर्वाश्रयः ‘त
त्तु’ विष्णुरेवेति सूत्रार्थ उक्तो भवति ॥
आत्मशब्दादपि कुतोऽयं विष्णुरित्यत आह—आत्मति ॥ य
स्मात् ‘तैः’ विष्णोरितरैश्चतुर्मुखादिजीवैः गुणपूर्णता ‘नैवाप्ता’ न
सर्वथा प्राप्ता । तस्मादात्मब्रह्मादयः शब्दाः ‘अव्ययं’ नित्यनिरति
शयप्रवृत्तिनिमित्तवन्तं विष्णुं ‘ऋते’ विना तदन्यं ‘न सम्भवन्ति’
न मुख्यतो वाचकत्वेन प्राप्नुवन्तीत्यर्थः । अनेनात्मशब्दस्यापि गुण
पूर्तिरर्थ इत्युक्तं भवति । ब्रह्मवैवर्ते इत्यनन्तरमन्यत्र निरवकाशतयो
क्तादिति शेषः । तस्यात्मशब्दादित्यनेनान्वयः ॥
( ४ ) ननु विष्णौ मुख्योऽप्यात्मशब्दो जायमानत्वरूपजीवलिङ्ग
[ अधि - १. सू - २. ] दीपिका सहितम्. २३५
'अमृतस्यैष सेतुः' (मु. २-२-५.) इति ।
(५) ब्रह्मविदाप्नोति परम् । (तै. २-१.) 'नारायणं महाज्ञे
यं विश्वात्मानं परायणम्' (महाना. ११.) 'मुक्ता
नां परमा गतिः' 'एतमानन्दमयमात्मानमुपसङ्क्राम
ति' (तै. २-८.) इत्यादिना तस्यैव मुक्तप्राप्यत्वव्य
पदेशात् ।
बलादमुख्यार्थः किं न स्यात् । तथा च न ततो विष्णोर्द्युभ्वाद्यायतन
त्वनिर्णय इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदुपान्तश्रुतिमेवोदाहर
ति—मुक्तेति ॥ इति मुक्तप्राप्यत्वव्यपदेशादित्यन्वयः । सूत्रे द्युभ्वा
द्यायतनस्येति विपरिणामेन अनुवर्तनीयम् । मुक्तोपसृप्येति भावनिर्दे
शः। उपसृप्यत्वं चेह श्रौतसेतुशब्दबलात्प्राप्यान्तररहितत्वे सति प्राप्य
त्वं विवक्षितम् । नत्वर्चिरादिवत्प्राप्यत्वमात्रम् । तथा च—द्युभ्वाद्याय
तनस्य 'अमृतस्य' इति मुक्तोपसृप्यत्वोक्तेर्विष्णुत्वनिश्चयान्नात्मश
ब्दस्यामुख्यार्थत्वमाश्रित्य विष्णोरन्यत् द्युभ्वाद्यायतनं कल्प्यमिति ।
'मुक्तानाम्' इति स्मरणादमृतस्येति जातावेकवचनम् । तथा च
'अमृतस्य' मुक्तजातस्य 'एषः' परमात्मा 'सेतुः' सेतुरिव सेतुर्मु
ख्याश्रय इत्यर्थः ॥
(५) ननु द्युभ्वाद्यायतनस्य मुक्तप्राप्यत्वं कुतः विष्णुत्वनिश्चाय
कमित्याशङ्कापरिहारकतयाऽपि सूत्रं व्याचष्टे—ब्रह्मविदिति ॥ 'इत्या
दिना' वाक्येन 'तस्य' विष्णोः । एवेत्यनेन प्राप्यत्वं प्राप्यान्तररहि
तत्वे सति प्राप्यत्वम् । अनेन द्युभ्वाद्यायतनस्य मुक्तोपसृप्यव्यपदे
शात्तस्य विष्णोरेव मुक्तोपसृप्यत्वव्यपदेशादित्यावृत्त्या सूत्रं व्याख्या
तम् । प्रधानसूत्रेऽनुवृत्तं तत्त्वित्येतदिह विपरिणामेन अनुवर्तनीयमि
ति सूचितम् । उपसृप्यपदं भावप्रधानं कृत्वा व्याख्यातम् । एवकारो
लिङ्गस्यान्यनिष्ठत्वव्यवच्छेदकः । 'ब्रह्मवित्' विष्णुज्ञानी मुक्तस्सन्
'परं' विष्णुमाप्नोतीति तैत्तिरीयश्रुत्यर्थः । 'नारायणम्' इति तैत्तिरी
योपनिषदि महोपनिषदि च श्रुतम् । अत्र 'तद्विश्वमुपजीवति' इत्य
नुवर्तते । तथा च 'तद्विश्वं' जगत् महनीयं ज्ञेयं, पूज्यज्ञेयं वा । वि
श्वस्वामिनं 'परायणं' मुक्तानामाश्रयमुपजीवतीति श्रुत्यर्थः । 'मु
क्तानां परमा गतिः' इति सहस्रनामगतमेकं नाम । परमा मुख्या
गम्यत इति गतिराश्रयः । 'एतम्' इति तैत्तिरीयवाक्यमानन्दमयन ]
२३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ।
योगी तावन्न मुक्तस्स्यादेष शास्त्रविनिर्णयः ॥
इत्यादिद्युपुराणे ॥ २ ॥
( ६ ) सू-ॐ ॥ नानुमानमतच्छब्दात् ॥ ॐ ॥ ३ ॥
ये व्याकृतम् । आदिपदेन 'एतमानन्दमयमात्मानमुपसङ्क्रम्य' 'परमं
यः परायणम्' इत्यादिकं गृह्यते ॥
ननूदाहृतवाक्यैरस्तु विष्णोः मुक्तप्राप्यत्वं, तथाप्यतान्यव्यव
च्छेदाभावाद्विष्णुवदन्यस्य मुक्तप्राप्यत्वं किं न स्यादिति लिङ्गस्य
सावकाशत्वमाशङ्क्य अन्यत्र प्राप्यत्वमात्रसम्भवेऽपि निरुक्तोपसृप्य
त्वं सौत्रमुक्तशब्दितविवक्षितमुक्त्युपेतजीवप्राप्यत्वं चान्यत्र निरव
काशमिति प्रमाणेनाह— बहुनेति ॥ 'अत्र' प्राप्यमोक्षतत्साधनविषये 'ब
हुनोक्तेन' इदमिदं चेति प्रत्येकं बहुना वचनेन 'किं प्रयोजनं' न कि
मपि, प्रत्युतोक्तिगौरवमेवेति भावः । तर्हि कथं निर्णय इत्यत आह—
यावच्छ्वेतमिति । 'श्वेतं' श्वेतद्वीपाख्यं विष्णुस्थानं 'यावन्न गच्छ
ति' न प्राप्नोति, तत्रत्यं विष्णुं च न पश्यति 'तावद्योगी' अपरोक्षज्ञा
नाख्योपायवान् मुक्तो न स्यात् । भगवदिच्छारूपावरणान्मुक्तः सम्य
गाविर्भूतज्ञानानन्दादिमान् न भवेदिति 'एषः'उपदेशः'शास्त्रविनिर्णयः'
शास्त्रतत्त्वविषयकनिर्णयसाधनमित्यर्थः । एषोऽर्थः 'शास्त्रविनिर्णयः' त
ज्जन्यनिर्णयविषय इति वा । भावबोधे तु—सूत्रे पुराणे च मुक्तपदेन
लिङ्गभङ्गवान् विवक्षित इत्युक्तम् । अत्र श्वेतद्वीपागन्तुरमुक्तत्वो
क्त्या श्वेतद्वीपं प्राप्तस्यैव मुक्तत्वं ज्ञायते । तथा च तत्स्थितस्य वि
ष्णोरेवेतरव्यवच्छेदेन मुक्तप्राप्यत्वं सिद्धमिति भावः । इत्यादित्यपु
राणे इत्यस्य तस्यैव मुक्तप्राप्यत्वव्यपदेशादित्यनेनान्वयः । अनेन त
स्यैवेत्येवकारस्योपयोगो ज्ञापितो भवति । अस्य हेतोर्न लिङ्गस्य सा
वकाशत्वं शङ्क्यमित्यध्याहृतसाध्येनान्वयः ॥
( ६ ) ननु प्रागुक्तरीत्या रुद्रप्रकृत्योर्द्युभ्वायतनत्वं किं न स्यादि
त्यतस्तत्साधकाभावान्न तयोरित्याह सूत्रकृत्—नानुमानमिति ॥
अत्र नानुमानमिति साध्यांशं व्याचष्टे—नानुमानात्मकेति । 'अनुमा
नप्राप्तप्रामाण्यासदागमोऽनुमात्मकः' इति तत्त्वप्रदीपोक्तेः अनुमानात्म
के अनुमानसिद्धप्रामाण्यके पाशुपताद्यागमे सर्वाश्रयत्वेन कल्पितो
[ अधि - १. सू - ३ . ] दीपिकासहितम्. २३७
नानुमानात्मकागमपरिकल्पितरुद्रोऽत्र वाच्यः ।
(७) भस्मधरोग्रत्वादितच्छब्दाभावात् ।
बोधित इत्यर्थः । केचित्तु—प्रमाणत्वेन अनुमीयत इत्यनुमानमिति
व्याचख्युः । एतत्पक्षे आत्मशब्दवैयर्थ्यं, तत्त्वप्रदीपटीके विरुद्धे । रु-
द्रपदं प्रधानादेरुपलक्षकम् । प्रधानसूत्रादनुवृत्तेन द्युभ्वाद्यायतनपदेनो-
पस्थापितं नञर्थप्रतियोगिनं दर्शयति—अत्रेति । द्युभ्वाद्यायतनप्रकर-
ण इत्यर्थः । 'वाच्यः' प्रतिपाद्यः । सर्वाश्रयत्वेनेति शेषः ॥
(७) एवं सूत्रे प्रतिज्ञांशं व्याख्याय हेत्वंशं व्याचष्टे—भस्मधरे-
ति ॥ तस्य रुद्रस्य शब्दस्तच्छब्दः । तच्छ्रुतिलिङ्गात्मकः । तथा च
भस्मधरोग्रत्वादिधर्मविशिष्टधर्मिबोधकभस्मध्रोग्रादिशब्दाभावादि-
२३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
(८) सोऽन्तकः स रुद्रः स प्राणभृत्स प्राणनायकः स ई
शो यो हरिर्योऽनन्तो यो विष्णुर्यः परोवरीयान् ’ इ
त्यादिना प्राणग्रन्थिरुद्रत्वादेर्विष्णोरेवोक्तत्वात् ।
( ९ ) ब्रह्माण्डे च—
द्युमच्यते । एवमानुमानमिति पदच्छेदेऽप्यणन्तात्पुनरन् कार्यः । तत्र
प्रथमानन्तपदेनागम उच्यते । द्वितीयेन प्रतिपाद्यत्वम् । तथा च अ
नुमानात्मकपाशुपताद्यागमप्रतिपाद्यं रुद्रादिकं न द्युभ्वाद्यायतनं न
‘यस्मिन्’ इत्यादिप्रकरणे सर्वाश्रयत्वेन प्रतिपाद्यं, कुतः ? ‘अत
च्छब्दात्’ रुद्रप्रधानादिसाधकश्रुतिलिङ्गाद्यभावादिति सूत्रार्थ उ
क्तो भवति ॥
(८) नन्वाथर्वणे रुद्रादिज्ञापकाभावेऽपि अत्रोक्तप्राणाधारत्वप्रतिपा
दिकायां ‘प्राणानां ग्रन्थिरसि रुद्र’ (महाना-३५०) इत्यादिसमाख्याश्रु
तौ रुद्रादिशब्दानां अन्तकत्वादिलिङ्गानां चोक्तत्वात्तद्बलात्तत्रोक्तं द्यु
भ्वाद्यायतनत्वं रुद्रादेः किं न स्यादित्यत आह—स इति ॥ योऽन्तकस्संह
र्ता स एव तच्छब्दवाच्यः श्रुतः स विष्णुरेव । यो रुद्रः श्रुतः सोऽपि
विष्णुरेव । यः ‘प्राणभृत्’ प्राणाधारत्वबोधकप्राणग्रन्थिशब्दवाच्यः,
सोऽपि विष्णुरेव । यः ‘प्राणनायकः’ तत्स्वामी ततएव प्राणेशशब्दि
तः सोऽपि विष्णुरेव । य ईशः श्रुतः सोऽपि विष्णुरेव । योऽनन्तस्त
च्छब्दवाच्यः सोऽपि त्रिविधपरिच्छेदशून्यत्वाद्विष्णुरेव, न शेषः । यः
परोवरीयान् सोऽपि रुद्रादेः परतो वाण्यादेः पराद्विरिञ्चात् परतः
प्रकृतेः परत्वाद्धरिरेव नान्य इति श्रुत्यर्थः । अत्रान्तराधिकरणोदाहृत
चतुर्वेदशिखावाक्ये च ‘परस्मादुत्तमं प्रोक्तम्’ इति वचनानुसारेण
परपरतरवरवरतमानां चतसृणां प्रत्यायनाय वृत्तिवाक्ये सुबादेश
स्य सोरुत्वोत्वगुणसमानशब्दा ज्ञातव्याः । प्रत्युद्देश्यं विधेयान्वयज्ञाप
नाय बहूनां यत्तदां प्रयोगः । ‘इत्यादिना’ श्रुत्यन्तरवाक्येन ‘प्राणग्र
न्थिरुद्रत्वादेः’ प्राणग्रन्थित्वलिङ्गस्य रुद्रशब्दवाच्यत्वस्य च तस्यैव
विष्णोरेवोक्तत्वादित्यर्थः । प्राणेश्वरादिशब्दवाच्यत्वमन्तकत्वादिलिङ्गं
चादिशब्दार्थः । प्रकृतिश्रुतिलिङ्गादेरप्युपलक्षकमेतत् । न तु रुद्रादेरि
त्येवकारार्थः । एवकारेणान्यत्रामुख्यतस्सत्त्वमनुमन्यते । उक्तत्वादि
त्यस्य ‘न रुद्रादिश्रुतिलिङ्गविरोधः’ इत्यध्याहृतसाध्येनान्वयः ॥
(९) ननु तथाऽपि न प्राणाधारत्वद्युभ्वाद्यायतनत्वबोधकसमाख्याश्रु
[ अधि - १०. सू - ३०. ] दीपिकासहितम्. २३९
रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दनः ।
ईशनादेव चेशानो महादेवो महत्त्वतः ॥
पिबन्ति ये नरा नाकं मुक्तास्संसारसागरात् ।
तदाधारो यतो विष्णुः पिनाकीति ततः स्मृतः॥
शिवः सुखात्मकत्वेन शर्वः शंरोधनाद्धरिः ।
कृत्यात्मकमिमं देहं यतो वस्ते प्रवर्तयन् ॥
कृत्तिवासास्ततो देवो विरिञ्चश्च विरेचनात् ।
बृंहणाद्ब्रह्मनामासौ ऐश्वर्यादिन्द्र उच्यते ॥
(१०) एवं नानाविधैश्शब्दैः एक एव त्रिविक्रमः ।
तौधिष्ण्योः प्रतिपाद्यत्वनिश्चयः । तत्रत्यानां रुद्रादिशब्दानां पशुपत्यादा
वेव रूढत्वेन विष्णौ तदभावात्, भावे वा पुनरनिश्चयात् । विष्णौ यो
गवृत्तिसम्भवेऽपि तस्या रूढितो दुर्बलत्वेना
२४० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
वेदेषु सपुराणेषु गीयते पुरुषोत्तमः ॥ इति ।
( ११ ) वामने च -
न तु नारायणादीनां नाम्नामन्यत्र सम्भवः ।
अन्यनाम्नां गतिर्विष्णुः एक एव प्रकीर्तितः ॥
इति ।
( १२ ) स्कान्दे च -
ऋते नारायणादीनि नामानि पुरुषोत्तम ।
प्रादादन्यत्र भगवान् राजेवार्ते स्वकं पुरम् ॥ इति ।
ह—एवमिति ॥ निमित्तैरित्यध्याहार्यम् । तथा च 'एवं' उक्तरीत्याना
नाविधैर्निमित्तैः सपुराणेषु वेदेषु गतैः एतैर्नानाविधैः शब्दैर्विष्णुरेक एव
'गीयते' मुख्यतोऽभिधीयत इत्यर्थः । कथमन्यत्रादृष्टं सर्वशब्दमुख्य
वाच्यत्वमस्येत्यतः 'पुरुषोत्तमस्त्रिविक्रमः' इत्याभ्यां तत्रोपपादकमु
क्तम् । त्रिभुवनार्थशब्दव्यापी हि त्रिविक्रमः । सर्वपुरुषशब्दनिमित्त
कस्वामी हि पुरुषोत्तमः । तथा चानेन विष्णौ रुद्रादिशब्दानां महायो
गविद्वद्रूढिकथनात् तयोश्च रूढिमात्रात्प्राबल्याद्युक्तः समाख्याश्रुत्यन्त
रेऽपि विष्णोः प्रतिपाद्यत्वनिश्चय इति भावः । 'पुरुषोत्तम इति' इत्य
न्तस्य 'ब्रह्माण्डे' इति पूर्वेणान्वयः ॥
( ११ ) ननु यदि रुद्रादिशब्दानां विष्णुपरत्वमुक्त्वा 'रुद्रो माऽऽविशान्त
कः' इत्यादिश्रुतीनामनिर्णायकत्वमुच्यते, तर्हि नारायणादिनाम्नां रुद्रा
दिपरत्वेन 'नारायणं महाज्ञेयम्' ( महाना-११० ) इत्यादिश्रुतीनामनि
र्णायकत्वं च स्यादित्यत आह-वामने चेति ॥ चोऽप्यर्थे । अस्याप्युक्तत्वा
दविरोध इति पूर्वेणान्वयः । किमुक्तमित्यतस्तद्वाक्यं पठति-न त्वि
ति। तुरवधारणे । 'नारायणादीनां' नारायणइत्यादीनामन्यत्र रुद्रादौ
सम्भवो मुख्यवृत्तिः अस्तीति शेषः। 'अन्यनाम्नां' रुद्रादिशब्दानां 'वि
ष्णुरेक एव गतिः' मुख्यवाच्यः प्रकीर्तित इत्यर्थः । इतिशब्दस्य वाम
न इत्यनेनान्वयः । तस्य नारायणादिनाम्नां अन्यत्र निरवकाशत्वोक्तेः
न तच्छ्रुतीनामनिर्णायकत्वमिति विवक्षितसाध्येनान्वयः ॥
( १२ ) भगवन्नामत्वाविशेषाद्रुद्रादिनामवन्नारायणादिनाम्नामपि रु
द्रादौ वृत्तिः किं न स्यादित्यत आह-स्कान्दे चेति ॥ चोऽप्यर्थः समु
च्चये । अस्याप्युक्तत्वादिति पूर्वेणान्वयः । किमुक्तमित्यतस्तद्वाक्यं प
-दhas a foot at the bottom. Here in line 31: it is clearlyर (विष्णुपरत्वमित्येवंरूपैः`).
Line 32:
वाच्यमित्येवशब्दार्थः । जीवो वायुरित्यनेन प्राणभृच्छब्दो व्याख्यातः ।
Wait:
वाच्यमित्येवशब्दार्थः । जीवो वायुरित्यनेन प्राणभृच्छब्दो व्याख्यातः ।
Let's check:
वाच्यमित्येवशब्दार्थः । - yes.
जीवो वायुरित्यनेन प्राणभृच्छब्दो व्याख्यातः । - yes.
Line 33:
अत्र वाच्य इत्यनुषज्यते । चः समुच्चये । अनेन सूत्रे चशब्दः प्रागुक्तहे-
Wait:
अत्र वाच्य इत्यनुषज्यते । चः समुच्चये । अनेन सूत्रे चशब्दः प्रागुक्तहे-
Line 34 (bottom page number / signature):
३१
Let's double-check the first word of line 8 again:
Line 8: र्ते—ऋत इति ।
Wait, look at the first character:
Could it be ऋते where the left part of ऋ is present?
Let's look at the very first glyph on line 8:
Left edge has a vertical line, then a dash?
Wait!
? Wait, how many characters are before नानुमानमित्यतो? Let's count: Character 1 Character 2 Character 3 (नां? No, wait!) Let's look at the space: [glyph 1] [glyph 2] [glyph 3] नानुमानमित्यतोWait! Could it beसूत्रे नानुमानमित्यतो? Look at line 21: अनेन सूत्रे नानुमानमित्यतो नञनु-Now look at line 8: Is line 8:सूत्रे नानुमानमित्यतो नञश्च समाकर्षकः ।?? Wait! Look at the first word of line 8: Could it be सूत्रे?! Wait, does it have an े(e-matra)? Wait, look at the top of the word: Above character 2, there is a stroke slanting up-left, which is an e-matra or anusvara? Wait, if it'sसूत्रे: Letter 1: सूLetter 2:त्रेWait! How isत्रेwritten?त्रwithे! Does letter 2 look like त्र? Wait! In त्र`, it's a vertical stem with a downward-left diagonal and a downward-right diagonal, or an inverted V!
Does the second
श्रुतेर्न जीवेशभेदोऽत्र प्रकरणे->भेदश्रुतेर्न Line 13:विवक्षित इति ज्ञायते, किन्तु लिङ्गादपीत्याह सूत्रकृत्—स्थितीति ॥ Line 14:तदसिद्धिवारणाय श्रुत्युदाहरणेन व्याचष्टे—द्वा सुपर्णेति । अनेन— Line 15:'द्वा सुपर्णा' इत्यत्र श्रुताभ्यां कर्मफलानुपजीवनावस्थितितदुपजी- Line 16:वनाभ्यां हेतुभ्यां च नैवात्र जीवेशयोरैक्यं वाच्यमिति सूत्रार्थ उक्तो Line 17:भवति । चशब्दस्तु हेतुसमुच्चायक इति स्पष्टत्वान्न व्याख्यातः । श्रुता- Line 18:वदनस्य प्राथम्येऽपि स्थितेरीशसम्बन्धित्वेनाभ्यर्हितत्वादल्पाक्षरत्वाच्च Line 19:सूत्रे तदनुसारेण भाष्ये च श्रौतक्रममुल्लङ्घ्य स्थितेः प्रथममुक्तिः । Line 20:'सयुजा' सयुजौ संयुक्तौ उपकार्योपकारकभाववत्तया परस्परापरि- Line 21:हारेण वर्तमानौ 'सखाया' सख
२४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
२. अधिकरणम् ॥
( १ ) 'प्राणो वा आशाया भूयान्' इत्युक्त्वा 'यो वै भूमा
तत्सुखम्' (छा. ७-२३.) इत्युक्तेस्तस्यैव भूमत्वप्राप्तिः ।
२. अधिकरणम् ॥
( १ ) अत्राधिकरणे भूम्नाम्नो विष्णौ समन्वयः प्रतिपाद्यते । भू-
मशब्दश्च 'भूम्नः क्रतुवत्' इत्यादौ क्वचिद्धर्मवाचकोऽप्यत्र पूर्णरूपध-
र्मिवचनः । पूर्णत्वं च गुणत उत्तमत्वमिति ध्येयम् । श्रुत्यादिसङ्गतिं
विषयादिकं च सूचयन् सयुक्तिकं पूर्वपक्षं दर्शयति—प्राण इति ॥
'छान्दोग्ये' इत्यादौ उपस्कार्यम् । 'इत्युक्त्वा' इत्युपक्रम्येत्युपलक्ष-
णम् । तदुत्तममनुक्त्वेत्यापि द्रष्टव्यम् । अत एव तस्यैव प्राणस्यैवेत्ये-
वकारोऽन्यव्यवच्छेदकः प्रायोजि । श्रुतौ पूर्वपक्षे प्राणशब्दो वायु-
मात्रपरः । सिद्धान्ते तु भाष्यरीत्या वायुविष्णूभयपरः । न्यायविवर-
णछान्दोग्यभाष्यरीत्या तु वायुमात्रपरः । न च वायुविष्णूभयवाचित्वं
वायुमात्रवाचित्वमित्यर्थद्वयं विरुद्धम् । अन्तर्यामिविवक्षया भाष्य-
स्य तदविवक्षया विवरणादेः प्रवृत्तत्वात् । यथा 'आत्मन आकाशः'
(तै. २-१०) इत्यत्र सम्भूतशब्दस्यानेकार्थत्वेऽन्तर्यामिविष्णुरप्याका-
शशब्देनोच्यते । तस्य जनिमात्रार्थत्वे तु न तेन स उच्यते । तथा तत्त्व-
प्रदीपे तु 'अभ्युपगमवादत्वात्' इत्यादिना अयं प्राणो विष्णुरित्यभ्युपे-
त्यवादेन भाष्यं प्रवृत्तम्, इत्युक्तम् । तथा चाद्यपक्षे प्राणः 'आशायाः'
भारत्याः 'भूयान्' गुणतो ज्येष्ठः । एवं 'प्राणः' तदन्तर्यामी विष्णुरन्त-
र्यामित्वादेव तत आशायाश्च भूयानित्यर्थः । अनेन पूर्वमानन्दमयश-
ब्दोक्तसजातीयोत्कृष्टत्वरूपपूर्णत्वस्येह वायावाक्षेपादानन्दमयाधिकर-
णेनास्याक्षेपकी सङ्गतिः सूचिता । छन्दोगश्रुत्युक्तो भूमाख्यो विष-
यः, किं वायुरुत विष्णुरिति सन्देहश्च सूचितः । तथा तस्यैव भूमत्व-
प्राप्तिरिति पूर्वपक्षः । तत्र प्राणोपक्रमतदुत्तमानुक्तिरूपयुक्तिश्च दर्शि-
ता भवति । 'यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्' इ-
ति वाक्ये सुखशब्दः पूर्णसुखार्थः । 'यत्सुखं स भूमा' इति व्यासती-
र्थीयोक्तेः, सर्वनामानि पर्यायेण तत्तल्लिङ्गभाञ्जीत्युक्तेश्च निरुपपदसुख-
शब्दमात्रस्यापि पूर्णसुखार्थत्वात् । यदनन्याधीनपूर्णानन्दसुखं स भू-
मा गुणतः पूर्णो नारायण इत्युद्देश्यविधेययोर्व्यत्ययः । अत एव स्वा-
तन्त्र्येण सुखस्य विशेषणात् न मुक्तजीवेष्वनैकान्त्यमित्याशयेन तदु-
[ अधि - २. सू - ८. ] दीपिकासाहितम्. २४५
( २ ) 'उत्क्रान्तप्राणान्' (छा. ७-१५-३.) इत्यादि तल्लि
ङ्गात्प्राणशब्दश्च वायुवाचीति ।
( ३ ) अतो वक्ति-
सू-ॐ ॥ भूमा सम्प्रसादादध्युपदेशात् ॥ ॐ ॥ ८ ॥
'सम्प्रसादात्' पूर्णसुखरूपत्वात् 'अध्युपदेशात्'
सर्वेषा मुपर्युपदेशाच्च विष्णुरेव भूमा।
पपादयति-नाल्प इति । 'अल्पे' अपूर्णे मुक्तजीवे तत्प्रसादं विना
यतः सुखं नास्तीत्यर्थः । निगमयति- भूमैव सुखमिति । अत्रापि व्य
त्ययः ॥
( २ ) ननु 'प्राणो वा आशाया भूयान्' इत्युक्तप्राणशब्दस्य 'अ
त एव प्राणः' इत्युक्तरीत्या विष्णुपरात्वाद्विष्णोरेव भूमत्वप्राप्तेः कथं
प्राणशब्दबलाद्वायोर्भूमत्वप्राप्तिरित्यत आह-- उत्क्रान्तेति ॥ इत्यादी
ति । लुप्तविभक्तिको निर्देशः । आदिशब्देन 'उत्क्रान्तप्राणान् शूलेन
समासं व्यतिषं दहेत् नैनं ब्रूयुः पितृहासीति' समग्रवाक्यं गृह्यते ।
तच्च तत् लिङ्गं च, तस्य लिङ्गमिति च विग्रहः । अयमिति शेषः। चश
ब्दोऽवधारणे । वायुवाची चेति भिन्नक्रमः । तथा च 'अयं' प्राणश
ब्दो 'वायुवाच्येव' न विष्णुवाची । कुतः ? 'उत्क्रान्तप्राणान्' इत्या
दौ 'तल्लिङ्गात्' तस्य प्राणस्योत्क्रमणादिरूपलिङ्गश्रवणादिति योज
ना । उत्क्रान्तः प्राणो येभ्यस्ते, तथोक्ताः । तान्मातृपित्राचार्यादीन्
'समासं' साकल्येन 'व्यतिषं' एकदेशेन च शूलेन विलूण्ठ्य यदि
दहेत्पुत्रः शिष्यो वा तथा नैनं ब्रूयुः जनाः । किमिति ? - पितृहासी
ति मातृहासीति । मुख्यप्राणसन्निधानाभावादिति भावः । इति श्रुत्य
र्थः ॥
( ३ ) सिद्धान्तयत्सूत्रमवतारयति-अत इति ॥ सूत्रे प्रसीदत्यने
न जन इति प्रसादः सुखम्, सम्यक्प्रसादः सम्प्रसादः, तस्मादिति
विग्रहः । ईश्वरे सुखमिव दुःखमपि स्यादिति नाशङ्क्यं, पूर्णसुखतात्प
र्येण सम्यक्प्रसादेन दुःखाभावनिश्चयादित्याशयेन प्रयुक्तं सम्प्रसा
दादिति हेतुमनूद्य व्याचष्टे-सम्प्रसादादिति । उत्तरसूत्रस्थचशब्दो
ऽत्राकर्षणीय इत्याशयेन 'अध्युपदेशात्' इत्येतद्धेत्वन्तरपरतयाऽनू
द्य व्याख्याति-अध्युपदेशादिति । नामादीनां सर्वेषां 'उपरि' तदुत्त
मत्वेन 'उपदेशात्' उक्तेरित्यर्थः । चो हेतुसमुच्चये । अत्राधीत्येव हे
२४६ | ब्रह्मसूत्रभाष्यम्. | [ अध्या - १. पा - ३. ]
( ४) सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।
विश्वं नारायणं देवमक्षरं परमं पदम् ॥
विश्वतः परमां नित्यम्' इति हि श्रुतिः (महाना. ११.) ।
( ५) 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति' (बृ. ६-४-२.) इ
त्यादिना नोत्क्रमणादिलिङ्गविरोधोऽपि ॥ ८ ॥
तुः, न तु समग्र एको हेतुः । स चेश्वरवचनो भावप्रधानः, विशेषा
नुक्तेः अखिलेश्वरत्वादिति हेत्वर्थः अखिलेशात्वादित्यनुव्याख्यानसुधो
क्तो ज्ञातव्यः । असिद्धिपरिहारायोपदेशपर्यन्तं धावनम् । प्रायपाठा
द्भूम्नोऽखिलाधिपप्राणाधिपत्ये अखिलाधिपत्यं सिध्यतीति भावः । स
मन्वयसूत्रादनुवृत्तस्य तत्त्वितिविधेयसमर्पकस्यार्थमाह—विष्णुरेवे
ति । भूमा विष्णुरेवेत्यन्वयः ॥
(४) पूर्णसुखत्वादिकं कुतो विष्णुत्वनिर्णायकमित्यत आह—
सहस्रेति ॥ इति हीति । 'हि' यस्मात् 'इति' नारायणानुवाकगता
श्रुतिरस्ति, तस्मात्सम्प्रसादात् विष्णुत्वनिर्णयो भवत्येवेत्यर्थः । 'स
हस्रशीर्षं' सहस्रपदोपलक्षितामितमूर्धानं 'देवं' प्रकाशरूपं विश्व
तो दर्शनादक्षस्येति विश्वाक्षं 'विश्वशम्भुवं' पूर्णसुखाश्रयं 'विश्वं'
जगत्प्रविष्टत्वेन वर्तमानं 'नारायणं' मुक्तसङ्घे व्यक्तं 'अक्षरं' स्व
रूपतो नाशरहितं अक्षेषु रममाणं वा । परेभ्यो ब्रह्मादिभ्योऽधिकत्वेन
मीयत इति परा मा यस्येति वा परमस्तं परमं 'पदं' प्राप्यं विश्वतः
परमश्चासावश्चेति विग्रहः , सवर्णदीर्घः । सोमपाशब्दवदयं शब्दः ।
सुधारीत्या आबन्तत्वाश्रयेण लिङ्गव्यत्ययो वा । तथा च 'विश्वतःप
रमां' सर्वस्मादुत्तमं अकारवाच्यं सर्वोत्तमं वा 'नित्यं' देहतो नाश
रहितं 'विश्वं' गुणैः पूर्णं यज्ञेषु हविःस्वीकरणात् हरिवर्णत्वाच्च 'ह
रिं' 'देवं' क्रीडादिगुणकं 'नारायणं' तदाख्यं देवं तद्विश्वमुपजीव
तीति श्रुत्यर्थः । यद्यपि 'विश्वतः परमं' इति द्राविडपाठः । तथाऽप्या
न्ध्रपाठमनुसृत्य परमामित्युक्तम् ॥
(५) अत्र प्राणशब्देन विष्णोर्वाच्यत्वाङ्गीकारे प्रागुक्तोत्क्रमणा
दिलिङ्गविरोध इत्यतो नेत्याह—तमिति ॥ प्रथमादिशब्देन तदुत्तरवा
क्यानि द्वितीयेन तल्लिङ्गान्तराणि च गृह्यन्ते । अपिशब्दः समुच्चये, य
द्यपि तथापीत्यर्थे च । तथा च—न केवलं प्राणशब्दोपक्रमविरोधः ,
तस्य विष्णुपरत्वात् , किंतु 'अपि' अत्र प्राणशब्दे न विष्णोर्वाच्य
[ अधि - २. सू - ९. ] दीपिकासहितम्. २४७
( ६ ) सू— ॐ ॥ धर्मोपपत्तेश्च ॥ ॐ ॥ ९ ॥
स्वाङ्गीकारे उत्क्रमणादिलिङ्गविरोधो नास्ति । कुतः ? 'अपि' तथाऽपि
सर्वगतेऽपि विष्णवुत्क्रमणादिलिङ्गस्य 'तमुत्क्रामन्तम्' इत्यादिना वा-
जसनेयवाक्येन सिद्धत्वादिति योजना । श्रुतिसिद्धेऽर्थे लोकदृष्टिविरो-
धोऽकिञ्चित्कर इति भावः । 'तस्य हैतस्य हृदयस्याग्रं प्रद्योतते ।
तेन प्रद्योतेनैष आत्मा निष्क्रामति' (बृ. ६-४-२.) इति पूर्ववाक्ये प्र-
कृतः परमात्मा तच्छब्देन परामृश्यते । तथा च प्रद्योतितहृदयाग्रेण
परोक्षज्ञानिदेहात् 'उत्क्रामन्तं' निर्गच्छन्तं परमात्मानमनुसृत्य 'प्रा-
णो' मुख्यवायुः 'उत्क्रामति' देहान्निर्गच्छतीति श्रुत्यर्थः ॥
(६) युक्त्यन्तरेण विष्णोर्भूमत्वप्रतिपादकं सूत्रमुपन्यस्य व्याचष्टे-
धर्मेति ॥ आदिपदेन स्वातन्त्र्यस्वप्रतिष्ठितत्वादिकं गृह्यते । अस्य हे-
तोर्विष्णुरेव भूमेति प्रधानसाध्येनान्वयः । यद्यपि च्छान्दोग्ये 'यत्र ना-
न्यत्' (छा. ७-२४-१.) इति स्वातन्त्र्यबोधकवाक्यानन्तरं 'स एवाध-
स्तात्' (छा. ७-२५.) इति सर्वगतत्वाभिधायकवाक्यश्रवणात् प्रथम-
श्रुतस्वातन्त्र्यधर्मं स्वशब्देन गृहीत्वा सर्वगतत्वमादिशब्देन ग्राह्यम् ।
तथाऽपि तद्वाक्ये भूमत्वनियतसर्वगतत्वस्य स्पष्टं प्रतीतेस्तदेव वाच-
कशब्देन गृहीतमिति द्रष्टव्यम् । अनेन-सूत्रे चो युक्तिसमुच्चये धर्म-
शब्दात्परमन्वेति । लिङ्गस्य निरवकाशत्वज्ञापनायोपपत्तिपर्यन्तं धाव-
नम् । तथा च न केवलं सम्प्रसादादेः, किन्तु ' स एवाधस्तात्स उप-
रिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदं सर्वम्'
( छा. ७-२५-१. ) इति वाक्ये, तथा—' यत्र नान्यत्पश्यति नान्यच्छृ-
णोति नान्यद्विजानाति स भूमा ' (छा. ७-२४-१.) इति वाक्ये, तथा-
' स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि ' ( छा. ७-२४-१. )
इत्यादि वाक्ये च सर्वगतत्वादिधर्मश्रवणाच्च भूमा विष्णुरेव, तेषां च
धर्माणां विष्णावेवोपपत्तेरिति सूत्रार्थ उक्तो भवति । 'सः' भूमश-
ब्दितो नारायणः अधः उपरि पश्चात्पुरस्ताद्दक्षिणत उत्तरतः सर्वत्रा-
स्ति । तत्प्रयोजनमाह—स एवेदं सर्वमिति । तेनैवेदं जगद्व्याप्तं स एव
सर्वसत्ताप्रदस्तदर्थमेव सर्वत्र तिष्ठतीत्यर्थः । 'यत्र' यस्मिन् यदधी-
नं विना अन्यन्नपश्यत्यधिकारी सर्वमेव तदधीनं पश्यति , तथैव शृ-
णोति, विजानाति च स भूमेत्यर्थः । 'यत्र' यस्मिन् दृष्टेऽन्यत्स्वतन्त्रं
न पश्यतीति वा । हे 'भगवो' भगवन् स भूमा कस्मिन् प्रतिष्ठित इ-