सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 275, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 275

२२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
(१९) सू— ॐ ॥ अनुस्मृतेर्बादरिः ॥ ॐ ॥ ३० ॥
तत्र तत्रोक्तस्य विष्णोरग्न्यादिष्वनुस्मर्यमाणत्वात्त-
न्नियम इति बादरिः ॥ ३० ॥
(२०) सू— ॐ ॥ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ॐ ॥ ३१॥
साक्षादप्यविरोधं वदन् जैमिनिः सूक्तादिनियमम
ग्न्यादिसम्प्राप्त्या मन्यते ।
षः । अनेनापि—तत्तत्सूक्तादौ ब्रह्मण एव प्रतिपाद्यत्वेऽपि अग्निवा-
य्वादीनामप्रतिपाद्यत्वेऽपि अविरोधः । अग्न्यादिसूक्तनियमः इदम-
ग्रिसूक्तं इदं वायुसूक्तं इति सूक्तनियमः, इयमग्निविद्या इयं वायुवि-
द्येति विद्यानियमश्च युज्यते । कथं ? तैरग्न्यादिसूक्तादिभिस्तस्य ब्र-
ह्मणस्तस्यामुपास्तौ कृतायां तत्राग्न्यादिष्वेव तस्य ब्रह्मणः 'अभि'
स्वेच्छयाऽभिव्यक्तिनियमात्तदभिप्रायेण तत्प्रसिद्धेरुपपत्तेरित्येवं वै-
दिकाग्न्यादिसूक्तादिप्रसिद्धयविरोधमाश्मरथ्याचार्यो वक्तीति सूत्रा-
र्थ उक्तो भवति ॥
(१९) प्रकारान्तरण सूक्तादिनियमस्यान्यथोपपत्तिं कथयत्सूत्र-
मुपन्यस्य व्याचष्टे—अनुस्मृतेरिति ॥ अत्र पूर्ववदध्याहारादिः । 'त-
त्र तत्र' अग्न्यादिविद्यासु । सूत्रेऽविरोधमित्यनुषक्तपदतात्पर्यमाह—
तन्नियम इति । अनेनापि—विष्णोरेव अग्न्यादिविद्याप्रतिपाद्यत्वेऽपि य-
तस्तस्याग्न्यादिविद्यासु उक्तस्य विष्णोस्तैस्तत्तत्सूक्ताद्युपासकैस्त-
त्राग्न्यादिष्वेव 'अनुस्मृतेः' अनुस्मर्तव्यत्वात् प्रतिपत्तव्यत्वात् अवि-
रोधस्तन्नियमः अग्न्यादिसूक्तादिव्यवस्था युज्यते । अतो नैतदन्यथा-
ऽनुपपत्त्याऽन्येषां वाच्यत्वं कल्प्यमिति सूक्तादिप्रसिद्धयविरोधं 'बाद्-
रिः' बादरात्मजः शुकाचार्यो वक्तीति सूत्रवृत्तिर्दर्शिता भवति ॥
(२०) रीत्यन्तरेण सूक्तादिनियमस्यान्यथोपपत्तिं कथयत्सूत्रमुप-
न्यस्यति—सम्पत्तेरिति ॥ जैमिनिमतस्य पूर्वमुपन्यस्तत्वात्किमर्थं पु-
नर्वचनमिति मन्दाशङ्कानिरासाय उभयान्वयीतिशब्दपरामृष्टपूर्वो-
क्तानुवादेन विषयभेदं दर्शयन् सूत्रं व्याचष्टे—साक्षादिति ॥ अग्न्या-
दिशब्दानां मुख्यतो ब्रह्मवाचकत्वेऽपि 'अविरोधं' लौकिकव्यवहार-
विरोधाभावं वदन्नित्यर्थः । अत्राप्यनुवृत्तस्य अविरोधमित्यस्यार्थमा-
ह—सूक्तादीति । नियमो व्यवस्था । संप्राप्त्या निमित्तभूतयेति शेषः ॥