पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ अधि - ७. सू - २६. ] दीपिकासहितम्. २२१
इत्यारम्भाच्च अन्येषामसम्भवात् विष्णुरेव वैश्वानरः ।
(९) ‘चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत’ (तै.
आ. ३-१२.) इत्यादिना यः पुरुषाख्यो विष्णुरभिहित
स्तद्विधमेवात्र ‘मूर्धैव सुतेजाश्चक्षुर्विश्वंरूपः प्राणः
पृथग्वर्त्मा’ (छा. ५-१८-२.) इत्यादिना एनं वैश्वा
नरमधीयते ॥
मात्मशब्दार्थव्याप्तत्वगुणपूर्णत्वयोरसम्भवावगमादिति । अनेन सूत्रे
आरम्भादिति पदमध्याहृत्य तेनापिशब्दः संयोज्यः । असम्भवादिति हे
तुस्तु आत्मशब्दादेरन्यत्रानवकाशत्वसाधकत्तयोभयत्र संयोज्य इत्यु
क्तं भवति । अत एव भाष्ये अग्निश्रुत्यादीनां विष्णौ सावकाशत्वसा
धकतयेत्यादिव्याख्यानन्तरं विष्णुपक्षसाधकात्मशब्दादेरन्यत्रानवका
शत्वसाधकासम्भवादिति हेतौ व्याख्यातव्येऽपि तद्विहायारम्भादि
त्यध्याहृतहेतूपन्यासानन्तरं असम्भवादित्युपन्यस्तम् । टीकायामपि
—न चात्मशब्दादेरन्यत्रास्त्यवकाश इति प्रतिज्ञाय प्रकरणबलाच्चेत्य
ध्याहार्यहेतुं च प्रदर्श्य, अनन्तरमात्मशब्दप्रकरणयोर्निरवकाशत्वसा
धकासम्भवादित्यंशो व्याख्यातः । तथादृष्ट्युपदेशादसम्भवादितिवत्
नाध्याहृतहेतोरवान्तरसाध्येनान्वयः, किन्तु प्रधानेनैवेति ज्ञापनाय
विष्णुरेव वैश्वानर इति पुनरुक्तिः । उद्देश्यविधेयनिर्देशस्यैच्छिकत्वा
द्व्यत्यासः । ‘हि’ यस्माद्विष्णोः ‘परे’ अन्ये गुणैः ‘अनात्तत्वात्’
अव्याप्तत्वात् सर्वोत्कृष्टत्वेन वैदिकैरस्वीकृतत्वाद्वा ‘अनात्मानः’ अना
त्मशब्दमुख्यार्थाः। यस्माच्च गुणराशित ऊनत्वादब्रह्माणश्च । तस्मात् ‘ब्र
ह्यात्मा’ तच्छब्दमुख्यवाच्यो विष्णुरेव सिद्ध इत्यर्थः । छान्दोग्ये हि
‘को न आत्मा किं ब्रह्म’ इति मिलित्वा मीमांसमानैः प्रत्यब्दयज्ञकृत्व
निमित्तान्महाशालसंज्ञैः पञ्चभिर्महामुनिभिः उद्दालकोद्दिष्टैस्तद्युक्तैः
परिपृष्टो राजाऽश्वपतिर्वैश्वानरमुपदिदेश । ‘नः’ अस्माकं उपास्य
आत्मा ‘कः’ किंलक्षणः । ब्रह्म च ‘किं’ किंलक्षणमित्यर्थः ॥
(९) श्रुतिसमाख्यया च वैश्वानरस्य विष्णुत्वमुपपादयितुं प्रवृ
त्तं ‘पुरुषविधमप्येनमधीयते’ इत्यंशं व्याचष्टे—चन्द्रमा इति ॥ अत्र
‘चन्द्रमाः’ इति वाक्यं प्रतीकत्वेन गृहीतम् । उदाहरणवाक्यं तु च
२२२ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - २.]
(१०) चशब्देन सकलवेदतन्त्रपुराणादिषु विष्णुपরত্বं पुरु-
षसूक्तस्य दर्शयति ।
(११) तथा च ब्राह्मे—
यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणम् ।
तथैव मे मनो नित्यं भूयाद्विष्णुपरायणम् ॥ इति ।
(१२) चतुर्वेदशिखायां च—
क्षोस्सूर्यो अजायत' इतीति ध्येयम् । प्रथमादिपदेन 'शीर्ष्णोद्यौस्स
मवर्तत, प्राणाद्वायुरजायत,..पद्भ्यां भूमिः, (तै.आ.३-१२.) इत्या
दिकं द्वितीयादिपदेन 'संदेहो बहुलो वस्तिरेव रयिः पृथिव्येव
पादौ' (छां.५-१८-२.) इत्यादिकं गृह्यते । एतमित्यस्य व्याख्यानं—वै
श्वानरमिति । तथाच—यस्मात्पुरुषसूक्ते 'शीर्ष्णोद्यौस्समवर्तत, च
क्षोस्सूर्यो अजायत' इत्यादिना शब्देन यः पुरुषाख्यो विष्णुः यद्विधो
द्युभ्वादिसनकशीर्षादिमानभिहितः, तद्विधमेव द्युभ्वादिसनकशीर्षा
दिमत्त्वप्रकारोपेतमेवात्र छान्दोग्ये 'मूर्धैव सुतेजाः' इत्यादिना वा
क्येनैनं वैश्वानरमधीयते छन्दोगाः तस्मात्पुरुषसूक्तसमाख्ययाऽपि
वैश्वानरो विष्णुरेवेति योजना ॥
(१०) ननु पुरुषसूक्तस्य विष्णुपরত্বे भवेत्तत्समाख्यया एतद्विद्या
या विष्णुपরত্বम, तदेव कुत इत्यत आह—चशब्देनेति ॥ श्रुतेराधि
क्यात्प्रथमं प्रतिज्ञा । 'पुरुषसूक्तस्य' इत्यनन्तरं 'प्रसिद्धमिति' इ
ति शेषः । 'दर्शयति' सूचयति सूत्रकार इत्यर्थः । आत्मशब्दस्मृति
समाख्याप्रकरणसमुच्चयस्येव प्रकरणश्रुतिसमुच्चयस्यापि अपिपदेनै
व सिद्धत्वान्न तत्रोपक्षीणश्चशब्द इति भावः ॥
(११) किं तद्वेदादीत्यतश्श्रुतेः साक्षात्प्रतिज्ञातार्थासाधकत्वात्प्रति
ज्ञाक्रममतिक्रम्य साक्षात्प्रतिज्ञातार्थसाधकत्वादादौ पुराणवाक्यं पठ
ति—तथा चेति ॥ सूत्रे पुरुषसूक्तस्य विष्णुपরত্বं सिद्धमिति यथो
क्तं तथा ब्राह्मे चोक्तमित्यर्थः । चः समुच्चये । एवं उत्तरत्रापि 'उ
क्तम्' इति पदाध्याहारेण सप्तम्यन्तपदानान्वयो द्रष्टव्यः । 'नित्यं'
नियमेन 'विष्णुपरायणं' विष्णौ महातात्पर्यवत् । द्वितीयस्य नित्य
मित्यस्य सदेत्यर्थः । 'इति ब्राह्म इति' इति शब्दान्वयः । सिद्धार्थस्यै
व दृष्टान्तत्वादनेन ब्राह्मवचनेन विवक्षितार्थो ज्ञायते ॥
(१२) प्रतिज्ञातां श्रुतिं दर्शयितुं प्रथममेव तत्स्थानमाह—चतुर्वेद
[ अधि - ७. सू - २६. ] दीपिकासहितम्. २२३
सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात् ।
इति । एष ह्येवाचिन्त्यः परः परमो हरिरादिरनादि
रनन्तोऽनन्तशीर्षोऽनन्ताक्षोऽनन्तबाहुरनन्तगुणोऽन
न्तरूप इति ।
( १३ ) बृहत्संहितायां च—
यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायकम् ।
न तथा सर्ववेदाश्च वेदाङ्गानि च नारद ॥ इत्यादि ।
( १४ ) यस्माद्यज्ञ्जायते चाङ्गाल्लोकवेदादिकं हरेः ।
शिखायां चेति ॥ अत्र चतुर्वेदशिखाश्रुतिः 'सहस्र' इत्यारभ्य 'सह
स्रपात्' इत्यन्तेन पुरुषसूक्तमुपन्यस्य 'एषह्येव' इत्यनेन 'सहस्रशी
र्षा पुरुषः' इत्युक्तो हरिरेव नान्य इत्येतत्सूक्तं विष्णुपरतया व्याख्या
तीति प्रकृतसङ्गतिः । सुप आकारो वैदिकः । एष क इत्यतो यः 'प
रो' विलक्षणः अत एव 'अचिन्त्यो' मनसा 'परमः' उत्तमः 'आ
दिः' कारणभूतः 'अनादिः' उत्पत्तिशून्यः 'अनन्तः' नाशशून्यः, स्व
रूपतोऽपरिच्छिन्नो वा हरिः स इत्याह । कुतः अयं पुरुषः सहस्रशीर्षा ?
'हि' यस्मादनन्तशीर्षा । कुतः सहस्राक्षः ? यस्मादयमनन्ताक्षः । कु
तःअयं सहस्रपात् ? यस्मादनन्तबाहुः । अनन्तपादित्यस्याप्युपलक्षक
मेतत् । एवं पूर्ववाक्येऽपि 'सभूमिम्' इत्युत्तरवाक्येप्युपपादकमाह-
अनन्तगुणोऽनन्तरूपोऽनन्ताकार इति । चतुर्वेदशिखायामित्यन्वयः ॥
( १३ ) ब्राह्मवाक्यस्य पुरुषसूक्तस्य लक्षणया विष्णुपरत्वेऽन्यपर
त्वेऽपि वा सावकाशत्वान्नतत्प्रतिज्ञातार्थनिश्चायकमित्यतो व्याख्यान
व्याख्येयभावाख्यद्वारमन्तरेण पुरुषसूक्तं मुख्यतो विष्णोरेवाभिधाय
कमिति साक्षात्प्रतिज्ञातार्थसाधकं स्मृतिवाक्यं तत्स्थाननिर्देशपूर्वकं
पठति—बृहत्संहितायां चेति ॥ चकारः पूर्वसमुच्चयार्थः । 'वेदाङ्गा
नि' शिक्षादीनि ब्राह्मवाक्यमेतत् । इत्यादि । बृहत्संहितायामुक्तमित्य
न्वयः । आदिपदेन 'सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः' इति
ब्रह्मतर्कादिग्रहणम् । 'सर्वतः' सर्वे गुणाः । सामान्येनेति शेषः । स
र्वेस्मिन्, सर्वस्मात् वेदतदङ्गेभ्योऽतिशयेनेति वा ॥
( १४ ) ननु पुरुषसूक्ते द्युभ्वादिजनकशीर्षादिमत्त्वं पुरुषस्योच्यते ।
वैश्वानरविद्यायां तु वैश्वानरस्य तद्भेद उच्यते । तदुभयोर्विरुद्धार्थ
त्वान्नेयं समाख्येत्यत आह—यस्मादिति ॥ 'लोकः' स्वर्गादिः 'वेदः'
५२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखम् ॥
इति नारदीयवचनान्नाभेदोक्तिविरोधः ॥ २६ ॥
अङ्गादिः। यद्यपि नात्र छान्दोग्ये वेदाभेद उच्यते इति न तद्गतिर्वक्त
व्या । तथापि श्रुत्यन्तरगताभेदवाक्यार्थनिर्णयायायमंशः प्रवृत्तः ।
यद्वा—वेदशब्देन 'उर एव वेदिः' इत्युक्ता वेदिर्गृह्यते । 'तृतीयोऽ
तिशये' इत्युक्तत्वात् । 'वेद्यादिकम्' इति पाठः स्वरसः । तथा च
—यस्माद्यस्मात् हरेरङ्गात् यद्यत् लोकवेदादिकं जायते, यदाश्रित्य
तिष्ठति, यत्र लीयते च तज्जनकमङ्गं तस्मात् 'तन्नामवाच्यं' तस्य
लोकादेर्नाम वाचकशब्दः तेन मुख्यवाच्यं भवति । अत एव तद
भिन्नत्वेन प्रतीयते च । न तावता तयोरभेदो मन्तव्य इत्यर्थः । अत्र
दृष्टान्तमाह—यथेति । मुखमित्युपलक्षणम् । तथा च—भगवन्मुखा
द्बिर्ब्राह्मणादिजातिजनकत्वात् ब्राह्मणादिनाम्नोच्यते 'ब्राह्मणोऽस्य मु
खमासीत्' (तै.आ.३-१२.) इत्यादौ । अत एव तदभिन्नत्वेन प्रतीयते
च सामानाधिकरण्यात् । तद्वदत्रापीत्यर्थः । न ह्यत्र पुरुषोत्तममुखा
दिभिरभेदो ब्राह्मणादीनामुच्यते, 'पद्भ्यां शूद्रो अजायत' (तै.आ.३-
१२.) इत्युत्तरवाक्यविरोधात् । इति वचनादित्युक्तत्वाद्वैश्वानराङ्गानां
'मूर्धैव' इति लोकाद्यभेदोक्तिनिमित्तो विरोधो नेत्यर्थः । अभेदप्र
त्यायकोक्तेस्तज्जन्यजनकभावविवक्षापूर्वकत्वादिति भावः । अनेन
भगवतो मूर्धा सुतेजस्त्वादिगुणयोगात्सुतेजःशब्दितस्वर्गजनक
त्वात् सुतेजा इत्युच्यते । एवं 'चक्षुर्विश्वरूपः' सर्वप्रकाशक
स्वगुणयोगात् विश्वरूपशब्दितसूर्यजनकत्वात्तच्छब्देनोच्यते । 'प्राणः
पृथग्वर्त्मात्मा' (छां. ५-१८-२.) वायुजनकत्वात्तच्छब्दित इति श्रु
त्यर्थस्सूचितः । आत्मशब्दः स्वरूपार्थो मध्यदेहार्थो वा । छान्दोग्य
भाष्ये तु—'मूर्धा विष्णोश्शिरः स्वर्गाधारं द्युनामकं' अतितेजसा
सुतेजोनामकं च । विश्वानि रूपाणि विषयत्वेन यस्येति विग्रहाश्रये
ण सर्वरूपातिदर्शनात् चक्षुर्विश्वरूपाख्यम् । एवं विष्णोः प्राणो नृसि
ङ्गाख्यो वाय्वादिप्राणशक्यं यन्न भवति तस्य पृथग्वर्त्मात्मा पृथग्वि
लक्षणो मार्गो यस्य स चासावात्मा चेति, इति निमित्तान्तरेण श्रुति
र्व्याख्याता । एवं बहुलरयिपृथिवीशब्दिताकाशवारिवसुन्धरादेवता
जनकत्वात् सन्दोहवस्तिपादपदोक्तानि मध्यदेहकटिप्रपदरूपाणि
भगवतो वैश्वानरस्याङ्गानि तत्तच्छब्दवाच्यानीत्यपि ज्ञातव्यम् ॥
ादीति आधिभौ-"
तिकविद्यान्तरस्य वैश्वानरादीत्याध्यात्मिकविद्यान्तरस्योपलक्षणार्थ-
"तिकविद्यान्तरस्य वैश्वानरादीत्याध्यात्मिकविद्यान्तरस्योपलक्षणार्थ-"
Wait, look at line 29:
"तिकविद्यान्तरस्य वैश्वानरादीत्याध्यात्मिकविद्यान्तरस्योपलक्षणार्थ-"
All clear.
मग्न्यादिवैश्वानरादिग्रहणम् । ‘तेजसि भूते’ इति सामानाधिकरण्य-
म् । चः समुच्चये ‘प्रसिद्धः’ इत्यनेन पूर्वपक्षे प्रसिद्धत्वादिति युक्तिः
सूचिता । सौत्रमतःशब्दमनूद्य व्याख्याति—अत इति । पूर्वोक्तेति ।
२९
Wait, let's verify line 33: "२९" - yes, bottom page signature / number: "२९".
Wait, let's verify line 1:
"[ अधि - ७. सू - २७. ] दीपिकासहितम्. २२५"
Wait, is it "दीपिकासहितम्." with a dot? Yes, dot.
Page number: "२२५".
Let's do a meticulous pass over every single line:
Line 1:
[ अधि - ७. सू - २७. ] दीपिकासहितम्. २२५
Line 2:
२२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
( १६ ) सू— ॐ ॥ साक्षादप्यविरोधं जैमिनिः ॥ ॐ ॥ २८ ॥
नाग्न्याद्यर्थैः शब्दा अग्न्यादिवाचकास्तथाऽपि सा
क्षादेवानन्ययोगेन ब्रह्मवाचकैरशब्दैः व्यवहारार्थम
नभिज्ञानाच्च अन्यत्र व्यवहरन्तीत्यभ्युपगमेऽविरोधं
जैमिनिर्वक्ति ।
आत्मशब्दादितिहेतुत इत्यर्थः । न तत्र हेत्वन्तरं गवेषणीयमित्येवा
र्थः । ' अत्र ' वैश्वानरविद्यायां विद्यान्तरे च ' सा ' अग्निदेवता 'तत्'
तेजोभूतं, प्रसिद्धिप्राधान्याभ्यां निर्देशव्यत्यासः । चशब्दः समुच्चये ।
अभिधीयते ' तेन ' इति शेषः । वैश्वानरादिशब्देनेति तदर्थः । ' तत्र'
इति पाठाभावे तदप्यध्याहार्यम् ॥
( १६ ) ननु लोके वेदे च अग्न्यादिपदानां ईशादन्यत्र व्यवहारप्रसि
द्धिदर्शनात् तस्य च कारणान्तराभावात्तदन्यथाऽनुपपत्त्याऽन्येषां वा
च्यत्वमङ्गीकार्यम् । अन्यथा तद्विरोधः स्यादित्याशङ्कां परिहरत्सू
त्रमुपन्यस्य व्याचष्टे—साक्षादिति ॥ अत्र तथापीत्यपिशब्दव्याख्याना
द्यद्यपीति लभ्यते । अग्निशब्दः स्वपरः । अग्निशब्द एव आदिर्येषां तेऽ
ग्न्यादय इति विग्रहः । अपिरवधारणेऽपीत्याशयेन साक्षादेवेत्युक्तम् ।
अर्थान्तरव्यवधानेनेत्यर्थः । फलितार्थमाह—अनन्येति । शक्यरूपा
न्यसम्बन्धमन्तरेण मुख्यवृत्त्येत्यर्थः । यद्वा—तत्त्वप्रदीपरीत्याऽन्यत्र यो
गवृत्त्यभावेन ब्रह्मणि सम्यग्भोगेनेत्यर्थः । ब्रह्मवाचकैरपीत्यपिशब्दान्व
यः । ' तैरग्न्यादिशब्दैः ' इति शेषः । ' व्यवहारार्थं ' हानादिव्यवहार
सिद्ध्यर्थं ' अनभिज्ञानात् ' मुख्यवाच्यज्ञानाभावात् । चशब्दो न फेव
लं व्यवहारार्थं किन्त्वनभिज्ञानाच्चेति समुच्चये । ' अन्यत्र ' अग्न्यादि
षु तान् तत्र व्यवहरन्ति ज्ञानिनोऽज्ञानिनश्चेति क्रमेण शेषः । ' इत्यभ्यु
पगमे ' इति निमित्तसप्तमी । एवमङ्गीकारात् ' अविरोधं ' ज्ञान्यज्ञानि
व्यवहारविरोधाभावं जैमिनिराचार्यो वक्तीत्यर्थः । ' यत्रानवसरः '
इत्युक्तेर्वक्तीत्युक्तम् । अनेनाग्न्यादिशब्दाः नाग्न्यादिवाचकाः, किन्तु
ब्रह्मवाचका एव । तथापि नान्यत्र प्रसिद्धिविरोधः । न वाऽन्यथाऽनुपप
त्त्याऽन्येषां वाच्यत्वं कल्प्यम् । कुतः ? यतो वाच्यार्थधीव्यवहितं लक्ष
णादिकं विना साक्षान्मुख्यवृत्त्याऽपि ब्रह्मवाचकामग्न्यादिशब्दान् मु
ख्यार्थज्ञानिनः अजामिलचरमतनये नारायणशब्दमिव हानादिसिद्ध्य
र्थं तदज्ञानिनस्त्वनभिज्ञानादेव तान् ज्वलनादिषु व्यवहरन्तीत्यभ्युप
[ अधि - ७. सू - २९. ] दीपिकासहितम्. २२७
( १७ ) व्यासचित्तस्थिताकाशादवच्छिन्नानि कानि चित् ।
अन्ये व्यवहरन्त्येतान्यूरीकृत्य गृहादिवत् ॥
इति स्काान्दवचनान्नमतानां परस्परविरोधः ॥ २८ ॥
( १८ ) सू—ॐ ॥ अभिव्यक्तेरित्याश्मरथ्यः ॥ ॐ ॥ २९ ॥
तत्र तत्र प्रसिद्धावप्यग्नयादिषु ब्रह्मणोऽभिव्यक्तेर
ग्नयादिसूक्तनियम इत्याश्मरथ्यः ॥ २९ ॥ .
गमेनान्यत्राविरोधं व्यवहारविरोधाभावं प्रसिद्धिविलोपाभावं वक्ष्यत
इति सूत्रार्थ उक्तो भवति ॥
( १७ ) ननु जैमिन्यादिमतानां भगवन्मताविरोघित्वे जैमिन्यादि
ग्रहणवैयर्थ्यात् तद्विरोधित्वे वा कथं विरुद्धराद्धान्तेन परिहार इत्य
त आह—व्यासेति ॥ व्यासचित्तस्थितं मतापरपर्यायं ज्ञानाख्यमहा
काशमपेक्ष्य गृहाद्यवच्छिन्नाकाशवत् ' अवच्छिन्नानि ' विविक्तानि
परिमितविषयाणि कानि चिदेतानिं मतान्यूरीकृत्य ' अन्ये ' केचन
जैमिन्याद्याः व्यवहरन्तीत्यर्थः । यथोक्तं सत्तर्कदीपावल्याम्—आका
शवदथासत्वात्प्रकाशमानत्वाच्च व्यासचित्तस्थितमताख्याकाशात्
' अवच्छिन्नानि ' स्वस्वमत्या विविक्तानि तानि मतानि इदं मदीयं
इदं मदीयं इत्यूरीकृत्यान्ये व्यवहरन्ति । यथा गृहनगरादिभिराकाश
प्रदेशानवच्छिद्यायं मदीयः प्रदेशोऽयं मदीयः प्रदेश इति जनाः व्यवह
रन्तीति । मतानामिति बहुवचनं वक्ष्यमाणमतविवक्षया । तथा च जै
मिन्यादिमतानां व्यासमतेन परस्परं चाविरोध इत्यर्थः ॥
( १८ ) ननु लौकिकप्रसिद्धेरज्ञानादिमूलत्वेनान्यथोपपत्तावपि वैदि
काग्नयादिसूक्तमन्त्रादिप्रसिद्धयन्यथाऽनुपपत्त्याऽग्नयादीनां सूक्तादिग
ताग्नयादिशब्दवाच्यत्वं स्यात्, तत्राज्ञानादिमूलकत्वकल्पनाऽयोगेना
न्यथोपपत्त्यभावात् । नापि व्यवहारार्थत्वेन अन्यथोपपत्तिः, अनादि
त्वादित्याशङ्कां परिहरत्सूत्रं पठति—अभिव्यक्तेरिति ॥ अत्र पूर्वस्मा
दपिरनुवर्तनीयः । तच्छब्दश्चानुवृत्तोऽनेकधा विपरिणेतव्य इत्याशये
न तद्व्याचष्टे—तत्रेति । ' तत्र तत्र ' सूक्तादौ तस्य ब्रह्मण एव ' प्र
सिद्धावपि' प्रतिपाद्यत्वेपि अग्नयादीनामप्रतिपाद्यत्वेऽपीत्यर्थः । अग्नया
दिष्विति सावधारणम् । सूत्रे अविरोधमिति अनुषक्तपदतात्पर्यमाह—
अग्नयादीति । आदिशब्द उभयत्र योज्यः । युज्यत इति बर्कीति शे
२२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
(१९) सू— ॐ ॥ अनुस्मृतेर्बादरिः ॥ ॐ ॥ ३० ॥
तत्र तत्रोक्तस्य विष्णोरग्न्यादिष्वनुस्मर्यमाणत्वात्त-
न्नियम इति बादरिः ॥ ३० ॥
(२०) सू— ॐ ॥ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ॐ ॥ ३१॥
साक्षादप्यविरोधं वदन् जैमिनिः सूक्तादिनियमम
ग्न्यादिसम्प्राप्त्या मन्यते ।
षः । अनेनापि—तत्तत्सूक्तादौ ब्रह्मण एव प्रतिपाद्यत्वेऽपि अग्निवा-
य्वादीनामप्रतिपाद्यत्वेऽपि अविरोधः । अग्न्यादिसूक्तनियमः इदम-
ग्रिसूक्तं इदं वायुसूक्तं इति सूक्तनियमः, इयमग्निविद्या इयं वायुवि-
द्येति विद्यानियमश्च युज्यते । कथं ? तैरग्न्यादिसूक्तादिभिस्तस्य ब्र-
ह्मणस्तस्यामुपास्तौ कृतायां तत्राग्न्यादिष्वेव तस्य ब्रह्मणः 'अभि'
स्वेच्छयाऽभिव्यक्तिनियमात्तदभिप्रायेण तत्प्रसिद्धेरुपपत्तेरित्येवं वै-
दिकाग्न्यादिसूक्तादिप्रसिद्धयविरोधमाश्मरथ्याचार्यो वक्तीति सूत्रा-
र्थ उक्तो भवति ॥
(१९) प्रकारान्तरण सूक्तादिनियमस्यान्यथोपपत्तिं कथयत्सूत्र-
मुपन्यस्य व्याचष्टे—अनुस्मृतेरिति ॥ अत्र पूर्ववदध्याहारादिः । 'त-
त्र तत्र' अग्न्यादिविद्यासु । सूत्रेऽविरोधमित्यनुषक्तपदतात्पर्यमाह—
तन्नियम इति । अनेनापि—विष्णोरेव अग्न्यादिविद्याप्रतिपाद्यत्वेऽपि य-
तस्तस्याग्न्यादिविद्यासु उक्तस्य विष्णोस्तैस्तत्तत्सूक्ताद्युपासकैस्त-
त्राग्न्यादिष्वेव 'अनुस्मृतेः' अनुस्मर्तव्यत्वात् प्रतिपत्तव्यत्वात् अवि-
रोधस्तन्नियमः अग्न्यादिसूक्तादिव्यवस्था युज्यते । अतो नैतदन्यथा-
ऽनुपपत्त्याऽन्येषां वाच्यत्वं कल्प्यमिति सूक्तादिप्रसिद्धयविरोधं 'बाद्-
रिः' बादरात्मजः शुकाचार्यो वक्तीति सूत्रवृत्तिर्दर्शिता भवति ॥
(२०) रीत्यन्तरेण सूक्तादिनियमस्यान्यथोपपत्तिं कथयत्सूत्रमुप-
न्यस्यति—सम्पत्तेरिति ॥ जैमिनिमतस्य पूर्वमुपन्यस्तत्वात्किमर्थं पु-
नर्वचनमिति मन्दाशङ्कानिरासाय उभयान्वयीतिशब्दपरामृष्टपूर्वो-
क्तानुवादेन विषयभेदं दर्शयन् सूत्रं व्याचष्टे—साक्षादिति ॥ अग्न्या-
दिशब्दानां मुख्यतो ब्रह्मवाचकत्वेऽपि 'अविरोधं' लौकिकव्यवहार-
विरोधाभावं वदन्नित्यर्थः । अत्राप्यनुवृत्तस्य अविरोधमित्यस्यार्थमा-
ह—सूक्तादीति । नियमो व्यवस्था । संप्राप्त्या निमित्तभूतयेति शेषः ॥
[ अधि - ७. सू - ३१. ] दीपिकासहितम्. २२९
( २१ ) 'तं यथा यथोपासते तदेव भवति' इति दर्शयति॥३१॥
( २१ ) नन्वग्नयादिषु भगवदुपास्तौ अग्नयादिप्राप्तिर्भवतीत्येतत्कुत
इत्यतः सूत्रसूचितां श्रुतिमुदाहरति-तमिति॥ 'तं' परमात्मानं येन येन
प्रकारेण उपासते अधिकारिणः तेन प्रकारेण तदेव रूपं 'भवति' प्राप्नुव
न्तीत्यर्थः। तत्त्वप्रदीपेऽपि 'यादृशो भावितस्वीशस्तादृशो जीव आ
भवेत्' इति तृतीयतात्पर्येक्तेः 'तदेव भवति' तथैव भवति । यत्प्र
कारेणोपास्ते तत्प्रकारेण भवतीत्ययमेवार्थ उक्तः। तत्त्वप्रदीपकारप
क्षे उपासते इत्येकवचनं धात्वन्तरमेतत् । अनेन-यतोऽग्नयादिसूक्ता
दिषु मुख्यतः परब्रह्मण एव प्रतिपाद्यत्वेप्यविरोधः, सूक्तादिनियमो
युज्यते । अतः न तदन्यथानुपपत्त्याऽन्येषां वाच्यत्वं मन्तव्यम् । कथ
मिदं युज्यते ? तैरग्नयादिषु भगवदुपासकानां अग्नयादिसम्पत्तेः प्रा
प्तेः । न च तदसिद्धिः । 'हि' यस्मात्तमिति प्रसिद्धा श्रुतिः । ' तथा '
अग्नयाद्यधिकरणकोपास्त्या अग्नयादिप्राप्तिर्भवतीति 'दर्शयति' प्रति
पादयति । साक्षादिति लौकिकव्यवहारेऽविरोधं वदन् जैमिनिः सूत्रे
षु 'अविरोधं' अनियमाख्यविरोधाभावं नियमं 'मन्यते' वर्णयतीति
सूत्रार्थ उक्तो भवति । यद्यप्युत्तरसूत्रद्वये साधकव्यापारोक्तेरल्पाक्षर
त्वाच्च दृष्टेरिति वाच्यम्, न त्वभिव्यक्तेरिति, तस्या ईश्वरव्यापार
त्वात् । तथाप्यभिव्यक्तिं विना दृष्टेरयोगात्तद्ग्रहणेनोभयलाभात्प्राधा
न्यादीश्वरव्यापार एवोक्तः । यद्यप्यनुस्मृतिशब्दितोपास्यनन्तरम
भिव्यक्तेः तदनन्तरं तत्सम्पत्तेः प्रथममनुस्मृतेरिति वक्तव्यम् । त
थाप्यभिव्यक्तिसम्पत्युभयानन्तरमप्युपास्तिः कार्येति दर्शयितुमनु
स्मृतेर्मध्ये निवेश इति द्रष्टव्यम् । यद्यपि ऋग्भाष्ये—
पृथग्रूपाणि विष्णोस्तु देव्तान्तरगाणि तु।
अग्नयादिशब्दवाच्यानि नाम्ना सूक्तभिदा भवेत् ॥
इत्यग्नयाद्यन्तर्गतविष्णुवाचकाग्नयादिशब्दयोगः सूक्तस्य व्यवस्थापक
उक्तः। तथा चाग्नयादिशब्दास्तत्तत्सूक्तानि च अग्नयादिगतरूपा
ष्वेव मुख्यानि । एवं बहिर्गतरूपेषु च अतीतानागतवर्तमानाग्नयादि
ष्वमुख्यानीति व्यवस्था सिध्यति । तथापि इहाभिव्यक्तिर्वाऽग्नयादि
सूक्तोपासकैरग्नयादिगतत्वेन अनुस्मर्तव्यत्वं वा संप्राप्तिर्वा तत्तत्सू
क्तव्यवस्थापकमित्यनुष्ठानविशेषोपयोगितया सौरसावित्रवामनवि
ष्ण्वादिसूक्तादिव्यवस्थार्थं च व्यवस्थापकान्तरमुक्तमित्यविरोधः ।
२३० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
( २२ ) न ह्यन्योपासकोऽन्यं प्राप्नुत इति युज्यत इत्यत आह—
सू—ॐ ॥ आमनन्ति चैनमस्मिन् ॥ ॐ ॥ ३२ ॥
एनं विष्णुमस्मिन्नग्न्यादावामनन्ति ।
( २३ ) 'योऽग्नौ तिष्ठन्' ( बृ. ५-७-५. ) ' य एष एतस्मि
लौकिकवैदिकव्यवहारयोरग्रथादावुपचरितत्वबीजं तु तयोस्तत्र मुख्य-
त्वाङ्गीकारे 'तथा दृष्ट्युपदेशात्' इत्यनेन सूचित 'सर्वनाम' इत्या-
दिश्रुतिविरोधादिरूपप्रागुक्तानुपपत्तिरिति टीकायामेवोक्तम् ॥
( २२ ) यदुक्तमग्न्यादिसूक्तादिभिः ब्रह्मोपासकस्याग्न्यादिप्राप्तिर्भ-
वतीति तच्छ्रुत्युक्तमपि न युक्तम् । 'मद्भक्ता यान्ति मामपि' इत्यादे-
रन्योपासकस्यान्यप्राप्तेरयोगात् । 'श्रुतोपनिषत्कगत्यभिधानात्' इ-
त्यादौ तदनभ्युपगमाच्चेति भावेनाशङ्क्य तत्परिहारतया सूत्रमवतार्य
व्याचष्टे—न हीति ॥ टीकायामाशङ्कावतार्येत्यन्वयः । शङ्कारूपसूत्रा-
वतारिकां प्रदर्शयेत्यर्थः । 'हि' यस्मादन्योपासकोऽन्यं प्राप्नुत इत्येत-
त्प्रमाणविरोधान्न युज्यते । तस्मादुक्तमयुक्तमित्यर्थः । एनमित्यनुवादे-
न विष्णुमिति व्याकृतम् । अस्मिन्नित्यस्य व्याख्यानमग्न्यादाविति ।
'आमनन्ति' प्रतिपादयन्ति श्रुतय इति शेषः । चशब्दः विष्णूपास-
कस्याग्न्यादिप्राप्तिर्युक्तेति पूर्वपक्षिशङ्काव्यावर्तकः । तेन सिद्धान्ति-
प्रतिज्ञा, अग्न्यादिप्राप्तिपदेन तदन्तर्गतभगवत्प्राप्तेरेव विवक्षितत्वादि-
ति साक्षाद्धेतुश्च सूचितः । तत्त्वप्रदीपे तु—न केवलमेकत्रैवामनन्ति
पठन्ति वाजसनेयाः, किन्त्वन्यत्र 'स यश्चायमस्मिन्' इत्यादौ, एवमं-
न्ये आमनन्ति 'य एष एतस्मिन्' इत्यादौ, अन्ये चामनन्ति 'एतस्या-
म्' इत्यादौ, अन्ये च 'तत्सृष्ट्वा । तदेवानुप्राविशत्' इत्यादौ । स्मर-
न्ति च स्मृतिकर्तारः 'यच्चन्द्रमसि यच्चाग्नौ' इत्यादीनि । समुच्च-
यार्थश्चशब्द इत्युक्तम् ॥
( २३ ) ताः श्रुतीः दर्शयति--य इति ॥ 'योऽग्नौ तिष्ठन्' इत्येकं वा-
जसनेयं वाक्यम् । 'य एषः' इत्यपरं छान्दोग्यवाक्यम् । उभयत्र यच्छ-
ब्दस्य तत्रत्यतच्छब्देनान्वयः । 'तेजोमयः' तेजोरूपः'अमृतमयः' नित्या-
त्मा । आदिशब्देन 'एतमग्नावध्वर्यवः' इत्यादिकं गृह्यते । इत्यादिना
आमनन्तीत्यन्वयः । अनेन-न विष्णूपासकस्याग्न्यादिप्राप्त्युक्तिरयुक्ता ।
कुतः ? अग्न्यादिप्राप्तिपदेन तदन्तर्गतभगवत्प्राप्तेर्विवक्षितत्वात् । न
[ अधि - ७. सू - ३२. ] दीपिकासहितम्. २३१
श्नग्नौ तेजोमयोऽमृतमयः पुरुषः ' ( बृ. ४ - ५ - ३० )
इत्यादिना ॥ ३२ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये प्रथमस्याध्यायस्य
द्वितीयः पादः .
॥ ॐ ॥
च विष्णोरग्न्याद्यन्तर्गतत्वासिद्धिः । यत ' एनं ' विष्णुं ' अस्मिन् '
अग्न्यादौ आमनन्ति श्रुतयोऽत इति सूत्रार्थ उक्तो भवति ॥
इति वैश्वानराधिकरणम्
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वत
न्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपा
दानां शिष्येण श्रीमज्जगन्नाथयतिना
कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदी
पिकायां प्रथमाध्यायस्य
द्वितीयः पादः
॥ ॐ ॥
-like curve or is it र्ति?
Wait, look at: र्ति विषयवाक्य...
Wait, why does line 15 end with:
श्रुत्यादिसङ्क?
Wait, is line 15 end श्रुत्यादिसङ्क or श्रुत्यादिसङ्ग?
Wait! Look at line 16 first character:
It has: a curve at top, a vertical line, an i-matra... wait, is that तिं?
Wait, look at:
श्रुत्यादिसङ्गतिं - if it was split: श्रुत्यादिसङ्ग- at end of line 15, and तिं at start of line 16?
Wait, look at line 16 start:
It looks like: र्ति with an anusvara?
Wait, why would there be a repha on तिं?
Wait, could it be श्रुत्यादिसङ्कीर्तिं?
Let's look at the end of line 15:
श्रुत्यादिसङ्क - wait, the letter is क or ग?
In Devanagari, सङ्क has ङ् + क. But here, look at: सङ्क? No, it's सङ्क or
inजीवलिङ्गाच्च: Look at जीवलिङ्गाच्च: ग ा च्च! Look at the च्चinजीवलिङ्गाच्चon line 6: It has a top part and a bottomच! Now look at line 14: Does it look identical to the च्चinजीवलिङ्गाच्च? YES! It is IDENTICAL to the च्चin line 6जीवलिङ्गाच्च! Aha! Look at line 6: जीवलिङ्गाच्च! The ligature च्चin this typeface has that exact shape! So it ISतच्च! Not तश्च! What a great catch! Comparing with जीवलिङ्गाच्चin line 6 makes it 100% indisputable: it isतच्च`!
Now let's check प्रदीपरित्या vs प्रदीपरीत्या:
Look at दी: it has an ी (dirgha i).
Now look at प: it has nothing.
Now look at र: does it have an ि (hrasva) or ी (dirgha)?
Look at the top stroke: it curves to the LEFT! That is a hrasva ि!
Wait, look at line 14:
तच्चप्रदीपरित्या - wait, does the stroke go to the left?
२३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( ३ ) अत उच्यते—
सू—ॐ ॥ द्युभ्वाद्यायतनं स्वशब्दात् ॥ ॐ ॥ १ ॥
‘तमेवैकं जानथ आत्मानम्’ (मु. २-२-५.) इत्यात्म
शब्दात् द्युभ्वाश्रयो विष्णुरेव ।
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न सम्भवन्ति यस्मात्तैर्नैवाप्ता गुणपूर्णता ॥
इति ब्रह्मवैवर्ते ॥ १ ॥
( ४ ) सू—ॐ ॥ मुक्तोपसृप्यव्यपदेशात् ॥ ॐ ॥ २ ॥
त्यन्तरार्थः । सिद्धान्ते तु रुद्रादिशब्दा विष्णुपराः । य एष जीवो
‘बहुधा’ बहुशरीरेणोत्पद्यमानः शरीरान्तःसञ्चारीत्याथर्वण श्रु
त्यथः ॥
( ३ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे--अत इति ॥ सौत्रस्वशब्द
स्य स्वशब्दपर्यायात्मशब्दादिति विष्णुतत्त्वनिर्णयोक्तेः, स्वेतिशब्दः
स्वशब्द इति व्युत्पत्त्या स्वशब्दपर्यायात्मशब्दग्राहित्वं विष्णोः स्वरूप
स्यैव साक्षाद्वाचको ह्ययमात्मशब्द इति तत्त्वप्रदीपोक्तेः, स्वस्य वि
ष्णोरेव वाचकः शब्दः स्वशब्द इति विग्रहाश्रयेण च आत्मशब्दप
रामर्शित्वमाश्रित्य स्वशब्दादित्येतदात्मशब्दादिति व्याख्यातम् । तथा
च ‘इत्यात्मशब्दात्’ इत्यात्मशब्दश्रवणादित्यर्थः । द्युभ्वाद्याश्रय इ
त्यनेनायतनशब्दो व्याख्यातः । क्वचिदायतनशब्दस्यैव पाठः । वि
ष्णुरेवेत्यनेन समन्वयसूत्रानुवृत्तं तत्त्वित्येतत् श्रुत्यनुसारालिङ्गविपरि
णामेन व्याख्यातम् । अनेन-‘स्वशब्दात्’ विष्णुवाचिस्वशब्दपर्याया
त्मशब्दात् स्वशब्दात् ‘द्युभ्वाद्यायतनं’ स्वर्गभूम्यादिसर्वाश्रयः ‘त
त्तु’ विष्णुरेवेति सूत्रार्थ उक्तो भवति ॥
आत्मशब्दादपि कुतोऽयं विष्णुरित्यत आह—आत्मति ॥ य
स्मात् ‘तैः’ विष्णोरितरैश्चतुर्मुखादिजीवैः गुणपूर्णता ‘नैवाप्ता’ न
सर्वथा प्राप्ता । तस्मादात्मब्रह्मादयः शब्दाः ‘अव्ययं’ नित्यनिरति
शयप्रवृत्तिनिमित्तवन्तं विष्णुं ‘ऋते’ विना तदन्यं ‘न सम्भवन्ति’
न मुख्यतो वाचकत्वेन प्राप्नुवन्तीत्यर्थः । अनेनात्मशब्दस्यापि गुण
पूर्तिरर्थ इत्युक्तं भवति । ब्रह्मवैवर्ते इत्यनन्तरमन्यत्र निरवकाशतयो
क्तादिति शेषः । तस्यात्मशब्दादित्यनेनान्वयः ॥
( ४ ) ननु विष्णौ मुख्योऽप्यात्मशब्दो जायमानत्वरूपजीवलिङ्ग
[ अधि - १. सू - २. ] दीपिका सहितम्. २३५
'अमृतस्यैष सेतुः' (मु. २-२-५.) इति ।
(५) ब्रह्मविदाप्नोति परम् । (तै. २-१.) 'नारायणं महाज्ञे
यं विश्वात्मानं परायणम्' (महाना. ११.) 'मुक्ता
नां परमा गतिः' 'एतमानन्दमयमात्मानमुपसङ्क्राम
ति' (तै. २-८.) इत्यादिना तस्यैव मुक्तप्राप्यत्वव्य
पदेशात् ।
बलादमुख्यार्थः किं न स्यात् । तथा च न ततो विष्णोर्द्युभ्वाद्यायतन
त्वनिर्णय इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदुपान्तश्रुतिमेवोदाहर
ति—मुक्तेति ॥ इति मुक्तप्राप्यत्वव्यपदेशादित्यन्वयः । सूत्रे द्युभ्वा
द्यायतनस्येति विपरिणामेन अनुवर्तनीयम् । मुक्तोपसृप्येति भावनिर्दे
शः। उपसृप्यत्वं चेह श्रौतसेतुशब्दबलात्प्राप्यान्तररहितत्वे सति प्राप्य
त्वं विवक्षितम् । नत्वर्चिरादिवत्प्राप्यत्वमात्रम् । तथा च—द्युभ्वाद्याय
तनस्य 'अमृतस्य' इति मुक्तोपसृप्यत्वोक्तेर्विष्णुत्वनिश्चयान्नात्मश
ब्दस्यामुख्यार्थत्वमाश्रित्य विष्णोरन्यत् द्युभ्वाद्यायतनं कल्प्यमिति ।
'मुक्तानाम्' इति स्मरणादमृतस्येति जातावेकवचनम् । तथा च
'अमृतस्य' मुक्तजातस्य 'एषः' परमात्मा 'सेतुः' सेतुरिव सेतुर्मु
ख्याश्रय इत्यर्थः ॥
(५) ननु द्युभ्वाद्यायतनस्य मुक्तप्राप्यत्वं कुतः विष्णुत्वनिश्चाय
कमित्याशङ्कापरिहारकतयाऽपि सूत्रं व्याचष्टे—ब्रह्मविदिति ॥ 'इत्या
दिना' वाक्येन 'तस्य' विष्णोः । एवेत्यनेन प्राप्यत्वं प्राप्यान्तररहि
तत्वे सति प्राप्यत्वम् । अनेन द्युभ्वाद्यायतनस्य मुक्तोपसृप्यव्यपदे
शात्तस्य विष्णोरेव मुक्तोपसृप्यत्वव्यपदेशादित्यावृत्त्या सूत्रं व्याख्या
तम् । प्रधानसूत्रेऽनुवृत्तं तत्त्वित्येतदिह विपरिणामेन अनुवर्तनीयमि
ति सूचितम् । उपसृप्यपदं भावप्रधानं कृत्वा व्याख्यातम् । एवकारो
लिङ्गस्यान्यनिष्ठत्वव्यवच्छेदकः । 'ब्रह्मवित्' विष्णुज्ञानी मुक्तस्सन्
'परं' विष्णुमाप्नोतीति तैत्तिरीयश्रुत्यर्थः । 'नारायणम्' इति तैत्तिरी
योपनिषदि महोपनिषदि च श्रुतम् । अत्र 'तद्विश्वमुपजीवति' इत्य
नुवर्तते । तथा च 'तद्विश्वं' जगत् महनीयं ज्ञेयं, पूज्यज्ञेयं वा । वि
श्वस्वामिनं 'परायणं' मुक्तानामाश्रयमुपजीवतीति श्रुत्यर्थः । 'मु
क्तानां परमा गतिः' इति सहस्रनामगतमेकं नाम । परमा मुख्या
गम्यत इति गतिराश्रयः । 'एतम्' इति तैत्तिरीयवाक्यमानन्दमयन ]
२३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ।
योगी तावन्न मुक्तस्स्यादेष शास्त्रविनिर्णयः ॥
इत्यादिद्युपुराणे ॥ २ ॥
( ६ ) सू-ॐ ॥ नानुमानमतच्छब्दात् ॥ ॐ ॥ ३ ॥
ये व्याकृतम् । आदिपदेन 'एतमानन्दमयमात्मानमुपसङ्क्रम्य' 'परमं
यः परायणम्' इत्यादिकं गृह्यते ॥
ननूदाहृतवाक्यैरस्तु विष्णोः मुक्तप्राप्यत्वं, तथाप्यतान्यव्यव
च्छेदाभावाद्विष्णुवदन्यस्य मुक्तप्राप्यत्वं किं न स्यादिति लिङ्गस्य
सावकाशत्वमाशङ्क्य अन्यत्र प्राप्यत्वमात्रसम्भवेऽपि निरुक्तोपसृप्य
त्वं सौत्रमुक्तशब्दितविवक्षितमुक्त्युपेतजीवप्राप्यत्वं चान्यत्र निरव
काशमिति प्रमाणेनाह— बहुनेति ॥ 'अत्र' प्राप्यमोक्षतत्साधनविषये 'ब
हुनोक्तेन' इदमिदं चेति प्रत्येकं बहुना वचनेन 'किं प्रयोजनं' न कि
मपि, प्रत्युतोक्तिगौरवमेवेति भावः । तर्हि कथं निर्णय इत्यत आह—
यावच्छ्वेतमिति । 'श्वेतं' श्वेतद्वीपाख्यं विष्णुस्थानं 'यावन्न गच्छ
ति' न प्राप्नोति, तत्रत्यं विष्णुं च न पश्यति 'तावद्योगी' अपरोक्षज्ञा
नाख्योपायवान् मुक्तो न स्यात् । भगवदिच्छारूपावरणान्मुक्तः सम्य
गाविर्भूतज्ञानानन्दादिमान् न भवेदिति 'एषः'उपदेशः'शास्त्रविनिर्णयः'
शास्त्रतत्त्वविषयकनिर्णयसाधनमित्यर्थः । एषोऽर्थः 'शास्त्रविनिर्णयः' त
ज्जन्यनिर्णयविषय इति वा । भावबोधे तु—सूत्रे पुराणे च मुक्तपदेन
लिङ्गभङ्गवान् विवक्षित इत्युक्तम् । अत्र श्वेतद्वीपागन्तुरमुक्तत्वो
क्त्या श्वेतद्वीपं प्राप्तस्यैव मुक्तत्वं ज्ञायते । तथा च तत्स्थितस्य वि
ष्णोरेवेतरव्यवच्छेदेन मुक्तप्राप्यत्वं सिद्धमिति भावः । इत्यादित्यपु
राणे इत्यस्य तस्यैव मुक्तप्राप्यत्वव्यपदेशादित्यनेनान्वयः । अनेन त
स्यैवेत्येवकारस्योपयोगो ज्ञापितो भवति । अस्य हेतोर्न लिङ्गस्य सा
वकाशत्वं शङ्क्यमित्यध्याहृतसाध्येनान्वयः ॥
( ६ ) ननु प्रागुक्तरीत्या रुद्रप्रकृत्योर्द्युभ्वायतनत्वं किं न स्यादि
त्यतस्तत्साधकाभावान्न तयोरित्याह सूत्रकृत्—नानुमानमिति ॥
अत्र नानुमानमिति साध्यांशं व्याचष्टे—नानुमानात्मकेति । 'अनुमा
नप्राप्तप्रामाण्यासदागमोऽनुमात्मकः' इति तत्त्वप्रदीपोक्तेः अनुमानात्म
के अनुमानसिद्धप्रामाण्यके पाशुपताद्यागमे सर्वाश्रयत्वेन कल्पितो
[ अधि - १. सू - ३ . ] दीपिकासहितम्. २३७
नानुमानात्मकागमपरिकल्पितरुद्रोऽत्र वाच्यः ।
(७) भस्मधरोग्रत्वादितच्छब्दाभावात् ।
बोधित इत्यर्थः । केचित्तु—प्रमाणत्वेन अनुमीयत इत्यनुमानमिति
व्याचख्युः । एतत्पक्षे आत्मशब्दवैयर्थ्यं, तत्त्वप्रदीपटीके विरुद्धे । रु-
द्रपदं प्रधानादेरुपलक्षकम् । प्रधानसूत्रादनुवृत्तेन द्युभ्वाद्यायतनपदेनो-
पस्थापितं नञर्थप्रतियोगिनं दर्शयति—अत्रेति । द्युभ्वाद्यायतनप्रकर-
ण इत्यर्थः । 'वाच्यः' प्रतिपाद्यः । सर्वाश्रयत्वेनेति शेषः ॥
(७) एवं सूत्रे प्रतिज्ञांशं व्याख्याय हेत्वंशं व्याचष्टे—भस्मधरे-
ति ॥ तस्य रुद्रस्य शब्दस्तच्छब्दः । तच्छ्रुतिलिङ्गात्मकः । तथा च
भस्मधरोग्रत्वादिधर्मविशिष्टधर्मिबोधकभस्मध्रोग्रादिशब्दाभावादि-
२३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
(८) सोऽन्तकः स रुद्रः स प्राणभृत्स प्राणनायकः स ई
शो यो हरिर्योऽनन्तो यो विष्णुर्यः परोवरीयान् ’ इ
त्यादिना प्राणग्रन्थिरुद्रत्वादेर्विष्णोरेवोक्तत्वात् ।
( ९ ) ब्रह्माण्डे च—
द्युमच्यते । एवमानुमानमिति पदच्छेदेऽप्यणन्तात्पुनरन् कार्यः । तत्र
प्रथमानन्तपदेनागम उच्यते । द्वितीयेन प्रतिपाद्यत्वम् । तथा च अ
नुमानात्मकपाशुपताद्यागमप्रतिपाद्यं रुद्रादिकं न द्युभ्वाद्यायतनं न
‘यस्मिन्’ इत्यादिप्रकरणे सर्वाश्रयत्वेन प्रतिपाद्यं, कुतः ? ‘अत
च्छब्दात्’ रुद्रप्रधानादिसाधकश्रुतिलिङ्गाद्यभावादिति सूत्रार्थ उ
क्तो भवति ॥
(८) नन्वाथर्वणे रुद्रादिज्ञापकाभावेऽपि अत्रोक्तप्राणाधारत्वप्रतिपा
दिकायां ‘प्राणानां ग्रन्थिरसि रुद्र’ (महाना-३५०) इत्यादिसमाख्याश्रु
तौ रुद्रादिशब्दानां अन्तकत्वादिलिङ्गानां चोक्तत्वात्तद्बलात्तत्रोक्तं द्यु
भ्वाद्यायतनत्वं रुद्रादेः किं न स्यादित्यत आह—स इति ॥ योऽन्तकस्संह
र्ता स एव तच्छब्दवाच्यः श्रुतः स विष्णुरेव । यो रुद्रः श्रुतः सोऽपि
विष्णुरेव । यः ‘प्राणभृत्’ प्राणाधारत्वबोधकप्राणग्रन्थिशब्दवाच्यः,
सोऽपि विष्णुरेव । यः ‘प्राणनायकः’ तत्स्वामी ततएव प्राणेशशब्दि
तः सोऽपि विष्णुरेव । य ईशः श्रुतः सोऽपि विष्णुरेव । योऽनन्तस्त
च्छब्दवाच्यः सोऽपि त्रिविधपरिच्छेदशून्यत्वाद्विष्णुरेव, न शेषः । यः
परोवरीयान् सोऽपि रुद्रादेः परतो वाण्यादेः पराद्विरिञ्चात् परतः
प्रकृतेः परत्वाद्धरिरेव नान्य इति श्रुत्यर्थः । अत्रान्तराधिकरणोदाहृत
चतुर्वेदशिखावाक्ये च ‘परस्मादुत्तमं प्रोक्तम्’ इति वचनानुसारेण
परपरतरवरवरतमानां चतसृणां प्रत्यायनाय वृत्तिवाक्ये सुबादेश
स्य सोरुत्वोत्वगुणसमानशब्दा ज्ञातव्याः । प्रत्युद्देश्यं विधेयान्वयज्ञाप
नाय बहूनां यत्तदां प्रयोगः । ‘इत्यादिना’ श्रुत्यन्तरवाक्येन ‘प्राणग्र
न्थिरुद्रत्वादेः’ प्राणग्रन्थित्वलिङ्गस्य रुद्रशब्दवाच्यत्वस्य च तस्यैव
विष्णोरेवोक्तत्वादित्यर्थः । प्राणेश्वरादिशब्दवाच्यत्वमन्तकत्वादिलिङ्गं
चादिशब्दार्थः । प्रकृतिश्रुतिलिङ्गादेरप्युपलक्षकमेतत् । न तु रुद्रादेरि
त्येवकारार्थः । एवकारेणान्यत्रामुख्यतस्सत्त्वमनुमन्यते । उक्तत्वादि
त्यस्य ‘न रुद्रादिश्रुतिलिङ्गविरोधः’ इत्यध्याहृतसाध्येनान्वयः ॥
(९) ननु तथाऽपि न प्राणाधारत्वद्युभ्वाद्यायतनत्वबोधकसमाख्याश्रु
[ अधि - १०. सू - ३०. ] दीपिकासहितम्. २३९
रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दनः ।
ईशनादेव चेशानो महादेवो महत्त्वतः ॥
पिबन्ति ये नरा नाकं मुक्तास्संसारसागरात् ।
तदाधारो यतो विष्णुः पिनाकीति ततः स्मृतः॥
शिवः सुखात्मकत्वेन शर्वः शंरोधनाद्धरिः ।
कृत्यात्मकमिमं देहं यतो वस्ते प्रवर्तयन् ॥
कृत्तिवासास्ततो देवो विरिञ्चश्च विरेचनात् ।
बृंहणाद्ब्रह्मनामासौ ऐश्वर्यादिन्द्र उच्यते ॥
(१०) एवं नानाविधैश्शब्दैः एक एव त्रिविक्रमः ।
तौधिष्ण्योः प्रतिपाद्यत्वनिश्चयः । तत्रत्यानां रुद्रादिशब्दानां पशुपत्यादा
वेव रूढत्वेन विष्णौ तदभावात्, भावे वा पुनरनिश्चयात् । विष्णौ यो
गवृत्तिसम्भवेऽपि तस्या रूढितो दुर्बलत्वेना
२४० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
वेदेषु सपुराणेषु गीयते पुरुषोत्तमः ॥ इति ।
( ११ ) वामने च -
न तु नारायणादीनां नाम्नामन्यत्र सम्भवः ।
अन्यनाम्नां गतिर्विष्णुः एक एव प्रकीर्तितः ॥
इति ।
( १२ ) स्कान्दे च -
ऋते नारायणादीनि नामानि पुरुषोत्तम ।
प्रादादन्यत्र भगवान् राजेवार्ते स्वकं पुरम् ॥ इति ।
ह—एवमिति ॥ निमित्तैरित्यध्याहार्यम् । तथा च 'एवं' उक्तरीत्याना
नाविधैर्निमित्तैः सपुराणेषु वेदेषु गतैः एतैर्नानाविधैः शब्दैर्विष्णुरेक एव
'गीयते' मुख्यतोऽभिधीयत इत्यर्थः । कथमन्यत्रादृष्टं सर्वशब्दमुख्य
वाच्यत्वमस्येत्यतः 'पुरुषोत्तमस्त्रिविक्रमः' इत्याभ्यां तत्रोपपादकमु
क्तम् । त्रिभुवनार्थशब्दव्यापी हि त्रिविक्रमः । सर्वपुरुषशब्दनिमित्त
कस्वामी हि पुरुषोत्तमः । तथा चानेन विष्णौ रुद्रादिशब्दानां महायो
गविद्वद्रूढिकथनात् तयोश्च रूढिमात्रात्प्राबल्याद्युक्तः समाख्याश्रुत्यन्त
रेऽपि विष्णोः प्रतिपाद्यत्वनिश्चय इति भावः । 'पुरुषोत्तम इति' इत्य
न्तस्य 'ब्रह्माण्डे' इति पूर्वेणान्वयः ॥
( ११ ) ननु यदि रुद्रादिशब्दानां विष्णुपरत्वमुक्त्वा 'रुद्रो माऽऽविशान्त
कः' इत्यादिश्रुतीनामनिर्णायकत्वमुच्यते, तर्हि नारायणादिनाम्नां रुद्रा
दिपरत्वेन 'नारायणं महाज्ञेयम्' ( महाना-११० ) इत्यादिश्रुतीनामनि
र्णायकत्वं च स्यादित्यत आह-वामने चेति ॥ चोऽप्यर्थे । अस्याप्युक्तत्वा
दविरोध इति पूर्वेणान्वयः । किमुक्तमित्यतस्तद्वाक्यं पठति-न त्वि
ति। तुरवधारणे । 'नारायणादीनां' नारायणइत्यादीनामन्यत्र रुद्रादौ
सम्भवो मुख्यवृत्तिः अस्तीति शेषः। 'अन्यनाम्नां' रुद्रादिशब्दानां 'वि
ष्णुरेक एव गतिः' मुख्यवाच्यः प्रकीर्तित इत्यर्थः । इतिशब्दस्य वाम
न इत्यनेनान्वयः । तस्य नारायणादिनाम्नां अन्यत्र निरवकाशत्वोक्तेः
न तच्छ्रुतीनामनिर्णायकत्वमिति विवक्षितसाध्येनान्वयः ॥
( १२ ) भगवन्नामत्वाविशेषाद्रुद्रादिनामवन्नारायणादिनाम्नामपि रु
द्रादौ वृत्तिः किं न स्यादित्यत आह-स्कान्दे चेति ॥ चोऽप्यर्थः समु
च्चये । अस्याप्युक्तत्वादिति पूर्वेणान्वयः । किमुक्तमित्यतस्तद्वाक्यं प