पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
१३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ५ ) सू—ॐ ॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ ॐ ॥ २६ ॥
त्र्यादिसर्वशब्दवाच्यः । 'एवमसौ' विष्णुः सर्वदेवतावाचकाग्न्या-
दिशब्दवाच्यः । तथा 'एषः' विष्णुः सर्वलोकवाचकपृथिव्यादिशब्द-
वाच्य इत्यर्थः । कुत इत्यतः छन्दादीनां भगवदधीनत्वादिति प्रत्ये-
कं हेतुत्रयसूचनाय हिशब्दत्रयं, वेदप्रसिद्धिज्ञापनाय वा । छन्दसां
लोकानां च प्रत्यक्षत्वात् देवानां च परोक्षत्वादेषोऽसाविति विचित्रो-
क्तिः । कथं तर्ह्यन्यत्र व्यवहार इत्यत आह—तेषामिति । छन्दोदेव-
लोकानामित्यर्थः । 'तत्' तच्छब्दबोध्यत्वं 'उपचारतो' विष्णुसमी-
पे चरणात्तदधीनत्वादमुख्यत एवेत्यर्थः । वामन इत्यस्य 'हि' यतो
वामने इति 'दर्शनं' प्रतिपादनम
[ अधि - ११. सू - २६. ] दीपिकासहितम्. १३७
( ६ ) 'तावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' (छा.
३ - १२ - ६.) इति ।
( ७ ) सुवर्णं कोशं रजसा परीवृतम् । देवानां वसुधानीं
क्तम्' (छां. ३-१२-५.) इति 'तदेतत्' भगवतश्चतुष्पादत्वं 'ऋचा'
ऋङ्मन्त्रेण 'अभि' निश्शङ्कं स्पष्टं 'अनु' आनुकूल्येनोक्तमित्यर्थः ॥
( ६ ) किमुक्तमित्यतस्तन्मन्त्रं पठति—तावानिति ॥ यद्यपि ऋचि
'एतावान्' इति 'विश्वा' इति च पाठः । तथाऽपि शाखान्तरपाठोऽयमि-
त्यदोषः । 'अस्य' पुरुषस्य 'पुरुष एवेदं सर्वम्' (तै. आ. ३-१२.) इत्युक्ता
यस्सर्वेशानत्वादिरूपः तावान्महिमोक्तः, न केवलमेतावान्, किन्तु,
पुरुषः 'ततः' पूर्वोक्तादपि महिम्नो 'ज्यायान्' अधिकमाहात्म्योपेत
इत्यर्थः । ज्यायस्त्वमेव दर्शयति—पादोऽस्येत्यादिना । 'सर्वा भूतानि'
सर्वं विश्वं 'अस्य' विष्णोरेकः 'पादः' पादवत्पादो भिन्नांशः । यद्य-
पि तत्त्वप्रदीपे—विश्वभूतविधिर्भाति । तथापि टीकायां-सर्वाणि भू-
तान्यस्यैकः पाद इति पादविधानदर्शनात्, चन्द्रिकायां-'पश्वेकत्व-
वत् विधेयगतत्वात्पादैकत्वं विवक्षितम्' इत्युक्तत्वाच्च, तत्त्वप्रदीपो-
प्येवमेव व्याख्येयः । अस्य 'अमृतं' नाशरहितं अतएव स्वरूपभूतं
'त्रिपात्' त्रयाणां पादानां अंशानां समुदायो नारायणवासुदेववैकु-
ण्ठसंज्ञं त्रिषु रूढ्या द्योतमानत्वाच्च द्युशब्दवाच्येषु श्वेतद्वीपानन्तास-
नवैकुण्ठेषु तिष्ठतीति ऋचोक्तमित्यर्थः । यद्यपि भूतशब्दो 'भिन्नपाद-
स्सर्वजीवाः' इति छान्दोग्यभाष्ये जीवपरतया व्याख्यातः । तथाऽपि
'सुवर्णम्' इति श्रुत्यनुसारेण अत्र विश्वार्थतया व्याख्यातव्यः ॥
( ७ ) ननु गायत्र्यामिव विष्णावपि भूतादिपादत्वोक्तिरनुपप-
न्ना । तस्य भूतभिन्नत्वादित्यत आह—सुवर्णमित्यादि ॥ 'सुवर्णम्'
इत्यारभ्य 'भिन्नं च' इत्यन्तमेकवाक्यतयाऽर्थक्रमेण व्याख्येयम् । य-
ज्ञदत्तस्य, देवदत्तः, इत्युच्यते, विश्वमिति च शेषः । पाद इति चाव-
र्तते । चशब्द एवार्थे हेतौ च । एकदेशपरिमितमिति हेतुगर्भमावर्तनी-
यम् । तथा च 'चो' यतः श्रुतिस्थेन पाद् इति शब्देन न भूतानामित्य-
मृतपादत्रयवत्स्वरूपांशत्वमुच्यते । येनानुपपत्तिः स्यात् । किन्तु, य-
ज्ञदत्तस्य चतुर्भागबलो देवदत्त इतिवद्भिन्नमेव विश्वम् । यतः 'परि-
१८
ीरानभो"?
Wait, "समीरण"? Air = समीरण!
Look at the letters:
स (sa) - म (ma) - ी (ī) - र (ra) - णा (ṇā) - न् (n) - भो (bho)?
WAIT!
Look at:
त (ta) - look at the letter before: क्षि (kṣi).
Is it "र-जो-गु-णो-प-ल-क्षि-त-"?
Wait, what is before समीरण?
अप् (water), तेजस् (fire)!
Could it be "अब्-तेजः-समीर"?
Wait, look at the glyphs:
Letter 1 after क्षि:
त (ta)
Letter 2:
ा (aa)? Wait, is it ा, or is it a vertical line of something else?
Wait, look at:
"अब्" - does it have अब्?
Look at:
त (ta) with what?
Wait! Could it be:
"तावच्छरीरानभो"?
No, why शरीर? The text says:
"विराजं ब्रह्मणः शरीरं" in the very next line (L18)!
Wait! In L16-17:
"'रजसा परीवृतं ' रजोगुणोपलक्षिता..."
Wait, what does "रजसा परीवृतम्" mean in the Upanishad?
Mantra: "सुवर्णं कोशं रजसा
[ अधि - १०. सू - २६. ] दीपिकासहितम्. १३९
(८) स हि पुरुषसूक्ताभिधेयः । ‘यज्ञेन यज्ञमयजन्त’
(तै. आ. ३-१२.) इति यज्ञशब्दात् । ‘यज्ञो विष्णु
र्देवता’ ( श्रुत्यन्तरम्.) इति हि श्रुतिः।
(९) तस्मिन् काले महाराज राम एवाभिधीयते ।
(८) स्यादेतदेवं यदि ‘तावान्’ इत्यस्यामृचि विष्णुरभिधीय
त इत्यत्र प्रमाणं स्यात्, तदेव नास्ति, अतो लिङ्गमन्यनिष्ठं भविष्यती
त्यतः सौत्रचशब्देन भूतादिपादत्वस्य विष्णुलिङ्गत्वे साध्ये पुरुषसू
क्तोक्तत्वादिति यदनुमानं सूचितं तस्याप्रयोजकत्वमाशङ्क्य परिहर
ति—स हीति ॥ ‘हि’ यस्मात् ‘सः’ विष्णुरेव ‘पुरुषसूक्ताभिधेयः’ त
त्प्रतिपाद्यः तस्मात्स एव पुरुषसूक्तोक्तभूतादिपादोऽपीति योजना। अ
न्यथा भूतादिपादत्वस्य विष्णुधर्मत्वाभावे पुरुषसूक्तप्रतिपाद्यत्वं न
स्यादिति भावः। यद्वा—गायत्र्या विष्णुत्वे साध्ये सूत्रे भिन्नक्रमेणा
न्वितचशब्दसूचितयुक्त्यन्तरमाह-स हीति। अस्य तस्माद्गायत्री वि
ष्णुरेवेति प्रधानप्रतिज्ञावाक्येनान्वयः। चतुष्पदेत्युक्तगायत्रीचतुष्पा
दत्वस्य पुरुषसूक्तमन्त्रेणोपपादनात् तत्प्रतिपाद्यत्वे तदुपपाद्यगाय
त्रीशब्दार्थताऽपि तस्यैव प्राप्नोतीति भावः। पुरुषसूक्तोक्तस्य विष्णु
त्वं कुत इत्यत आह—यज्ञेनेति । देवाः ‘यज्ञेन’ ज्ञानकर्मात्मकेन रुद्रा
ख्यपशुना वा ‘यज्ञं’ विष्णुं ‘अयजन्त’ अपूजयन्निति श्रुत्यर्थः । इति
यज्ञशब्दादिति । इति वाक्ये यज्ञशब्दश्रवणादित्यर्थः । यज्ञशब्दः कथं
विष्णुत्वनिश्चायक इत्यतो शिष्टरूढ्येत्याह—यज्ञ इति । ‘हि’ यतः य
ज्ञ इति पदेन विष्ण्वाख्या देवतोच्यत इत्यर्थः । यद्यपि ‘यज्ञो वै वि
ष्णुः’ इत्यध्वर्यूणां श्रुतिः । तथाऽपि श्रुत्यन्तरमिदमित्यदोषः ॥
(९) ननु पुरुषसूक्तं न विष्णुप्रकरणं, किन्त्वन्यप्रकरणमेव । न
च यज्ञश्रुतिविरोधः। पशुरूपान्यप्रकरणे तदन्यविष्णुश्रुतेः अयोगादि
तिवाच्यम् । तस्याः प्रासङ्गिकत्वसम्भवात् । न च तत एव भूतादिपाद
त्वस्य विष्णुलिङ्गत्वनिश्चयः । तथाऽप्यसिद्धिः । ‘पादोऽस्य विश्वा भू
तानि’ इति श्रुतेर्भूतादिपादे यज्ञश्रुतेरभावादित्यतः पुरुषसूक्तोक्तस्य
विष्णुत्वे स्मृतिञ्चाह—तस्मिन्निति ॥ महाराजेति कस्यचित्सम्बो
धनं रामविशेषणं वा । तथात्वे दीर्घस्स्यात् । तथा च हे महाराज ‘त
स्मिन्’ त्रेतायुगे सर्वैः पुरुषनामभी राम एवाभिधीयते इत्यर्थः । अतए
वांशाधिकरणे—
१४० ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - १.]
यथा हि पौरुषे सूक्ते विष्णुरेवाभिधीयते ।
इति च स्कान्दे ॥
(१०) सू—ॐ ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यवि-
रोधात् ॥ ॐ ॥ २७ ॥
'त्रिपादस्यामृतं दिवि' (छां.३-१२-६.) इति पूर्वोपदे-
शः। 'परो दिवः' (छां.३-१३-७.) इति पञ्चम्यन्तः पश्चिमः।
नक्षत्रमानगणितं त्रयोदशसहस्रकम् ।
ब्रह्मलोकसमं चक्रे समस्तं क्षितिमण्डलम् ॥
रामोराम इति ह्याख्या सर्वेषामभवत्तदा ।
सर्वो राममयो लोको यदा रामस्त्वपालयत् ॥
इति स्कान्दे इत्युक्तं तत्त्वप्रदीपे । अत्र दृष्टान्तमाह—यथेति । यथा
कृत्स्ने पौरुषे सूक्ते विष्णुरेव न त्वन्यः । पशुः नरः प्रासङ्गिकतयाऽ
भिधीयते इत्यर्थः । अनेन सिद्धस्यैव दृष्टान्तत्वात्पुरुषसूक्तस्य विष्णु
परत्वं सिद्धमिति भावः । स्कान्द इत्यनन्तरं एतदुक्तमिति शेषः । अ
स्य स हीति पूर्ववाक्येनान्वयः ॥
(१०) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—उपदेशेति ॥ 'उ
पदेशयोः' सप्तमीपञ्चमीयुतवाक्ययोः 'उपदेशेन' गायत्रीज्योतिषोः
द्युस्थत्वदिवःपरत्वरूपविरुद्धधर्मोक्त्या 'भेदात्' विरोधात् न द्वयो
र्विष्ण्वाख्यं एकं वस्तु प्रतिपाद्यं, किन्तु भिन्नमेवेति चेत्—न, किन्तु
'उभयस्मिन्' उभयत्राप्युपदेशे एकमेव प्रतिपाद्यं, कथं ? अविरोधा
त् । त्रिसप्तलोकापेक्षया सप्तमीपञ्चम्योः एकार्थत्वेन विरोधाभावा
दिति सूत्रयोजनामभिप्रयन्नाक्षेपांशं तावद्व्याचष्टे—त्रिपादिति । 'पू
र्वोपदेशः' पूर्वोक्तिः । 'पश्चिमः' पश्चात्तनः उत्तर उपदेशस्तद्भिन्नोऽ
स्तीति शेषः । विरोधस्फोरणाय पञ्चम्यन्त इत्याद्युक्तिः । उपक्रमग
तस्य प्राबल्योपपादनाय पूर्व इत्युक्तिः । ततः किमित्यत आह—तस्मा
दिति । यस्मादेवं भिन्नोपदेशद्वयमस्ति तस्मादत्रोपदेशद्वये गायत्री
ज्योतिश्शब्दाभ्यां नैकं वस्तु विष्ण्वाख्यमुच्यते । कुतः ? यतोऽत्र 'नैकं'
अनेकं वस्तु द्युस्थत्वदिवःपरत्वरूपं धर्मद्वयमुच्यते । किन्त्वत्र 'नै
कं' अनेकं वस्तुद्वयमुच्यते इति योजना । सिद्धान्तयत्सूत्रांशं व्याच
ष्टे—नेति । नात्र वस्तुद्वयमुच्यते इत्यर्थः । किं त्वितिशेषः, एकं वस्तु
च्यते इति अनुषज्यते । उभयस्मिन्निति साध्यान्तर्गतम् । अपिशब्दो
[ अधि - ११. सू - २७. ] दीपिकासहितम्. १४१
तस्मान्नैकं वस्त्वत्रोच्यते इति चेत्-न, त्रिसप्तलो
न केवलमेकत्र, किन्तुभयत्रापीति समुच्चये। तथाच किन्तुभयस्मिन्
अप्युपदेशे एकमेव विष्ण्वाख्यं वस्तुच्यते इति योजना। विरोधात्क
थमेतद्युज्यते इत्यत आह—त्रिसप्तलोकापेक्षयेति। त्रिलोकविवक्षया
सप्तलोकविवक्षया च 'अविरोधात्' उभयत्राप्येकवस्त्वभिधाने वि
रोधाभावादित्यर्थः। अयं भावः—यदा भूर्भुवस्स्वरिति लोकत्रयविव
क्षा, तदा लक्षयोजनोच्छ्रितान्तरिक्षाख्यभुव उपरितनस्य सर्वस्यापि
द्युत्वात् श्वेतद्वीपानन्तासनवैकुण्ठानां चान्तरिक्षादुपरितनत्वात्तत्रत्यं
नारायणवासुदेववैकुण्ठाख्यं त्रिपाच्छब्दोक्तं रूपत्रयं दिवि तिष्ठतीत्यु
च्यते इति न सप्तम्यन्तोपदेशविरोधः। न
१४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
कापेक्षया उभयस्मिन्नप्यविरोधात् ॥
१२. अधिकरणम् ॥
( १ ) प्राणो विष्णुरित्युक्तम् । तत्र ' ता वा एताः शीर्षन्
छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राणः' (ऐ. आ.
२-१-४. ) इत्यत्र प्राणस्य विष्णुत्वं न युज्यते । इन्द्रि
यैस्सहभिधानादिति । अत आह—
इति प्रमाणविरोधापातात् । छान्दोग्यभाष्ये तु—
अनन्तशयनं चैव तथाऽनन्तासनं हरेः ।
बहुलक्षोच्छ्रिते नित्ये विमाने संस्थितं यतः ॥
चित्रप्रकृत्यात्मनि ततो दिवीति कथितं श्रुतौ ।
इति प्रमाणबलेन चित्रप्रकृत्यात्मकानन्तासनश्वेतद्वीपवैकुण्ठाख्यस्थान
त्रये सप्तम्यन्तो द्युशब्दो द्योतमानत्वनिमित्तेन यौगिकः, स्वर्गादौ तु
रूढ इति उपदेशयोरविरोध इति प्रकारान्तरेण विरोधपरिहारः
कृतः ॥ ११ ॥
॥ इति छन्दोभिधानाधिकरणम् ॥
१२. अधिकरणम् ॥
( १ ) अत्राधिकरणे लोकतोऽन्यत्र प्रसिद्धप्राणनाम्नो विष्णौ समन्व
यः प्रतिपाद्यते । श्रुत्यादिसङ्गतिविषयवाक्यविषयसंशयसयुक्तिकपूर्व
पक्षान् दर्शयति-प्राण इति। आद्यप्राणाधिकरणे 'तद्वै त्वम्' (तै.आ.३-
१४.) इति वाक्योक्तप्राणो विष्णुरित्युक्तमित्यर्थः । ततः किमित्यत आह-
तत्रेति । उक्तमित्यनुषज्यते । तस्यावृत्तिविपरिणामौ । एवं तत्रेत्यप्याव
र्तनीयम् । तथा च 'तत्र' तद्वै त्वमिति वाक्ये उक्तस्य प्राणस्य विष्णुत्वं
न विद्यते न युज्यते । कुतः ? यतस्तत्र 'तद्वै त्वम्' इति वाक्योक्तप्राण
विषये 'उक्ते' श्रुते 'ता वा एताः' इत्यैतरेयवाक्ये उक्तस्य श्रुतस्य प्रा
णस्य विष्णुत्वं न विद्यत इति योजना । कुतो न विद्यते इत्यत आह-
इन्द्रियैस्सहभिधानादिति । इन्द्रियैस्सह पठितत्वात् इन्द्रियगणे ग
णितत्वात् इत्यर्थः । अनेनैतरेयप्राणस्य विष्ण्वन्यत्वाक्षेपमुखेन प्राची
नतैत्तिरीयोक्तप्राणस्याप्यन्यत्वाक्षेपात्तेनास्याक्षेपिकी सङ्गतिरुक्ता भ
वति । ऐतरेयप्राणाख्यो विषयः । प्राणोऽन्य उत विष्णुरिति संशयश्च
[ अधि - १२. सू - २८. ] दीपिकासहितम्. १४३
( २ ) सू—ॐ ॥ प्राणस्तथाऽनुगमात् ॥ ॐ ॥ २८ ॥
‘तं देवाः प्राणयन्त’ (ऐ. आ. २-१-५.) ‘स एषोऽ
सुः स एष प्राणः’ (ऐ. आ. २-१-८.) ‘प्राण ऋच
इत्येव विद्यात्’ (ऐ. आ. २-२-२.) ‘तदयं प्राणोऽ
धितिष्ठति’ (ऐ. आ. २-३-८.) इत्याद्यनुगमात् ।
( ३ ) अत्रापि प्राणो विष्णुरेव ।
सूचितः । तथा वाय्वादिरन्य एवेति पूर्वपक्षः । इन्द्रियगणे गणितत्वा
ख्यतत्साधकलिङ्गं च सूचितम् । ‘ता वा एताः’ इत्येतच्च चतुर्मुख
शिरसि शिरश्शब्दप्रवृत्तिनिमित्तकथनाय प्रवृत्तम् । वैशब्दः प्रसिद्धौ ।
तथा च यतः ‘ता एताः’ चक्षुः श्रोत्रं मनोवाक्प्राण इत्येतच्छब्दवाच्या
स्तदभिमानिन्यो देवताः । ‘शीर्षन्’ शीर्षणि शिरःसंज्ञकमूर्ध्नि श्रि
ताः । अत एव श्रयणाच्छ्रिय इति सिद्धान्ते श्रुत्यर्थः । अनेन चक्षुरा
दिभिः श्रितत्वं शिरःपदप्रवृत्तिनिमित्तमित्युक्तं भवति । पूर्वपक्षी तु प्रा
णशब्दमन्यमात्रपरं मन्यते । सिद्धान्तयत्सूत्रमवतारयति-अत इति ।
यतः पूर्वपक्षः प्राप्तः अत उत्तरं सूत्रमाह भगवान् बादरायण इत्यर्थः॥
( २ ) सूत्रं पठित्वा तत्रानुगमादिति हेत्वंशं श्रत्युदाहरणेन व्या
चष्टे—प्राण इति ॥ इत्यादीति । एवमादिवाक्योक्तानां देवतोपदेश्य
त्वादिलिङ्गानामत्रास्मिन् प्रकरणे बहुषु स्थलेषु ‘अनुगमात्’ अनुवृत्ते
रभ्यासादित्यर्थः । आदिपदेन ‘प्राणो ह्येवैष य एष तपति’ इति सूर्य
मण्डलस्थत्वप्रतिपादकवाक्यं गृह्यते । तथा ‘सर्वाणि भूतान्यापिपी
लिकाभ्यः प्राणेन बृहत्या विष्टब्धानि’ इत्यादि वाक्यं च गृह्यते ॥
( ३ ) सौत्रं तथाशब्दं व्याचष्टे—अत्रापीति ॥ श्रुत इति शेषः ।
न केवलं ‘तद्वै त्वम्’ इत्यत्र, किन्त्वैतरेयेऽपीति समुच्चयेऽपिशब्दः ।
सूत्रे अनुवृत्तस्य तत्त्वित्यस्यार्थमाह—विष्णुरेवेति । अनेन यथा ‘तद्वै
त्वम्’ इति श्रुत्युक्तप्राणो विष्णुः तथैतरेयोक्तोऽपि विष्णुरेव, न त्व
न्यः । कुतः? विष्णुलिङ्गानां देवतोपदेश्यत्वादीनामस्मिन् प्रकरणे ‘अ
नुगमात्’ अनुवृत्तेरभ्यासादिति सूत्रार्थ उक्तो भवति ॥
ऐतरेये ‘तं देवाः प्राणयन्त’ इति एकखण्डस्थवाक्यम् । ‘तं’
नारायणं वायुं च देवाः ‘प्राणयन्त’ प्रकर्षेण शिष्यप्रशिष्यादिषु नी
तवन्तः उपदिदिशुरित्यर्थः । अनेन विष्णोः सर्वदेवोपास्यत्वमुक्तं
भवति ॥
१४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
'स एषोऽसुः स एष प्राणः स एष भूतिः' इत्याद्यन्यखण्डगतं
वाक्यम् । अनेन भूतित्वादिना देवाद्युपास्यत्वमुच्यते । 'स एषः' भ-
गवान् दुष्टनिरसनादसुः प्रकृष्टानन्दरूपत्वात्प्राणः देवानां भूतिशब्दित-
ज्ञानाद्यैश्वर्यप्रदत्वादसुराणां अज्ञानाद्यनैश्वर्यहेतुत्वाच्च भूत्यभूतिशब्द-
वाच्य इत्यर्थः ॥
तत्रैव 'ता वा एताः सर्वा ऋचः सर्वे देवाः सर्वे घोषा एकैव व्याहृ-
तिः । प्राण एव प्राण ऋच इत्येव विद्यात्' इति अन्यद्वाक्यम् । अत्र
प्राणस्य सर्ववेदोक्तत्वमुच्यते । यास्ता एताः सर्वा ऋचस्तासां 'ए-
कैव व्याहृतिः' एकमेव व्याहर्तव्यं प्रतिपाद्यम् । तच्च किं ? प्राणो वि-
ष्णुरेव । किञ्च ये सर्वे वेदाः तेषामपि प्राण एव प्रतिपाद्यः । अपि च
[L
[ अधि - १२. सू - २८. ] दीपिकासहितम्. १४५
( ४ ) विष्णुमेवानयन् देवा विष्णुं भूतिमुपासते ।
स एव सर्ववेदोक्तस्तद्रथो देह उच्यते ॥
इति स्कान्दे ।
( ५ ) ब्रह्मशब्दानुगमाच्च ॥
( ४ ) ननु बाहुल्येन बलवतः सैद्धान्तिकलिङ्गादपि पूर्ववाद्युक्त
लिङ्गमेव बलवत् । निरवकाशत्वेन स्वभावतो बलवत्त्वात् । न चावि-
शेषेणानिर्णयः, बाहुल्येन बलवतोऽपि स्वभावबलिनः प्राबल्यात् ।
यदाहुः—
द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः ।
तयोस्स्वभावो बलवान् उपजीव्यादिकश्च सः ॥
इति । अतः कथं तैर्विष्णुत्वनिश्चय इत्यतो देवतोपदेश्यत्वादिलिङ्ग-
नां निरवकाशत्वमपि स्मृत्या साधयति—विष्णुमिति ॥ देवाः विष्णु-
मेव प्राधान्येन शिष्यादिषु ज्ञानसम्प्रदायप्रवर्तनेन 'आनयन्' उपादि-
शन् । भूतिमुद्दिश्य विष्णुमेवोपासते । भूतिमिति विधेयविशेषणं वा ।
तथा च विष्णुं भूतिं भूतिर्ज्ञानाद्यैश्वर्यरूप इत्युपासते इत्यर्थः । ' सः '
विष्णुर्मुख्यवाच्यतयेति शेषः, तेनैवकारोपपत्तिः । ' तद्रथो ' विष्णोरे-
व रथः । अत्रैवकारस्य द्विर्ग्रहणात्सर्वत्रानुषङ्गः सूचितः । तेन सर्व-
लिङ्गानामपि निरवकाशत्वमुक्तं भवति । स्कान्दे इत्यनन्तरं लिङ्गाना-
मनन्यथासिद्धत्वमुक्तमिति वाक्यशेषः । तथाचैकप्रकारेण प्रबलात्पू-
र्वपक्षिलिङ्गात्प्रकारद्वयेनापि प्रबलस्य सैद्धान्तिकलिङ्गस्याधिक्येन
निर्णयोपपत्तिरिति भावः । अभ्युपेत्य चेदमुदितम् । वस्तुतस्तु पूर्वपक्षि-
लिङ्गस्य न निरवकाशत्वेनापि प्राबल्यमस्ति, प्राणैः सहगणितत्वस्या-
न्तर्यामिनिष्टतासम्भवात् ॥
( ५ ) यदा बहुत्वनिरवकाशत्वाख्यप्रकारद्वयेनापि दुर्बललिङ्गस्यो-
भयथाप्रबललिङ्गतो बाधसम्भवेन तेनैव प्राणस्य विष्णुत्वसिद्धिः, त-
दा किमु वाच्यं निरवकाशब्रह्मशब्दाभ्यासादिति भावेनानुगमपदं प्र-
कारान्तरेण व्याचष्टे-ब्रह्मेति ॥ अस्मिन् प्रकरणे ' एतद्ब्रह्म ' (ऐ.आ.२-
१-१०) 'ब्रह्मणो लोकः' (ऐ.आ.२-१-३.) 'ब्रह्मेमं पुरुषम्' (ऐ.आ.२-१-४.)
'उदरं ब्रह्मेत्याचक्षते' (ऐ.आ.२-१-४.) 'अ इति ब्रह्म' (ऐ.आ.२-३-८.) इ-
त्यादिनिरवकाशब्रह्मशब्दाभ्यासाच्चेत्यर्थः । एतद्विष्णुस्वरूपं ब्रह्म गुण-
पूर्णम् । अयं जीवो ब्रह्मणः परस्याश्रयः । इमं पुरुषं चतुर्मुखं परब्रह्म
१९
...? Wait, let's read the characters between तथा चेत्थंandटीकोक्त: तthenत्त्व? Wait, no! Is it तत्त्व? Look at the first letter: तSecond:त्त्व? No, it has a repha? Wait, let's look at: त त् त्व? No, त त्त्व प्र ती क ो क ्त? Wait! "प्रतीकटीकोक्त"? Let's zoom in to line 30: Word after चेत्थं`:
तत्त्व? Wait, look at line 24:तत्त्वनिर्णय- in line 24,तत्त्वis written with त + त + व.
In line 30: afterचेत्थं, there is:
तthenत्त्व? No, it looks likeतत्तत्प्रतीकोक्त?
Wait! Look at:
त
त्त्व? No, it'sत्त्वwith a bar? No, look:तत्त्वप्रतीकोक्त?
Wait, look at the letters:
त
thenत्त्व? It
[ अधि - १२. सू - २९. ] दीपिकासहितम्. १४७
णः सर्वाणि भूतानि' ( ऐ. आ. २ २-३. ) इति बहु-
ध्यात्मसम्बन्धो ह्यत्र विद्यते ॥ २९ ॥
प्रागुक्तप्रबलतमलिङ्गादेः । तथा सत्युपदेशविरोध इति चेत् — न, कु-
तः ? यतोऽत्र प्रकरणे स्वस्थितस्यैव प्रथमं ‘प्राणो वा अहमस्म्यृषे’
इति वाक्येन परमात्मत्वमुक्तमिन्द्रेण । तर्ह्यैक्योक्तिविरोध इत्यपि न ।
यतोऽत्र तस्यैव प्राणाख्यपरमात्मनः ‘प्राणस्त्वं प्राणः सर्वाणि भूता-
नि’ इत्येवमादिवाक्येन ‘बहुध्यात्मसम्बन्धः’ इन्द्रादिजीवरूपबहुदे-
हसम्बन्धः सर्वगतत्वमेव ऋर्षि प्रति इन्द्रेणोक्तं ‘विद्यते’ अस्ति न
त्वैक्यमत इति । सूत्रोक्तसम्बन्धबाहुल्यं सम्बन्धिनि पर्यवस्यतीत्या-
शयेन बह्वित्युक्तम् । भूमशब्दस्य भाववाचित्वेऽपि भावभवित्रोरभेदा-
द्भवितरि प्रयोगः । सूत्रे तु परनिपात आर्षः । अथवा — अधिकश्चा-
सावात्मा चाध्यात्म तस्य सम्बन्धः बहुश्चासावध्यात्मसम्बन्धः चे-
ति विग्रहः । तथा च ‘हि’ यतः ‘अत्र’ इन्द्रे ‘बहुः’ बहुलः परमा-
त्मसम्बन्धः सन्निधिविशेषो विद्यत इत्यर्थः । विद्यत इत्यनन्तरं तदपे-
क्षयाऽयं उपदेशो न स्वापेक्षयेति शेषः । तथाचेन्द्रे तात्कालिकेश्वरस-
न्निधानविशेषाभिप्रायो ‘प्राणो वा अहम्’ इत्युक्तिः, न स्वापेक्षयेति नो-
पदेशविरोध इति भावः । कुतो न स्वापेक्षयेत्यतः–प्राणस्त्वमित्याद्याह ।
योजना तु–हि यस्मात् ‘प्राणस्त्वम्’ इत्यादि वाक्येनास्य प्राणस्य ‘बहु-
ध्यात्मसम्बन्धः’ अध्यात्मत्वेनान्तर्यामित्वेन इन्द्रादिरूपबहुदेहसम्ब-
न्धः सर्वगतत्वमुक्तं विद्यते न चैतदत्र जीवविशेषेन्द्रे विद्यते युज्यते त-
स्मादिति । प्रथमपक्षे ‘यस्यात्मा शरीरम्’ ( माध्यन्दिन ) इति श्रुतेरि-
न्द्रादीनां विष्णुदेहत्वादैक्यव्यपदेशः शरीरशरीरिभावनिबन्धन इति-
ज्ञापनायाध्यात्मेत्युक्तिः । अनेन बृहतीसहस्रवक्तुर्विश्वामित्रस्य तं प्र-
तीन्द्रेण प्राणतयाऽऽत्मोपदेशादयं प्राणो न विष्णुः, किन्तु इन्द्र एवेति
चेत्—नेन्द्रोऽयं प्राणः, किन्तु विष्णुरेव । कुतः ? अनुगमात् प्रागुक्तब-
लतमलिङ्गादेः । न चोपदेशविरोधः । यतोऽयमिन्द्रगताध्यात्मविषय
एव । कुतः ? हि यस्मादस्मिन् प्रकरणेऽध्यात्मसम्बन्धभूमा । अत्राध्या-
त्मसम्बन्धशब्देनात्माधिकारे वर्तमानमिति । अधिश्वासौ आत्मा चेति
देहः परमात्मा चोच्यते । तथा च यस्मादध्यात्मनो विष्णोरिन्द्रवि-
श्वामित्रादिदेहसम्बन्ध उक्तोऽस्ति तस्मात् । अथवा—हि यस्मात्
अस्मिन्निन्द्रे अध्यात्मसम्बन्धभूमा—अधिरीश्वरे—अधिकस्यात्मनः
१४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ७) सू—ॐ ॥ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ॐ ॥ ३० ॥
शास्त्रमन्तर्यामी ।
परमात्मनः सम्बन्धस्यावेशस्य भूमा बाहुल्यं विद्यते तस्मादुपदेशस्य
सन्निहितपरमात्मविषयत्वोपपत्तेरिति भावः । तदपि कुतः ? हि य
स्मात् अस्मिन् प्रकरणेऽध्यात्मसम्बन्धभूमोक्तः तस्मादिति सूत्रार्थ उ
क्तो भवति ॥
(७) ननु यदि प्राणशब्देनेन्द्रेणापि विष्णुरेव स्वात्मादिसर्वगत
तयोच्यते तर्हि मयि प्राण इति निर्देशः स्यात् । न त्वहमिति । विष्णा
वहमित्यादिरूपोपदेशायोगादित्याशङ्कां परिहरत्सूत्रं पठति—शास्त्रे
ति ॥ तुरेवार्थोऽप्यर्थः, यत इत्यर्थे स्मृतिसूचकश्च । युज्यत इति शे
षः । तथा च यतोऽपि प्राणस्य विष्णुत्वेऽप्युपदेशः ‘प्राणो वाऽहम्’
इत्येवंरूपो युज्यते, अतो न तदनुपपत्तिः । कथमयं युज्यते ? यतोऽयमु
पदेशः ‘शास्त्रदृष्ट्या’ शास्ति सर्वमिति शास्त्रं अन्तर्यामी भगवान्,
तद्दृष्ट्या तदपेक्षयैव प्रवृत्तो न त्वैक्येन । न चान्तर्यामिणि अहमादिप्र
योगादर्शनात् तद्योगः । यतो ‘वामदेववत्’ तत्कर्तृकप्रयोगवत् । य
था वामदेवो नाम ऋषिः अन्तर्यामिविवक्षया ‘अहं मनुरभवम्’ इति
स्वस्मिन् अहंमन्वादिशब्दान् प्रयुयुजे । तथा अयमप्युपदेशो युज्यते
अत इति सूत्रयोजनामभिप्रयन् सौत्रशास्त्रपदं व्याचष्टे—शास्त्रमिति ।
विष्णुरिति शेषः । तथाचान्तर्यामी विष्णुरिह शास्त्रपदेनोक्त इत्यर्थः ।
अन्तर्यामीति प्रकृताभिप्रायेण । यद्वा—शास्ति प्रेरयति सर्वानिति व्यु
त्पत्त्या अन्तर्यामीत्येतदेव शास्त्रमित्यस्य व्याख्यानं भवतीति नापदा
र्थत्वशङ्कावकाशः । अतएव भागवते ध्येयेऽन्तर्यामिण्येव शास्त्रशब्दप्र
योगः । ऐतरेयभाष्ये ‘शास्तुरन्तर्यामिणः’ इति शास्तृशब्दं मूलीकृ
त्य व्याख्यानेऽपि, तदनुसारेण च तत्त्वप्रदीपे शास्तुरन्तर्यामिणो वि
ष्णोरिति व्याख्यानेऽपि नास्य तद्विरोधः शङ्क्यः, यतस्तत्पर्यायशब्द
व्याख्यानेनैव शास्त्रशब्दो व्याख्यातो भवतीत्याशयेन शास्त्रशब्दपर्या
यशास्तृशब्दो व्याख्यायते । यद्वा—शास्त्रशब्दे शास्तृ अ इत्यवयववि
भागमभिप्रेत्य शास्त्रिंशस्यान्तर्यामिण इत्यनेन अशब्दस्य विष्णोरि
त्यनेन च व्याख्यातत्वात्, अत्र तु अवयवविभागमविवक्षित्वा शास्त्रमि
त्यखण्डपदस्यान्तर्यामीति व्याख्यानातदनुकूलतया ‘संविच्छास्त्रम्’
इति वचनोपन्यासाञ्च न विरोधः ॥
[ अधि - १२. सू - ३०. ] दीपिकासहितम्. १४९
( ८ ) 'संविच्छास्त्रं परं पदम्' इति हि भागवते ।
( ९ ) तत्तन्नाम्नोच्यते विष्णुः सर्वशास्तृत्वहेतुतः ।
न क्वापि किञ्चिन्नामास्ति तमृते पुरुषोत्तमम् ॥
इति पाद्मे ।
( ८ ) अन्तर्यामिणो विष्णोः शास्त्रपदवाच्यत्वे प्रमाणमाह—सं
विदिति ॥ प्रथमस्कन्धे व्यासं प्रति नारदवाक्यमिदम् ।
स्वप्नो मायाऽग्रहः शय्या जाग्रदाभास आत्मनः ।
नामरूपक्रियावृत्तिः संविच्छास्त्रं परं पदम् ॥
इति। अस्यार्थः—आत्मनो जीवस्य मायावासनाख्यसंस्कारोपादानक
वस्तुज्ञानरूपः स्वप्नः । अग्रहः जाग्रत्स्वप्नविषयज्ञानरहिता शय्या सु
षुप्तिः नामरूपक्रियासु शब्दार्थकर्मसु वृत्तिर्व्यावृत्तिर्यस्याः सा । आ
भासः प्रत्ययः संज्ञादिविषयज्ञानरूपा जाग्रच्च । आहृत्यैतदवस्थात्रयं
यस्मादात्मनः परब्रह्मणो भवति, तत्संवित् सर्वविषयकयथार्थज्ञानरू
पं सर्वज्ञं वा । शास्त्रं सर्वनियन्तृ, परं उत्तमं पदं सद्भिः प्राप्यं ब्रह्म
अहं अचिन्तयमिति । भागवत इत्यनन्तरं 'प्रयोगात्' इति शेषः । अ
स्यान्तर्यामीत्यनेनान्वयः ॥
( ९ ) नन्वन्तर्यामिणि अहमादिप्रयोगः कथं सम्भवतीत्याशङ्कायां
तत्र तुशब्दसूचितां स्मृतिमेवाह—तत्तदिति ॥ विष्णुः 'तत्तन्नाम्ना'
अन्यपरत्वेन प्रसिद्धाहमादिनाम्नोच्यते इति । अनेन तस्यान्तर्यामिणि वि
ष्णौ विद्वद्रूढिर्दर्शिता । 'सर्वशास्तृत्वहेतुतः' सर्वनियन्तृत्वनिमित्ते
नेति। अनेन महायोगो दर्शितः। तत्र तस्य स्वातन्त्र्यनिमित्तोक्तेः। अने
न परमत इवास्मन्मतेऽपि लाक्षणिकत्वं परिहृतम् 'पुरुषोत्तमं' अन्त
र्यामिणं विष्णुं 'ऋते' विना, अन्यत्र 'क्वापि' जीवादौ 'किं चित्'
अहमादिरूपं 'नाम' वाचकत्या नास्तीति । अनेन हरौ परममुख्यता अ
न्यत्र केवलमुख्यता चोक्ता । अन्यथा न क्वापीति सामान्यनिषेधायो
गात् । अत्राहमादिशब्दाः प्रत्यगादिवाचित्वेन प्रसिद्धाः, प्रत्यगादयश्च
सर्वदा पिण्डीभूताः, तानविवेकेनाज्ञाः केवलजीवादौ प्रयुञ्जते, दहति
शब्दमिव काष्ठे । प्राज्ञास्तु मुख्यामुख्यविवेकवन्तो ह्यमुख्यमर्थमनाह
त्य मुख्यर्थे हरौ प्रयुञ्जत इति तत्त्वनिर्णयटीकोक्तमनुसन्धेयम् । 'पा
द्मे ' इत्यनन्तरं 'अन्तर्यामिण्यहमादिपदानां मुख्यत्वोक्तेः शास्त्रदृ
ष्ट्या अहमाद्युपदेशो युक्त एव'इति वाक्यशेषः ॥
between २- and .):
Wait, there is a १ and... wait, is there an oval? No, wait, look at line 27:
It has ३-२-१.) or ३-२-१०.)? Wait, let's look really closely at line 27:
Is that ३? Yes.
Then -
Then २
Then -
Then १
Wait, after १, is there a ०?
Wait, let's compare line 19 and line 27:
Line 19: ...२-२-१०.)
Line 27: ...३-२-१.) or ...३-२-१०.)?
Wait, in line 27, look at: ( ऐ. आ. ३-२-१.)
Wait, does it have १०? No, it's just १.! Wait, wait, look at the width of the space:
In line 27, ३-२- is followed by १ and then a dot, then ). Wait, no, look at the round thing before ):
Wait! Is it १ then ०?
Let's measure the width in pixels:
In line 19: २-२-१०.)
From - to ):
- is at x=348
[ अधि - १२. सू - ३१. ] दीपिकासहितम्. १५१
( १२ ) न, अन्तर्बहिश्चसर्वगतत्वेनेत्युपासात्रैविध्यादिहाश्रि-
तत्वाच्च ।
( १३ ) ' स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत '
( ऐ.आ. २-४-३. ) ' स एतमेव पुरुषं ब्रह्म ततमम
ज्ञापनायोपनिषदो जीवलिङ्गे तात्पर्यमस्तीति ज्ञापयितुं अनुसन्धित्वा-
क्यमेवोदाहृतम् । सिद्धान्ते श्रुत्यर्थस्तु—पुरुषायुषः शतसंवत्सरस्या-
ह्नां सहस्राणि शतसंवत्सरान्तःप्रविष्टाहर्नियामकसूर्यगतभगवत्पुरुष-
रूपाणि तावन्ति सहस्राणि । कियन्ति ? बृहतीसहस्रगताक्षराणां वा-
च्यानि पुंरूपाणि यावन्ति सहस्राणि तावन्ति । तथा च तानि षट्त्रिं-
शत्सहस्राणि सम्पन्नानि भवन्ति । ' ताः ' चक्षुरादिदेवताः ' अहिस-
न्त ' विवादमकुर्वन् । किन्विति ? अहमस्य चतुर्मुखदेहस्योक्थोऽस्मि
उत्थापकोऽस्मीति ॥
( १२ ) परिहारांशं व्याचष्टे—नेति ॥ प्राणो विष्णुर्नेति न, किन्तु
विष्णुरेवायं, न जीवादिरित्यर्थः । कुतो नेत्यतस्तत्र प्रागुक्तानुगमहेत्व-
नुषङ्गं, न चोक्तजीवमुख्यप्राणलिङ्गविरोध इत्यतस्तद्धेतुत्वेन यतः
शास्त्रदृष्ट्या त्वयमुपदेश इत्यस्यानुषङ्गं, किमर्थमन्तर्यामीति प्रश्नस्या-
न्तरुपास्त्यर्थमिति परिहारं चाभिप्रेत्य न चोपासनेऽवान्तरभेदाभाव
इति चोद्योत्तरत्वेन प्रवृत्तं ' उपासा ' इति सूत्रांशं व्याचष्टे—अन्तरि-
ति । गतत्वेनेत्यस्यान्तर्बहिश्चसर्वगतशब्दैः प्रत्येकं सम्बन्धः । इतिशब्दः प्र-
कारार्थः । तथा च देहान्तर्गतत्वेन तद्बहिर्गतत्वेन सर्वगतत्वेनेति प्रका-
रेण ' उपासात्रैविध्यात् ' भगवदुपासनस्य त्रिविधत्वादित्यर्थः । ननु
तथापि कथनं व्यर्थं वस्तुत उपासनात्रैविध्यस्येहानुक्तस्यान्तर्यामिक-
थनाप्रयोजकत्वादित्यतः प्रवृत्तं ' आश्रितत्वात् ' इत्यंशं चशब्दाध्याहा-
रेण व्याचष्टे—इहेति । एतत्प्रकरणे उक्तत्वादित्यर्थः । उपासात्रैविध्य-
स्येति विपरिणामेनात्रान्वीयते । चो हेतूपपादकहेतुसमुच्चये । तथा च
अत्रोक्तत्रैविध्यान्तर्गतान्तरोपासनार्थमन्तर्यामिकथनं युक्तमिति भावः ॥
( १३ ) अत्रोपासनात्रैविध्यमुच्यत इत्यत्रापि किं लिङ्गमित्यत आ-
ह—स इति ॥ ' सः ' वासुदेवो भगवान् ' एतमेव सीमानं ' शिरोम-
ध्यं विदार्यैव ' एतया द्वारा ' सुषुम्ना नाड्या ' प्रापद्यत ' प्राप्तः । चतु-
र्मुखहृदयमिति शेषः । अनेन भगवतो देहान्तःप्रवेशोक्तेः उक्तेश्चोपा-
सनार्थत्वात् अन्तरुपास्तिरुक्ता भवति । ' सः ' चतुर्मुखदेहे प्राक्प्रप
१५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
पश्यत्' ( ऐ.आ.२-४-३. ) 'एतद्ध स्म वै तद्विद्वाना
ह महिदास ऐतरेयः' ( ऐ.आ.२-१-८. ) इत्यादिना ।
( १४) महिदासाभिधो जज्ञे इतरायास्तपोबलात् ।
साक्षात्स भगवान्विष्णुर्यस्तन्त्रं वैष्णवं व्यधात् ॥
इति ब्रह्माण्डे ।
दाभ्यामन्तः प्रविष्टो नारायणः 'एतमेव पुरुषं' व्यासकृष्णकपिलादि
रूपमात्मानं आततगुणं स्वस्वरूपभूतमादानादिकर्तारं वा । ततमं
'लोपः समाने' इति सूत्रात्तलोपः । तमबर्थे मप्रत्ययो वा । तथा च त
तमं अतिशयेन व्याप्तं निरवधिकव्याप्तिमन्तं 'ब्रह्म' गुणपूर्णं 'अपश्य
त्' तद्गुणकतया तद्रूपं ददर्शेत्यर्थः । केचित्तु—तकार एव व्याप्य
भिधायक इत्याहुः । अनेन सर्वगतत्वं तथोपासनार्थमुक्तम् । 'तदेत
त्' प्रकृतं सर्वं 'विद्वान्' जानन्नैतरेयः इतराया अपत्यं पुमान् विशा
लसंज्ञात ऋषेः उत्पन्नः ऐतरेयः । 'महिदासो' महिनो महात्मानो दे
वाः दासभूताः यस्यासौ भगवानाहेत्यर्थः । हस्मवैशब्दाः प्रसिद्धिज्यो
तकाः । अत्र बहिरुपास्त्यर्थं महिदास आहेति बहिरुपास्तिरुक्ता भव
ति । न च वाच्यमत्र स्वरूपमात्रमुच्यते, नोपासनार्थमिति । उपास
नां विनोक्तिप्रयोजनाभावात् । इत्यादिनेत्यस्येत्यादिना वाक्येनोपा
सनात्रैविध्यस्याश्रितत्वादर्थादुक्तत्वादित्यन्वयः । आदिशब्देन 'तं प्रप
दाभ्यां प्रापद्यत ब्रह्मेमं पुरुषमेतस्यामेतम्' (ऐ.आ.२-१-४.) इत्यादिकं
गृह्यते । ननु 'एतद्धस्मवै तद्विद्वानाह हिरण्यदन्वैट्' (ऐ.आ.२-१-५.)
इति वन्महिदासोऽपि ऋषित्वेनोच्यतामिति चेन्न । अस्याः उपनिषदः
ऐतरेयसंज्ञयैवेतरापुत्रस्य महिदासस्य ऋषित्वसिद्ध्या तदुक्तेर्व्यर्थ
त्वात् ॥
( १४) तथाऽपि महिदासस्य विष्णुत्वं कुतो ज्ञायत इत्यत आह—
महिदासेति ॥ 'जज्ञे' व्यक्तो बभूव । 'स च' महिदासः-
महिदासस्त्वैतरेयो बह्वृचोपनिषद्वतः ।
साक्षात्स भगवान्विष्णुस्तन्नामैको मुनिर्ह्यभूत् ॥
इति छान्दोग्यभाष्ये अनन्तरोक्तभगवदन्यः तत्संज्ञकेतरापुत्रः ऋषिर
त्र न विवक्षितः, किन्तु । यो 'वैष्णवं' विष्णुविषयं 'तन्त्रं' ग्रन्थं
'व्यधात्' निर्ममे । यद्वा—'तन्त्रं' पञ्चरात्रं व्यधात् नारदादिभ्यो
व्याचख्यौ । यश्च 'साक्षात्' स्वयं 'भगवान्' पूर्णज्ञानादिमान् 'वि
[ अधि - १२. सू - ३१. ] दीपिकासहितम्. १५३
( १५ ) तत्तदुपासनायोग्यतया च पुरुषाणाम् ।
( १६ ) केषां चित्सर्वगत्वेन केषां चिद्धृदये हरिः ।
केषां चिद्बहिरेवासौ उपास्यः पुरुषोत्तमः ॥
इति ब्राह्मे ।
( १७ ) अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः ।
ष्णुः' तदवतारभूतः पूर्वोक्तः स एवात्र विवक्षित इत्याह-साक्षादिति ।
ब्रह्माण्डे पुराण इत्यस्याश्रितत्वादित्यनेनान्वयः । महिदासस्य विष्णुत्वो-
क्तिरिति तदर्थः । तेन चशब्दान्वयः ॥
( १५ ) नन्वेकविधोपासनया सर्वेषां ब्रह्मापरोक्षसम्भवात्किमुपा-
सात्रैविध्येन इत्यतः प्रवृत्तं 'तद्योगात्' इति सूत्रशेषं व्याचष्टे—तत्त-
दिति ॥ उपासनेत्यनेन पुरुषाणामित्यनेन च तदित्यस्यावृत्तिः सूचि-
ता । चः समुच्चये । तथा च तेषां पुरुषाणां मनुष्यर्षिगन्धर्वदेवाख्या-
धिकारिणां तेषु त्रिविधोपासनेषु मध्ये तत्तदुपासने यथाक्रमं बहिर-
न्तर्व्याप्तिरूपैकैकोपासन एव योग्यतया योग्यत्वेन हेतुनेत्यर्थः । अस्यो-
पासात्रैविध्यादित्यनेनान्वयः । तथाचानेकविधोपास्तियोग्यतावताम-
धिकारिणां नैकविधोपासनया ब्रह्मज्ञानमिति तत्रैविध्यमावश्यकमिति
भावः ॥
( १६ ) पुरुषाणामुक्तानेकविधोपासनयोग्यता कुतो ज्ञायत इत्यतः
कर्तृविशेषाननुपादाय सामान्यतः उपासकत्रैविध्यप्रतिपादिकां स्मृतिं
पठति—केषां चिदिति ॥ 'पुरुषोत्तमो' हरिः 'केषां चित्' देवानां
देवैः सर्वगतत्वेन प्रकारेणोपास्यः । 'केषां चित्' ऋषिगन्धर्वादीनां
'हृदये' स्वस्वहृदयाकाशे उपास्यः । 'केषां चित्' मनुष्योत्तमानां
तु बहिरेवोपास्य इत्यर्थः । प्राचुर्यादेवमुक्तिः । इति ब्राह्म इत्यस्य तत्तदु-
पासनयोग्यतया तद्विशिष्टत्वेन पुरुषाणामाश्रितत्वादुक्तत्वादिति पूर्वे-
णान्वयः ॥
( १७ ) अत्रैवाधिकरणे कर्तृविशेषप्रतिपादकं विशेषप्रमाणमाह—
अग्नाविति ॥ विष्णुः 'क्रियावतां' यज्ञादिक्रियानुष्ठातृणां 'अग्नौ' गा-
र्हपत्यादौ उपास्यः हरिः । 'योगिनां' ऋषीणां हृदये उपास्यः । 'अ-
प्रबुद्धानां' मन्दमतीनां अत्यल्पप्रतिभानां मनुष्योत्तमानां 'प्रतिमासु'
कृष्णरामादिविग्रहेषु उपास्यः । 'विदितात्मनां' विशेषतो ज्ञातभगव-
द्रूपाणां अद्भुतप्रतिभानां देवानां तु 'सर्वत्र' सर्वस्थानेषूपास्य इत्य
२०
१५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
प्रतिमास्वप्रबुद्धानां सर्वत्र विदितात्मनाम् ॥
र्थः । अत्राग्नौ प्रतिमास्विति वाक्यद्वयेन बहिर्मात्रोपासनोपलक्ष्यते ।
अतएव स्थानद्वयोक्तिः। यथाश्रुते सूर्यादौ विष्णूपास्तेर्बहिरुपासित्त्वं
न स्यात् । योगिनामित्यनेनान्तरुपास्तिरुक्ता । 'ऋषयोऽन्तःप्रकाशाः'
( ) इति श्रुतेः । सर्वत्रेति सर्वगतोपास्तिरिति ज्ञातव्यम् । न
चात्र "येषां बहिरुपासनेन मोक्षस्तेषामपि हृद्युपासनं किञ्चित्कार्यमेव"
इति बृहद्भाष्येण " भगवान् बिम्बदर्शनेनैनं मोचयति " इति न्यायवि
वरणेन च विरोधश्शङ्क्यः । अग्नाविति वाक्येऽन्यनिषेधाभावेन बि
म्बशब्दितस्वस्वयोग्यात्मापरोक्षार्थं हृद्युपासनस्यापि सर्वैः कार्यत्वा
भ्युपगमात् । मोचकयोग्यापरोक्षद्वारभूतावताराद्यपरोक्षसाधनोपास
नाया एव तैस्तैः प्राचुर्येण प्रकरणस्याग्नाविति वाक्येन व्यवस्थया प्र
तिपादनाच्च । इति चेति । चः समुच्चये । वचनद्वयस्याप्येकार्थसाध
कत्वादस्यापि ब्राह्मे आश्रितत्वादिति पूर्वेणान्वयः। तत्तदुपासनयोग्य
तावत्त्वेन पुरुषविशेषाणामुक्तत्वादिति तदर्थः । अतो न तद्योगादिति
हेत्वसिद्धिः शङ्क्येति भावः ॥
अनेन नात्रोक्तप्राणो विष्णुः, किन्तुजीवमुख्यप्राणावेव । कु
तः? 'जीवमुख्यप्राणलिङ्गात्' शतायुष्ट्वरूपजीवलिङ्गस्य प्राणसंवादा
दिरूपमुख्यप्राणलिङ्गस्य चेह श्रवणादिति चेत्—न, विष्णुरेवायं प्रा
णः, न जीवादिः । कुतः? 'अनुगमात्' हेतोरेव, न चान्यश्रुतिलिङ्गवि
रोधः । उक्तरीत्या 'तद्योगात्' तेषामन्तर्यामिविषयत्वोपपत्तेः । यत
श्शास्त्रदृष्ट्याऽयं उपदेश इति वा । किमर्थमत्रान्तर्यामिकथनमिति चे
त्, अन्तरुपास्त्यर्थमिति ब्रूमः । न चोपासनेऽवान्तरभेदाभावः । 'उपा
सात्रैविध्यात्'अन्तरादिभेदेन भगवदुपासनस्य त्रिविधत्वात्। न च त
थापि कथनमुक्तम् । वास्तवत्रैविध्यस्येहानुक्तस्य कथनाप्रयोजक
त्वादिति वाच्यम् । 'इह' प्रकरणे तत्रैविध्यस्याश्रितत्वादुक्तत्वात् ।
न चैकविधोपासनया सर्वेषां ब्रह्मापरोक्षसम्भवात् किमुपासात्रैविध्ये
नेति वाच्यम् । 'तद्योगात्' तेषां पुरुषाणां तस्मिन् तदुपासन एव
योग्यत्वात् । अनेकविधोपासितयोग्यतावतां च पुरुषाणां एकविधोपा
सनयाऽपरोक्षासम्भवेन योग्यताभेदादुपासात्रैविध्यस्यावश्यकत्वाद्वि
ति सूत्रार्थ उक्तो भवति । न च विवादकर्तृत्वलिङ्गस्यान्तर्यामिविष
यत्वे 'उदासीनौ च तावास्तां केशवाब्जसम्भवः' इति वचनविरो
[ अधि - १२. सू - ३१. ] दीपिकासहितम्. १९५
इति च ॥ ३१ ॥
───: ❖ :───
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये प्रथमस्याध्यायस्य
प्रथमः पादः.
॥ ॐ ॥
───: ❖ :───
धः शङ्कः । तस्यान्तर्यामिविषयभिन्नबाह्यरूपविषयत्वात् । अतोऽन्य
लिङ्गानां तत्तदन्तर्यामिविषयत्वोपपत्तेः तद्विरोधाभावात् । विष्णुरे
वायं प्राणः आनन्दमयश्चेति युक्ता तज्जिज्ञासेति सिद्धम् ॥
॥ इति पादान्त्यप्राणाधिकरणम् ॥
───: ❖ :───
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वत
न्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपा
दानां शिष्येण श्रीमज्जगन्नाथयतिना
कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदी
पिकायां प्रथमाध्यायस्य
प्रथमः पादः.
॥ ॐ ॥
───: ❖ :───