पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 819, कुल 1267 में से
संदर्भ में पढ़ें७७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
चिन्तयीत यतिर्मान्यं ज्ञानरूपादृते हरेः ॥
इति च मात्स्ये ॥ १७ ॥
र्धानं ' श्रुते ' ज्ञानाय 'चिन्तयीत ' ध्यायीत । ' ज्ञानरूपात् ' ज्ञानश-
रीराद्वासुदेवावृते ' अन्यं ' ब्रह्मादिकं परत्वेन न चिन्तयीतेत्यर्थः । न
चैतत्सूत्रे एव ज्ञानानन्दयोः ब्रह्मरूपत्वे स्पष्टश्रुत्युक्तैकार्थिकोक्तिरूपपू-
र्वसूत्रवैयर्थ्यमिति वाच्यम् । स्वरूपस्यापि ज्ञानाद्यात्मकत्वसिद्धयर्थं
तदुपन्यासात् । न चानर्थक्यम् । ब्रह्मतच्छरीरयोरभेदेन ब्रह्मणो ज्ञा-
नानन्दाद्यात्मकत्वे तच्छरीरस्यापि तल्लाभाभिप्रायेण तदुदाहरणोपप-
त्तेः । अत्र तत्त्वप्रदीपे दर्शयति चानन्दस्य स्वरूपत्वं ' आनन्दरूपम् '
इत्यादि । अथो च दर्शयति—
सञ्ज्ञानानन्दशीर्षोऽसौ सञ्ज्ञानानन्दबाहुकः ।
सञ्ज्ञानानन्ददेहस्तु सञ्ज्ञानानन्दपादवान् ॥
इति । अथो च दर्शयति—
ब्रह्मणस्तद्गुणानां च भेददर्श्यधरं तमः ।
भेदाभेदप्रदर्शी च तम एवोत्तरं विशेत् ॥
विजानीयात्ततो ब्रह्म सदा सर्वगुणात्मकम् ।
गुणानां च विशेषोऽस्ति न विशेषः कथं च न ॥
ते सर्वेऽपि गुणाः पूर्णास्तच्छरीरः परः स्मृतः ।
आनन्दज्ञानशक्त्यादिदेहं विष्णुं तु ये जनाः ॥
अदेहं भूतदेहं वा विदुस्ते चाधरं तमः ।
तथा प्रकृतिदेहज्ञाः कर्मदेहविदोऽपि वा ॥
तस्मादानन्दचिद्देहं चिदानन्दशिरोमुखम् ।
चिदानन्दभुजं ज्ञानसुखैकपरमाङ्गुलिम् ॥
आ देहादा नखाग्रेभ्यः पूर्णचित्सुखशक्तिकम् ।
प्रत्येकं तु गुणांस्तांस्तु सदा सर्वगुणात्मकान् ॥
ज्ञात्वा विमुच्यते विष्णोः प्रसादान्मानुषोऽपि सन् ॥
इति पैङ्गिश्रुतिरिति । एवं दर्शयति इत्येतत अथो इत्युत्तरत्रापि संयो-
ज्य व्याख्यातम् । तत्पक्षे न केवलं दर्शयति, किन्तु स्मर्यतेऽपीत्यपि श-
ब्दार्थः ॥ ९ ॥
॥ इति अरूपाधिकरणम् ॥