सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 818, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 818

[Header]
[ अधि - ९. सू - १७. ] दीपिकासहितम्. ७७१


स्तेषां सुखं शाश्वतं नेतरेषाम् ।
इति चतुर्वेदशिखायाम् ॥ १६ ॥
(९) सू—ॐ ॥ दर्शयति चाथो अपि स्मर्यते ॥ ॐ ॥ १७ ॥
दर्शयति चानन्दरूपत्वं 'तद्विज्ञानेन परिपश्यन्ति धी
राः आनन्दरूपममृतं यद्विभाति' (मु. २-२-८.) इति ॥
(१०) शुद्धस्फटिकसङ्काशं वासुदेवं निरञ्जनम् ।
'अजरं' सदा दृढं 'पुराणं' अनादिभूतं 'एकं' सर्वोत्कृष्टं 'सन्तं'
निर्दोषं, एकं सन्तमिति वा 'बहुधा' विश्वाद्यात्मना मत्स्यादिरूपैर्वा
दृश्यमानं 'आत्मस्थं' देहस्थं परमात्मानं 'ये धीराः' ज्ञानिनः 'अनु
पश्यन्ति' साक्षात्कुर्वन्ति तेषां 'शाश्वतं सुखं' मोक्षो भवति, नान्ये
षामित्यर्थः । इतीति । इति चतुर्वेदशिखायां च वैलक्षण्यमुच्यत इत्य
न्वयः । अनेन सौत्रचशब्दः श्रुतिसमुच्चयेऽपीति सूचितम् ॥
(९) ननु उक्तश्रुतिद्वये ब्रह्मणो ज्ञानानन्दाद्यात्मकत्वमेवोच्यते, न
त्वानन्दादेर्ब्रह्मशरीरत्वम् । अतो रूपिपदोक्तदेहित्वश्रुतेर्लोकविलक्षण
रूपविषयत्वाभावाद्वैयर्थ्यम्, सौन्दर्याभावश्चापरिहृतः । न च रूपरू
पिणोरभेदादिति तत्त्वप्रदीपे तदपि श्रुत्यभिप्रेतमित्युक्तमिति वाच्यम्।
स्पष्टोक्त्यभावेनानिर्णयादित्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—
दर्शयतीति ॥ चशब्दो रूपत्वमित्यतः परो योज्यः । 'आनन्दरूपत्वं'
ब्रह्मशरीरत्वमिति । अनेन सूत्रेऽपेक्षिताध्याहारो दर्शितः । न केवल
मानन्दस्य ब्रह्मात्मकत्वं, किन्तु तच्छरीरत्वं चेति चशब्दार्थः । इती
त्यनन्तरं भाष्ये सूत्रे च श्रुतिरिति शेषः । श्रुतिर्दर्शयतीत्यन्वयः । 'आ
नन्दरूपं' आनन्दशरीरं अत एव 'अमृतं' देहतो नाशरहितं यद्विभाति
तद्ब्रह्म 'विज्ञानेन' श्रवणादिजनितसाक्षात्कारेण 'परिपश्यन्ति' विष
यीकुर्वन्ति ज्ञानिन इत्याथर्वणश्रुत्यर्थः ॥
(१०) सूत्रे अथोपदं ज्ञानरूपार्थान्तरवाचि । अपिस्समुच्चये । अस
न्धिः प्रगृह्यत्वात् । तथा च न केवलमानन्दस्यैव ब्रह्मात्मकत्वं तद्रूप
त्वं चोच्यते श्रुत्या, किन्तु ज्ञानस्यापि तदात्मकत्वं तद्रूपत्वं चोच्यते
स्मृत्येति सूत्रखण्डार्थमभिप्रेत्य तां स्मृतिं पठति—शुद्धेति ॥ इति मा
त्स्ये स्मर्यत इत्यन्वयः । तद्वचनाख्यस्मृत्येदमूच्यत इति यावत् । स्मृ
तिः 'शुद्धस्फटिकसङ्काशं' तद्रुक्छुक्लवर्णं निरञ्जनं वासुदेवमेव परं प्र

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 818, कुल 1267 में से · SarvaKosh