सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 814, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 814

[ अधि - ९. सू - १५ ] दीपिकासहितम्. ७६७
( ३ ) हिशब्दात् 'अस्थूलमनणु' ( बृ. ३-८-८. ) इत्यादि
श्रुतेश्च ।
( ४ ) भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः ।
अरूपवानतः प्रोक्तः क्व तद्व्यक्ततः परे ॥
इति मात्स्ये ॥ १४ ॥
( ५ ) सू—ॐ ॥ प्रकाशवच्चावैय्यर्थ्यम् ॥ ॐ ॥ १५ ॥
ति व्यस्तं समस्तं चेत्याशयेन व्यस्ततच्छब्दार्थमाह—ब्रह्मेति । तस्मा
न्नानित्यत्वं ब्रह्मणः शङ्क्यमिति वाक्यशेषः ॥
( ३ ) ननु ब्रह्मणः प्रकृत्यादिसामर्थ्येन देहबन्धाभावेऽपि स्वेच्छा
लीलादिनिमित्तं रूपं किं न स्यादित्याशङ्कावारकतया हिशब्दं व्याच
ष्टे—हिशब्दादिति ॥ सूचिताया इति शेषः । श्रुतेरित्यस्य नेतिवाक्ये
नान्वयः । तथा च निमित्तान्तरकृतरूपपदोक्तदेहाभ्युपगमे श्रुतावरूप
मिति सामान्यनिषेधो न स्यादिति भावः । न केवलमुक्तयुक्तेरिति च
शब्दार्थः । व्याख्यातेयं श्रुतिः अक्षरनये । अनेन सूत्रे नपुंसकोक्तिरेतच्छु
त्यनुसारादिति ध्येयम् ॥
( ४ ) सूत्रार्थे स्मृतिं चाह—भौतिकानीति ॥ यस्मात् सर्वाणि
'रूपाणि' शरीराणि पाञ्चभौतिकानि । उपलक्षणमेतत् । आव्यक्तिका
नि च । यस्माच्च 'असौ' परमात्मा भूतेभ्यः 'परः' तत्प्रवर्तकत्वेन
तदुत्तमः तस्मात् 'अरूपवान्' तत्कार्यरूपरहितः । ननु भूतपरे भौति
करूपाभावेऽपि अव्यक्तकार्यं रूपं किं न स्यादित्यत आह—क्वेति । 'अ
व्यक्ततः' प्रकृतितः 'परे' तत्प्रवर्तकत्वेन तदुत्तमे तत एव तत्कृतब
न्धशून्ये ब्रह्मणि 'तत्' आव्यक्तिकं रूपमपि 'क्व' नेत्यर्थः । यद्वा—
तत्त्वप्रदीपोक्तरीत्या कैमुत्यमेतत् । अस्मिन् पक्षे नोपलक्षणम् । तच्छ
ब्देन भौतिकरूपस्यैव परामर्शः । तथा च यदा भूतेभ्यः परे भगवति
भूतकार्यदेहो न, तदा भूतकारणाव्यक्तमप्यतीत्य वर्तमाने तस्मिन् त
द्व्यक्तकार्यभूतकार्यशरीरं नेति किमु वक्तव्यमित्यर्थः । यद्वा भूतपर
त्वमेव भौतिकदेहाभावे हेतुः, तदा सुतरां भूतपराद्व्यक्तपरत्वमिति
भावः । एवं यतो भौतिकानि रूपाणि अनित्यत्वव्याप्तानि, असौ च भू
तेभ्यः परत्वात्तद्रहितोऽतो नानित्यताशङ्का कार्येत्यध्याहारेण तत्त्वप्र
दीपोक्तं योजनान्तरं द्रष्टव्यम् । इति मात्स्य इति । उक्तमिति शेषः ॥
( ५ ) ननु ब्रह्मणो रूपाभावे 'रुक्मवर्णम्' इत्यादिरूपित्वश्रुति