पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 813, कुल 1267 में से
संदर्भ में पढ़ें७६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
निर्दोषाद्वयरूपोऽपि कथ्यते परमेश्वरः ॥ इति ॥ १३ ॥
९. अधिकरणम् ॥
( १ ) रूपवत्त्वादनित्यत्वमिति ।
( २ ) अतो वक्ति—
सू—ॐ ॥ अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वान्नैव रूपवद्ब्रह्म ।
ह्यातर्क इत्यन्वयः । उक्तमिति शेषः ॥ ८ ॥
॥ इति न स्थानतोऽप्यधिकरणम् ॥
९. अधिकरणम् ॥
( १ ) अत्राधिकरणे विष्णोरप्राकृतरूपं समर्थ्यते । पूर्वपक्षयति—
रूपवत्त्वादिति ॥ शुक्लादिरूपवत्त्वेन विग्रहवत्त्वेन चोक्तत्वादित्यर्थः ।
अत एव च तत्त्वप्रदीपे 'रूपोपन्यासाच्च, पुरुषविधमपि' इत्यादिना
रूपवत्त्वमुक्तमिति रूपशब्दितविग्रहवर्णोभयप्रापकसूत्रोदाहरणं कृत-
म् । न चैवं रूपशब्देन शुक्लादिगुणप्रतीतिः स्यात् अतः—शिरःपाणी-
त्युक्तमिति सुधाविरोध इति वाच्यम् । तस्यास्तन्मात्रप्रतीतिस्स्या-
दित्यर्थकत्वात् । 'अनित्यत्वं' देहतो नाशवत्त्वं, विष्णोः स्यादिति
शेषः। एवं रूपवत्त्वादित्येतत् रूपवत्त्वेन 'रुक्मवर्णं, आदित्यवर्णम्' इत्या-
दिश्रुतिसिद्धत्वादित्यपि व्याख्येयम् । तेन हेत्वसिद्धिः परिहृता । अ-
नित्यपदं च विष्णो रूपवत्त्वे 'अरूपमव्ययम्' 'तद्रूपमनामयम्' इ-
त्यादिश्रुत्यप्रामाण्यं च स्यादित्यप्रामाण्यपरतयाऽपि व्याख्येयम् । यथा
'अनित्यमुच्यते' (१-२-१.) इति जैमिनिसूत्रे बाधकद्वयमुक्तं भवति, एव-
मरूपत्वपक्षेऽपि बाधकद्वयं टीकोक्तमनुसन्धेयम् । तथा च पक्षद्वयेऽपि
भक्तिरनुपपन्नेति पूर्वपक्ष्याभिप्रायः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ 'प्रकृत्यादि-
प्रवर्तकत्वेन' तन्नियामकत्वेनेति । अनेन तच्छब्दार्थो दर्शितः । आदि-
शब्देन भूतं गृह्यते । उत्तमत्वादित्यनेन प्रधानत्वादित्येतत्प्रकारान्तरेण
व्याख्यातम् । तत्र पूर्वे उत्तमत्वे प्रकारप्रदर्शनरूपम् । सूत्रेऽरूपमिति
वाच्ये रूपरूपिभेदन्निवृत्त्यर्थमरूपवदित्युक्तं, तद्व्याचष्टे—नेति । प्राकृ-
तभौतिकरूपवद्भिन्नमेवेत्यर्थः । न तु तद्रहित्येवकारार्थः । सूत्रे तदि-