सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 811, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 811

७६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
( ८ ) सू—ॐ ॥ अपि चैवमेके ॥ ॐ ॥ १३ ॥
एवमभेदेनैव चशब्दादनन्तरूपत्वं चैके शाखिनः
पठन्ति ।
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमश्शिवः ।
ओङ्कारो विदितो येन स मुनिर्नैतरो जनः ॥ (मा. ४-७.)
इदमेव सर्वस्मादन्तरं बाह्यं चेत्यर्थः । ब्रह्मायमात्मा सर्वमनुभवतीति
‘सर्वानुभूः’ सर्वज्ञ इति ‘वेदानुशासनं’ वेदव्याख्यानमित्यर्थः । पुन
र्ब्रह्मेत्युक्तिस्तात्पर्यार्था, अनेकाधिशेषणसम्बन्धार्था वा । यद्वा—ब्रह्मेत्य
नुवादोऽतो न पौनरुक्त्यम् । तथा च यत् ब्रह्मायमात्मा सर्वानुभूरि
त्यन्वयः । विधेयविवक्षया अयमात्मेति पुल्लिङ्गप्रयोगः ॥
( ८ ) ननु नामेदश्रुतिभिः भेदश्रुतेः बाधो युक्तः । तासां क
तिपयरूपविषयत्वेन सावकाशत्वात् । नापि ‘अयं वै हरयः’ इ
त्यन्तिमश्रुतिविरोधः । तत्र परस्परमभेदानुक्तेः, मूलरूपेणापि ‘ए
ष त आत्मा.....अयमेव सः’ इतिवत् स्पष्टमभेदाप्रतीतेः । अ
तो भेदश्रुतिबलात् विश्वादीनां भेद एवेत्याशङ्कां परिहरत्सूत्रं पठि
त्वा व्याचष्टे—अपीति ॥ अत्रापिः तत्त्वप्रदीपोक्तरीत्या न केवलं का
ण्वा एवं पठन्ति, किन्तु ‘एके’ अन्ये माण्डूकेया अपीति समुच्चयार्थः।
एवमित्यनुवादः, अभेदेनेति व्याख्यानम् । इत्थंभूतलक्षणे तृतीया । त
था च अभिन्नत्वप्रकारं प्राप्तान्येवेत्यर्थः । विश्वाद्यनन्तरूपाणीति शे
षः । चशब्दादित्यनन्तरं विष्णोस्समुचितमिति शेषः । द्वितीयान्तश
ब्दयोरेके पठन्तीत्यनेनान्वयः । यद्वा—अभेदेनेति सहयोगे तृतीया ।
तथा च चशब्दबोधितं ‘अनन्तरूपत्वं’ विश्वादिरूपाणामनन्तत्वं बहु
त्वं अभेदेन सहैके पठन्तीत्यर्थः । चस्समुच्चये । इति पठन्तीत्यन्वयः ।
इतिरावर्तते । स च हेतौ । तथा च इति यतः पठन्ति अतो न भेदश्रु
तिमवलम्ब्य विश्वादिभेदो ग्राह्यः, न भेदश्रुतिः अभेदश्रुतिविरोधिनी
ति वा अध्याहारेणान्वयः । अनेन सूत्रे पठन्तीत्यस्य यतोऽतश्शब्दयो
रुक्तसाध्यवाक्यस्य च अध्याहारः कार्य इति सूचितम् । श्रुत्यर्थस्तु-
यद्यपि ‘अमात्रो’ भिन्नांशशून्यः तथाऽपि ‘अनन्तमात्रः’ अभिन्नान
न्तांशवान् ‘द्वैतस्योपशमः’ द्वितीयेन प्रकारेणेतं द्वीतं इण् गतौ, भा
वे निष्ठा, द्वीतमेव द्वैतं, मिथ्याज्ञानं तस्योपशमस्तन्नाशकृत् । तत्त्वप्र
दीपे तु—‘अमात्रः’ परिमाणरहितः ‘अनन्तमात्रः’ अनन्तरूपः