सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 810, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 810

[ अधि - ८. सू - १२. ] दीपिकासहितम्. ७६३
नि चानन्तानि च तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्य
मयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्' (बृ. ४-५-
१९.) इति प्रत्येकमभेदवचनात् ॥ १२ ॥
ति भगवद्रूपाणां मूलरूपेणाभेदवचनादिति हेत्वर्थ उक्तो भवति । सू
त्रभाष्ययोः प्रत्येकमित्युक्तिरादरसूचनार्था । तत्प्रयोजनं तु सिद्धान्त
श्रुतीनां प्राबल्यसूचनेन ताभिः पूर्वपक्षश्रुतेर्बाधसूचनम् । तेन भेदाभे
दवचनयोः साम्यादनिर्णय इति शङ्का निरस्ता । 'एष ते' इति बृह
दारण्यके उद्दालकं प्रति याज्ञवल्क्यवचनमेतत् । 'एषः' पृथिव्यन्त
र्याम्‍येव तवान्तर्यामीत्यर्थः । एवमबादावपि । 'अयमेव सः' इत्यारभ्य
'इदं सर्वम्' इत्यन्तमपि । तत्रैव मधुब्राह्मणे श्रुतम् । तदर्थस्तु-यः 'ते
जोमयोऽमृतमयः पुरुषः' इति पूर्ववाक्ये तेजःपूर्णत्वनित्यस्वरूपत्वपू
र्णत्वगुणः परमात्मा अभिहितः सोऽयम् । अयं क इत्याशङ्कायामाह-य
इति । अयं स एव यः पूर्वोक्त आत्मा सर्वगो ह्यशीर्षाख्यः । 'इदं' रूपं
'अमृतं' नित्यमुक्तं 'सर्वमिदं' जगत् 'ब्रह्म' तदधीनमिति । 'अयं वै हर
यः' इत्यारभ्य 'इत्यनुशासनम्' इत्यन्तमपि बृहदारण्यके श्रुतम् । अनेन
हि परमात्मरूपाणामभेदे प्रमाणत्वेन 'इन्द्रो मायाभिः पुरुरूप ईयते
युक्ता ह्यस्य हरयः शता दश' (ऋ.६-४७-१८.) इति मन्त्रमुदाहृत्य व्या
ख्यातः । 'हरयो' हरिनामानो 'दश' मत्स्याद्याः 'अयं वै' मूलरू
प्येव चशब्दात्सूचितानि शतानि नारायणादिहरिनामकानि अयमेव ।
एवमृक्स्थं 'शता दश' इत्येतद्व्यूहद्वयपरत्वेन व्याख्याय दशशता
नीति व्युत्क्रमेणान्वयेनैकव्यूहपरत्वेनापि व्याख्याति-सहस्राणीति ।
विश्वादीनि सहस्राणि अयं वा इत्यन्वयः। दशेत्येतद्बहुपर्यायमभ्युपेत्य
व्यूहान्तरपरत्वेनापि व्याख्याति-बहूनि चेति । परादीनि बहूनि च हर
योऽयं वा इत्यन्वयः। 'शतमनन्तं भवति' ( ) इति वचनाच्छ
तेत्येतदनन्तपर्यायमित्यभिप्रेत्य व्यूहान्तरपरत्वेनापि व्याचष्टे-अनन्ता
नि चेति । अजितादीन्यपि