पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 793, कुल 1267 में से
संदर्भ में पढ़ें७४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २.]
(६) सू—ॐ ॥ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ॐ ॥ ४॥
साधनान्तराभावेऽपि भावाभावसूचकत्वेनेश्वरो द-
र्शयति ॥
(७) यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति ।
समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने॥ (छा.५-२-९.)
त्कृतेति । ‘सा’ भ्रान्तिता अन्यथात्वहेतुकृतेत्यर्थः । यद्वा—भ्रान्ति-
कारणाभावाच्च तदुत्पत्तिसम्भव इत्यत आह—सा च तत्कृता ईश्वर-
कृतेति । अन्यकारणकारणकत्वाभावे अनभिव्यक्तस्वरूपत्वादिति हे-
तुः। सम्यगित्यादौ योज्यम् । सन्ध्यमिति शेषः । ‘इति’ ब्रह्माण्डे उक्तमि-
ति शेषः । न केवलं सूत्रकृतेति चार्थः ॥
(६) ननु सत्यताशून्यानां स्वाप्नानां बाह्यार्थजन्यत्वाभावाच्छुक्ति-
रजतादिवदसत्त्वं स्यादित्याशङ्कां परिहरन्सूत्रमुपन्यस्य व्याचष्टे—
सूचकश्चेति ॥ ‘साधनान्तराभावेऽपि’ बाह्यकारणजन्यत्वाभावेऽपीत्य-
र्थः । अनेन वक्ष्यमाणानुमाने उपाधिशङ्का निरस्ता । परोक्तहेतोरप्रयो-
जकत्वं चोक्तं भवति । अपिः यद्यपितथापीत्यर्थे । अनेन सौत्राद्यश्च-
शब्दो व्याख्यातः । स्वाप्नानां न सत्त्वहानिरिति शेषः । कुत इत्यत
आह—‘भावाभावसूचकत्वेन’ शुभाशुभसूचकत्वेन हेतुनेति । स-
न्ध्यस्येति शेषः । अनेन सन्ध्यः सन्नेव नासन्, कुतः? यतो भावाभा-
वसूचकः । न ह्यविद्यमानं शाकुनं कस्य चित्सूचकं भवति । न च बा-
ह्यार्थजन्यत्वमुपाधिः । तदभावेऽपि सन्ध्यस्य शुभाशुभसूचकत्वेन स-
द्वस्त्वैव निश्चिततया साध्याव्यापकत्वेन तदभावेनासत्त्वसाधनायो-
गात् । किञ्च—यतः ईश्वरः सन्ध्यं जीवस्य ‘दर्शयति’ ज्ञापयति ।
अतोऽपि नासन्। न हीश्वरेण सम्यक्प्रदर्शितस्यासत्त्वं शङ्कार्हम् । न च
प्रदर्शनेन प्रयोजनाभावः, यतस्सन्ध्यं भावाभावसूचकत्वेन शुभाशुभ-
सूचनाय दर्शयत्यत इति सूत्रखण्डो व्याख्यातः ॥
(७) स्वाप्नपदार्थानां भावाभावसूचकत्वमेव कुत इत्यतः प्रवृत्तं श्रुते-
रित्यंशं व्याचष्टे—यदेति ॥ छन्दोगश्रुतिरियम् । आदिशब्देन ‘पुरुषं कृष्णं
कृष्णदन्तं पश्यति स एनं हन्ति..मर्कट एनं हन्ति’ (ऐ.आ.३-२-४.) इ-
त्यैतरेयादिश्रुतिर्गृह्यते । श्रुतेरित्यस्य सूचक इति साध्येनान्वयः । अ-
त्रैव प्रमाणान्तरपरतया हिशब्दं योजयति—हिशब्दादिति । इति सू-
चितमिति शेषः । न केवलं श्रुतेः , किन्तु ‘दर्शनात्’ साक्षिप्रत्यक्षाच्च