सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 750, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 750

[ अधि - ७. सू - ७. ] दीपिकासहितम्. ७०३
सू - ॐ ॥ भाक्तं वाऽनात्मवित्त्वात्तथाहि दर्शयति ॥ ॐ ॥ ७ ॥
भागतस्तदमृतत्वं 'नान्यः पन्था अयनाय विद्यते'
त्वं काम्यसोमयागादिसाध्यं मुक्तत्वं 'भागतः' कालभागतः तमपे-
क्ष्याल्पकालीनममुख्यमिति यावत्। तस्मान्न श्रुतिविरोध इति योजना।
भागत इत्यनेन भाक्तमिति व्याख्यातम्। तदित्यनेन सूत्रे तत्पदाध्या-
हारः सूचितः। मुख्यामृतत्वमेव श्रुत्यर्थः किं न स्यादित्यतः तदुत्तर-
त्वेन तथाहि दर्शयति इति सूत्रखण्डसूचितां श्रुतिमाह-नेति। श्रुते-
रित्यनेन सौत्रो हिशब्दो हेत्वर्थतया व्याख्यातः। योजना तु यतो 'ना-
न्यः' इति श्रुतेर्मुख्यामृतत्वं न काम्यकर्मसाध्यमित्यन्वयव्यतिरेको-
क्त्याऽवगतम्, अतस्तदमृतत्वं भागत एवेति। श्रुतिस्तु जिज्ञासानये
व्याख्याता। काम्यकर्मिणां कुतो मुख्यामृतत्वाभाव इत्यतस्तदुत्तरत्वेन
अनात्मवित्त्वादित्यंशं व्यतिरेकमुखेन योजयति-आत्मेति। न त्वना-
त्मविद् इत्येवशब्दाथः। हिशब्दो हेतौ। तदमृतत्वम्। ननु काम्यक-
र्मिणां मुख्यामृतत्वाभावेऽपि अकाम्यकर्मिणां तदस्त्वित्याशङ्कापरिहारा-
य प्रवृत्तं सौत्रं वाशब्दं व्यवस्थितविकल्पार्थतया व्याख्याति-वाशब्दा-
दिति। इति सूचितमिति शेषः। तदमृतत्वमित्युभयत्रानुवर्तते।
योजना तु 'अपाम' इति श्रुतौ यद्यकाम्यं कर्म विवक्षितम्, तदा तज्जि-
ज्ञासूनां चेत्तदमृतत्वं मुख्यामृतत्वमेव, परं तु तत् कर्मणा न साक्षाद्भव-
ति, किन्तु कर्मणा शुद्धान्तःकरणस्य वैराग्यादि, अथ तद्गतः श्रवणादि-
रूपा जिज्ञासा, जिज्ञासोर्ज्ञानम्, ज्ञानिनो मोक्ष इति 'पारम्पर्येण' पर-
म्परयैव लभ्यमिति परम्पराविवक्षयैवैषा श्रुतिः प्रवृत्तेति वक्तुं युक्तम्। अ-
परोक्षज्ञानिना मकाम्यं कर्म चेत्तदा तच्छ्रुत्युक्तममृतत्वं न ज्ञानसाध्यसं-
सारनिवृत्तिरूपं, किन्तु 'आत्मविदपेक्षया' परमात्मापरोक्षज्ञानिनमपे-
क्ष्यैव तत्कर्मफलमपेक्ष्यैव आत्मज्ञानलब्धे मोक्षे प्रचुरानन्दव्यक्तिवैचि-
त्र्याख्यातिशयमपेक्ष्यैवोक्तं तद्रूपमेवोक्तमिति यावदिति वाशब्दात्सूत्र-
कृत्सूचयतीति। तथा च न सर्वथा संसारनिवृत्तिरूपमोक्षः कर्मसाध्य इ-
ति तदर्थं वैराग्यादिकमावश्यकमिति नोक्तविरोध इति भावः। अत्र त-
तत्त्वप्रदीपे-परम्परयाऽमृतत्वफलकत्वमपि नाङ्गीकृतकर्मणः, किन्तु ज्ञानि-
कृतस्यैवेत्याशयेन पारम्पर्येणात्मविदपेक्षया वा तदमृतत्वमिति एकवा-
क्यतया भाष्यं व्याख्याय, 'कर्मणा ज्ञानमातनोति' ( ) इत्या