सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 749, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 749

Here is the line-by-line transcription of the Sanskrit text from the page into Devanagari Markdown:

७०२ ब्रह्मसूत्रभाष्यम्. [ अध्या- ३. पा - १. ]
ति' इति कौण्डिन्यश्रुतौ प्रतीतेः ॥ ६ ॥
——
७. अधिकरणम् ॥
( १ ) 'अपामसोमममृता अभूम' (ऋ. ८-४८-३.) इत्यादि
श्रुतिविरोध इति ।
( २ ) अतो वक्त—
'किं' वस्तु न जहातीति । अस्योत्तरमाह—भूतानीति । एवशब्दो वि
परिणतेन जहातीत्यनेन सम्बध्यते । तत्र हेतुः—भूतैरित्यादि । भूतैः
सहैव परं लोकं गच्छतीत्यर्थः । एवमुत्तरत्रापि सहैवेत्यर्थः । 'भुङ्क्ते'
पुण्यफलं 'उत्पद्यते' भूमौ 'चरति' सञ्चरति सत्कर्म करोतीति वा
'विचरति' विरुद्धं दुष्टं कर्माचरति करोतीत्यर्थः । सौत्रादिपदार्थेऽ
प्येवैव श्रुतिः प्रमाणम् । यद्वा—आदिपदोपात्तपूर्तादिकृतामपि भूतै
स्सह गतौ श्रुत्यन्तरमस्तीति ज्ञातव्यम् । प्रतीतेरित्यनेन इष्टादिकारि
णामिति सौत्रपदं संयोज्यम् । तथा च इष्टादिकारिणां यागपूर्तादिकृतां
भूतैः सहैव गतेः 'प्रतीतेः' प्रत्यक्षत एव श्रवणादित्यर्थः ॥ ६ ॥
॥ इति अश्रुतत्वाधिकरणम् ॥
—
—
७. अधिकरणम् ॥
(१) अत्राधिकरणे भगवत्प्राप्त्यर्थं कर्मणामस्थिरफलकत्वोक्त्या वै
राग्यादेरावश्यकसाधनत्वं समर्थ्यते । पूर्वपक्षयति—अपामेति ॥ तर्ही
त्यादौ अध्याहार्यम् । तत एव यदीति लक्ष्यते । आदिपदेन 'अक्षय्यं ह वै
चातुर्मास्ययाजिनः सुकृतं भवति' (आप.श्रौ.८-१-१.) इत्यादिकं गृह्यते।
तथा च यद्यधिकरणषट्कोक्तरीत्या मरणमात्रेण मोक्षाभावात्तदर्थं मु
मुख्युणाऽवश्यमनुष्ठेयं वैराग्यादिसाधनम्, तर्हि 'अपाम' इत्यादिश्रुति
विरोधः, तन्न विना वैराग्यादिकं कर्मादिनैव मोक्षोक्तेरित्यर्थः । तत्त्वप्र
दीपे तु तदन्तरप्रतिपत्तावित्यादौ इष्टादिकारिणां धूमादिमार्गेण स्वर्गं
गतानां पुनरावृत्तिरभिप्रेता, तर्हि 'अपाम' इत्यादिश्रुतिविरोध इत्या
क्षेपाभिप्राय उक्तः । इष्टशेषं सोमं 'अपाम' अपिबाम, अतोऽमृताः
मुक्ता अभूम । सुकृतमक्षय्यं मोक्षमिति पूर्वपक्षे श्रुत्यर्थः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ तदमृतत्व
मिति द्वे पदे । तथा च यस्मात् 'तदमृतत्वं' अपामेति श्रुत्युक्तममृत