पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 7, कुल 1267 में से
संदर्भ में पढ़ें( ६ )
२. न वियदश्रुतेः द्वितीयसूत्रं पूर्वपक्षसूत्रमिति उभौ मन्ये
२-३-१ ते। कानि कानि सूत्राणि पूर्वपक्षसूत्रा
णीति विषये अस्मदुक्तचतुर्थपरिशिष्टः द्रष्टव्यः ॥
॥ द्वितीयकारणम् ॥
ब्रह्मसूत्रेषु अध्यायविभागः पादविभागश्च अस्ति न अधिकरणवि
भागः, अतः भाष्यकाराः स्वेच्छानुसारेण विषयकल्पनं कृत्वा अधि
करणविभागं अकुर्वन् ॥
शङ्करभाष्यप्रकारेण अधिकरणानि .. .. १९२
रामानुजभाष्यप्रकारेण ,, .. .. १५६
मध्वभाष्यप्रकारेण ,, .. .. २२३
अत्र अस्मदुक्तपञ्चमपरिशिष्टः द्रष्टव्यः ॥
॥ तृतीयकारणम् ॥
सूत्राणि विशेषेण अध्याहारापेक्षानि, भाष्यकाराः इच्छानुसारे
ण पदान्यध्याहृत्य वाक्यानि पूरयन्ति । यथा प्रान्तस्थितसूत्रे
३. न वियदश्रुतेः॥ २-३-१ “उत्पद्यते” इति शङ्कररामानुजौ
अध्याहरतः “अनुत्पत्तिमत्” इति मध्वाचार्यः अध्याहरति। किंच
कश्चित् भाष्यकारः कचित् स्थले अध्याहरति कश्चित् नाध्याहरति,
यथा प्रान्तस्थितसूत्रे
४. कार्यं बादरिरस्य गत्युपपत्तेः ॥ “कार्यं प्रति” इति मध्वशङ्क
४-३-७ रौ व्याख्याय न किंचित् अध्या
जहतुः। “कार्ये ये उपासते तान्” इति रामानुजो व्याख्याय उपास
ते इति पदं अध्याजहार ॥
॥ चतुर्थकारणम् ॥
संस्कृतभाषायां शब्दाः अनेकार्थकाः भाष्यकाराः तेषां स्वाभिप्रा
यानुसारेण अर्थं स्वीकुर्वन्ति, यथा प्रान्तस्थितप्रथमसूत्रे
१. अन्तरा विज्ञानमनसी क्रमेण तल्लि अन्तराशब्दः विनार्थक इ
ङ्गादिति चेन्नाविशेषात् । ति मध्वाचार्यः। मध्यार्थक