पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 644, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १६. सू - ३१. ] दीपिकासहितम्. ५९७
स्य त्वनित्यः । इति च भारते ॥ ३० ॥
-: * :-
१६. अधिकरणम् ॥
( १ ) ‘विज्ञानात्मा सह देवैश्च सर्वैः ' ( प्र.४-११.) ‘स आ-
नन्दः स परेणामुं लोकं नीयते स विमुच्यते' इति
जीवस्य ज्ञानानन्दादिरूपत्वमुच्यते । ‘स दुःखाद्वि-
मुक्त आनन्दीभवति । सोऽज्ञानाद्विमुक्तो ज्ञानीभवति ।
पदघटितोऽन्यः पादः स्थलान्तरंगतः । अत एव न पुनरुक्तिः । धातु-
स्त्वित्यन्वयः । उभयत्रापि तुशब्दो वैलक्षण्यद्योतकः । भारत इत्यन-
न्तरं वचनमिति शेषः । आग्निवेश्यश्रुतिर्वचनमित्युभयत्रापि यत इति
शेषः । अस्यैवं जीवोऽपीति पूर्वेणान्वयः । चशब्दः श्रुतिस्मृतिसमुच्च-
यार्थः ॥ १५ ॥
इति यावदधिकरणम् ॥
-: * :-
१६. अधिकरणम् ॥
( १ ) अत्राधिकरणे जीवस्य आनन्दादिरूपत्वतदभावश्रुत्योर्विरो-
धः परिह्रियते । श्रुतिविरोधरूपं सन्देहबीजं दर्शयति-विज्ञानात्मेति ॥
विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र ।
तदेतदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेश ॥
इति षट्प्रश्नश्रुतिः । ‘स आनन्दः' इति श्रुत्यन्तरम् । इतीति । इत्या-
दिश्रुतिभिरित्यर्थः । सोम्येति कस्य चित्सम्बोधनम् । तुशब्दोऽवधार-
णे । तथा च ‘विज्ञानात्मा' विज्ञानस्वरूपो जीवः ‘प्राणाः' चक्षुरा-
द्याः तद्विषयाश्च रूपादयः ‘भूतानि' पृथिव्यादीनि तन्मात्राश्च ‘सर्वै-
र्देवैः' अभिमानिभिः सूर्यादिभिः सह ‘यत्र' यस्मिन् अक्षरे ब्रह्मणि
सम्प्रतिष्ठन्ति । तदेतदक्षरं यः पुरुषो ‘वेदयते' विजानाति ‘सः' उ-
क्तप्रकारेण सर्वज्ञः ‘सर्वं' पूर्णं परं ब्रह्म ‘आविवेशैव' ध्रुवमाविश-
त्येवेति प्रथमश्रुत्यर्थः । ‘सः' जीवः ‘आनन्दः' आनन्दरूपः । एवं ब-
लरूपः ओजोरूपः ‘परेण' परमात्मनाऽमुमामुष्मिकं लोकं प्रति नीय-
ते । तत्पूर्वं तेनैव देहसम्बन्धाद्विमुच्यत इति द्वितीयश्रुत्यर्थः । आन-
न्दादिगुणानां प्रत्येकमभेदे तात्पर्यज्ञापनार्थं स इत्यभ्यासः । स परेणे-
त्यधिकांशोदाहरणं अस्य ईश्वरविषयतानिरासाय । एवं पूर्ववाक्य