पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 643, कुल 1267 में से
संदर्भ में पढ़ें५९६ ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ३. ]
सू—ॐ ॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ॐ॥ ३० ॥
यावत्परमात्मा तिष्ठत्यनाद्यनन्तत्वेनैवं जीवोऽपि ।
( ३ ) ‘नित्यः परो नित्यो जीवोऽनित्यास्तस्य धातवः । अत
उत्पद्यते च म्रियते च विमुच्यते च’ इति च आग्नि-
वेश्यश्रुतिः ।
( ४ ) आत्मा नित्यस्सुखदुःखे त्वनित्ये, जीवो नित्यो धातुर
नेन आत्मशब्दो व्याख्यातः । ‘तिष्ठति’ अस्तीत्यनेन भाविशब्दः ,
‘अनाद्यनन्तत्वेन’ उत्पत्तिनाशशून्यत्वेनेति सत्त्वप्रकार उक्तः । ‘एवं’
तावत्कालं जीवोऽपि तिष्ठतीत्यनेन सूत्रे इहत्वनुवृत्तिस्सूचिता । न
केवलं परमात्मा किन्तु जीवोऽपीति समुच्चये अपिशब्दः । अनेन बिम्ब-
स्य परमात्मनोऽनाद्यनन्तत्वात् जीवस्वरूपोपाधेश्च यावदात्मभावि-
त्वात् परमात्मनोऽनन्तत्वेन बिम्बोपाधिसन्निधेरनाद्यनन्तत्वात् नित्य-
त्वादिति हेतुसमुच्चायकतया सौत्रचशब्दो व्याख्यातः । न दोष इति
साध्यांशः अनादिकर्मसम्बन्धः आनन्त्यावाप्तिश्च न युज्यत इत्युक्तो
दोषो नेति पूर्वपक्षफलकथनपरभाष्येणैव व्याख्यातप्रायत्वात् पुनर्न
व्याख्यातः । अनेनैव ‘सोऽनादिना’ इति श्रुत्यप्रामाण्यदोषोऽपि नेत्यपि
व्याख्यातः ॥
( ३ ) कुत एतदखिलं सिद्धमित्यतः तत्र प्रमाणप्रदर्शकत्तया तद्-
र्शनादिति सूत्रखण्डं योजयति—नित्य इति ॥ बिम्बभूतः ‘परः’ पर-
मात्मा नित्यः । तथा ‘जीवः’ प्रतिबिम्बनोपाधिभूतः जीवस्वरूप-
प्रकाशो ‘नित्यो’ यावत्परमात्मभावी । न चैवं ‘ब्रह्मन् लयमभ्युपै-
ति’ इति जीवस्य ब्रह्मणि लयश्रुतिविरोध इत्याह—अनित्या इति ।
यतस्तस्य जीवस्य ‘धातवो’ बाह्यदेहाः अनित्याः अतो जीवा उत्पद्य-
न्ते ‘म्रियन्ते’ नश्यन्ति इत्युच्यन्ते । तथा च श्रुतेरुपाधिविषयत्वात् न
तद्विरोध इति भावः। स्वरूपतोऽविनाशित्वादेव जीवो देहबन्धात् ‘वि-
मुच्यते’ आनन्त्यावाप्तिरूपमुक्तिभागी च भवतीति श्रुत्यर्थः । चशब्दः
क्रियासमुच्चये ॥
( ४ ) सूत्रे दर्शनाच्चेत्यपि चशब्दान्वयेन सूचिते स्मृती दर्शय-
ति—आत्मेति ॥ सुखदुःखपदाभ्यां बाह्योपाधिरुपलक्ष्यते । अत एव
टीकायाम्—धात्वादिपदोदितेत्युक्तम् । भारते आत्मेति पादः एक-
स्थानस्थितः। आत्मेत्यस्य सुखदुःखेत्यस्य च व्याख्यानरूपो जीवधातु