सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 599, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 599

५५२ ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ३. ]
नैरूक्तिरुभयकारणत्वनिवृत्त्यर्थम् ॥ १० ॥
५. अधिकरणम् ॥
( १ ) सू— ॐ ॥ आपः ॥ ॐ ॥ ११ ॥
'ब्रह्मैवेदमग्र आसीत्तदपो सृजत तदिदं सर्वम्' इति
श्रुतेः 'अग्नेरापः' ( तै. २ - १० ) इत्युक्तेऽपि ब्रह्मण
एवाबादिस्सृष्टिः ।
शेषः । अविरोधादिति भावः ॥ ४ ॥
इति तेजोधिकरणम् ॥
५. अधिकरणम् ॥
( १ ) अत्राधिकरणे अब्जन्मविषयश्रुतिविरोधः परिह्रियते ।
'अग्नेरापः' इतिश्रुतेः अग्नेरापोऽजायन्त इति पूर्वपक्षे सिद्धान्तय
त्सूत्रमुपन्यस्य व्याचष्टे—आप इति ॥ श्रुतेरित्यनेन सूत्रे 'तथा ह्याह'
इत्यस्यानुवृत्तिस्सूचिता । ब्रह्मण इत्यनेन अत इत्यस्य एवेत्यनेन तुशब्द
स्यैवार्थस्य अनुवृत्तिस्सूचिता । श्रुतेर्ब्रह्मण इति पञ्चम्यौ । 'अग्नेरापः'
इत्युक्तेऽपीत्यनेन एवकारव्यावर्त्यः सयुक्तिकपूर्वपक्षोऽपि दर्शितः ।
अपिः शङ्कापरिहारसमुच्चयार्थः । न त्वन्यतोऽग्नेरित्येवकारार्थः । अ
बादीत्यादिपदं तु भूतवायुपृथिव्योषध्यादीनां उपलक्षणमप्पदमिति
सूचनार्थम् तेषामपि 'आकाशाद्वायुः' ( तै. २-१-१. ) इति सयुक्ति
कश्रुतिरूपपूर्वपक्षन्यायप्राप्तत्वात् । 'इदं सर्वमसृजत' ( बृ. ३-२-५. )
इति सिद्धान्तश्रुतिरूपन्यायप्राप्तत्वाच्च । अत एव 'इदं सर्वम्'
इति श्रुत्यंशोदाहरणम् । सृष्टिरित्यनेन सूत्रे जायन्त इति शेषो
दर्शितः । सृष्टिरपीत्यपिशब्दान्वयेन अनुवृत्ततुशब्दः आपोऽपीत्यर्थ
तयाऽपि व्याख्यातः । तथा च यद्यपि 'अग्नेरापः' इत्युक्तं घर्मात्स्वेदा
दिकं च दृष्टम् । तथाऽपि 'अग्नेराप इत्युक्तेऽपि' तथा श्रुतावपि घर्मा
त्स्वेदादिदर्शनेऽपि नाग्न्यादेरबादिस्सृष्टिः मन्तव्या, किन्तु ब्रह्मण एवा
बादिसृष्टिर्भवति । कुतो ? 'ब्रह्मैवेदम' ( ) इति श्रुतेरिति
योजना । 'इदम्' अस्य 'अग्रे' प्रलये ब्रह्मैवासीत् । तद्ब्रह्मापो सृजत ।
'इदं सर्वं' भूतवाय्वादिकं तद्ब्रह्म ततो जातमेवेति श्रुत्यर्थः ॥