सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 454, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 454

[ अधि - २. सू - ५० ] दीपिकासहितम्. ४०७
भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः ।
पुराणानि च यानीह वैष्णवानि विदो विदुः ॥
स्वतः प्रामाण्यमेतेषां नात्र किञ्चिद्विचार्यते ॥
(६) यद्येषूक्तं न दृश्येत पूर्वकर्मात्र कारणम् ।
चैवं टीकायां वाशब्दानुपपत्तिः। कर्मवैगुण्यशून्यत्वं वा प्रतिबन्धकक
र्मशून्यत्वं वा तत्फलयोग्यत्वमिति योजनोपपत्तेः। अनेन तुशब्दा
र्थो दर्शितः। केचित्तु—योग्यत्वमन्यत् । कर्मवैगुण्यप्रतिबन्धादिशू
न्यत्वं चान्यत् । अतएव टीकायां वाशब्दः। तथाचाधिकारिणामित्य
स्य योग्यानां कर्मवैगुण्यप्रतिबन्धादिशून्यानां चेति द्वेधार्थ इत्याहुः।
'फलं' वेदोक्तं कारीर्यादिसाध्यं वृष्ट्यादि। अस्य दृश्यत इत्यनेनान्व
यः। द्रष्टृभिर्यत इति शेषः। अस्य न फलादर्शनेन श्रुत्यादेरप्रामाण्यं
वक्तव्यमित्युपस्कृतसाध्येनान्वयः। फलादर्शनस्य कर्तुरयोग्यतयोपप
त्तेरिति भावः। अधिकरणार्थे स्मृतिं चाह—भविष्यत्पुराणे चेति। ए
तदधिकरणार्थ उक्त इति शेषः। न केवलं सूत्रे, किन्तु भविष्यत्पुरा
णे चेति वा, न केवलं 'न चक्षुः' इत्यादिश्रुतिस्मृतिषु, किन्तु पुराणे
चेति वा चशब्दार्थः। तद्वाक्यं पठति। ऋगिति । तथाचशब्दस्समु
च्चये। ऋक् यजुश्च साम च अथर्वश्चेत्येवमाख्या येषां ते तथोक्ताः ग्र
न्था इति शेषः। अवान्तररामायणव्युदासाय मूलरामायणमिति । ए
ते सर्वे वेदा इत्येव शब्दिता इत्यर्थः। तथा च ये ऋगादिरूपाः वेदश
ब्दवाच्याः, 'विदः' ज्ञानिनो यानीह पुराणेषु मध्ये वैष्णवानि विदुः
एतेषां 'स्वतः' फलसंवादादिरहितनिर्दोषतयैव 'प्रामाण्यं' यथार्थ
ज्ञानकरणत्वरूपं सिद्ध्यतीति शेषः। ये ऋगादयो वैष्णवपुराणान्ताः वे
दा इत्येव शब्दिताः एतेषां स्वत एव प्रामाण्यमिति वा। 'अत्र' स्वतः
प्रामाण्यविषये 'न किंचित् निमित्तं विचार्यते' न केनापि निमित्तेन
संशयोऽस्तीत्यर्थः। यद्वा—अत्र तेषां प्रामाण्यग्रहे 'किञ्चित्' संवादादि
कं 'न विचार्यते' न मृग्यत इत्यर्थः। अनेन यत्स्मृतीनां वेदानुसारित्व
मुक्तं यच्च श्रुत्यादेः स्वतः प्रामाण्यमाद्यसूत्रे तत्प्रमापितं भवति ॥
(६) ननु फलविसंवाददर्शनेन तेषामप्रामाण्यमेव किं नोच्यत इ
त्यत आह—यदीति ॥ यदि 'एषु' वेदवेदानुसारिषु 'उक्तं' फलं न
दृश्येत तदुक्तसाधनानुष्ठानेऽपीति शेषः। तर्हि 'पूर्वकर्म' जन्मान्तरी
यं फलप्रतिबन्धकादृष्टं कर्मवैगुण्यं, प्रतिबन्धादिरूपायोग्यत्वस्याप्युप