सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 453, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 453

४०६ | ब्रह्मसूत्रभाष्यम्. | [ अध्या - २. पा - १. ]


( ऋ. ८-६४-६. ) इत्यादेः । ' अनादिनिधना नित्या '
इति च स्मृतिः ॥ ४ ॥
( ५ ) सू—ॐ ॥ दृश्यते तु ॥ ॐ ॥ ५ ॥
अधिकारिणां फलम् । भविष्यत्पुराणे च—
ऋग्यजुस्सामाथर्वाश्च मूलरामायणं तथा ।


वाचेति ॥ इत्यादेः शब्दादेवेत्यन्वयः । न प्रकृताद्वेदादन्यत्प्रमाणं गवे
षणीयमित्येवशब्दार्थः । परेणापि प्रमाणत्वेनाङ्गीकृतादेवेति वा । 'ऋ
चस्सामानि जज्ञिरे'(तै.आ.३-१२-४.)इत्युत्पत्तिश्रुतेर्बहुकालीनतामात्रेण
नित्यत्वोपचारः किं न स्यादित्यतः तदुत्तरत्वेन शब्दादित्येतत्स्मृतिप
रतयाऽपि व्याख्याति—अनादीति ॥ श्रुतिस्मृत्योस्समुच्चये चशब्दः ।
स्मृतिरिति । यतोऽस्तीति शेषः । अस्यातो न वेदनित्यत्वमुपचरितं,
उत्पत्तिश्रुतिस्तु व्यक्त्यभिप्रायेत्युपस्कृतसाध्येनान्वयः । अत एव इ
त्यादेरित्यनेन न स्मृतेस्सङ्ग्रहः, किन्तु श्रुतिशेषस्य वा श्रुत्यन्तर
स्य वा ग्रहणमित्याशयेन स्मृतेः पृथगुपादानमिति ध्येयम् । श्रुतिस्मृ
ती तु देवताधिकरणे व्याख्याते । अनेन— ' अस्य ' श्रुत्यादेः ' तथा
त्वं ' पाशुपतादिस्मृतिवदुक्तानुपलब्धेरप्रामाण्यं न, कुतः ? यतोऽस्य
' न तथात्वं ' न दोषत्वम् । कुतो ? विलक्षणत्वात् श्रुतेर्नित्यत्वाख्यवैल
क्षण्येन स्मृतेस्तादृग्वैदानुसारित्वरूपवैलक्षण्येन युक्तत्वात् । एवं फ
लव्यभिचारेऽपि नावैष्णवस्मृतिवदप्रामाण्यम् । अस्य 'विलक्षणत्वात् '
स्वतःप्रामाण्योपेतत्वात् । अस्य ' तथात्वं ' नित्यत्वं तु ' वाचा विरूप
नित्यया ' इत्यादेः शब्दादेव प्रतीयते । न चायमुपचारः । 'अनादिनिध
ना'इति स्मृतेः । न चास्य स्वतः प्रामाण्यासिद्धिः । 'न चक्षुः' इत्यादेः
शब्दात्तत्सिद्धेः, विपक्षेऽनवस्थाबाधकाच्च । ' अस्य ' पाशुपतादेस्तु
' न तथात्वं ' फलव्यभिचारेऽपि प्रामाण्यादिकं कल्प्यं, कुतः ? यतो
ऽस्य ' न तथात्वं ' निर्दोषत्वं स्वतः प्रामाण्यादिकं च निश्चितमिति सू
त्रार्थ उक्तो भवति ॥
(५) ननु श्रुत्यादेः स्वतः प्रामाण्यवादिनोऽपि दोषदर्शनेऽप्रामा
ण्यस्यावश्यं ग्राह्यत्वात् , वेदेऽपि स्वोक्तफलादर्शनात् दोषादप्रामा
ण्यमेव वक्तव्यमित्याशङ्कां परिहरन्सूत्रमुपन्यस्य तुशब्दार्थप्रदर्शनपूर्व
कं तच्छेषं पूरयति—दृश्यते त्विति ॥ अधिकारिणामिति सम्बन्धे ष
ष्ठी । कर्मवैगुण्यप्रतिबन्धादिशून्यत्वरूपयोग्यत्वशालिनामित्यर्थः । न