सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 397, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 397

३५० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
(१०) यत्तत्सूक्ष्मं परमं वेदितव्यं नित्यं पदं वैष्णवं ह्यामनन्ति ।
यत्तल्लोका नविदुर्लोकसारं विन्दन्त्येतत्कवयो योगनिष्ठाः ॥
इति च पिप्पलादशाखायाम् ।
(११) मुख्ये च विद्यमाने नामुख्यं युक्तम् ॥ २ ॥
पि प्रकृते किमायातमित्यतः सूक्ष्मपदं भावप्रधानं कृत्वा समग्रं सूत्रं
प्रकारान्तरेण व्याचष्टे—सूक्ष्मत्वं चेति ॥ चस्त्वर्थः, अव्यक्तत्वसमु
च्चये च, जीवादिपदप्रवृत्तिनिमित्तप्राणधारकत्वादिसमुच्चये च । त
था च यतस्तदव्यक्तशब्दप्रवृत्तिनिमित्ताव्यक्तत्वोपयोगिसूक्ष्मत्वं तु
‘तस्य’ विष्णोरेवार्ह मुख्यमतिशयितमस्ति । अतस्तदव्यक्तमपि त
स्यैव मुख्यम् । अतोऽतिमुख्यनिमित्तत्वात्स एव परममुख्यतः तद्व्य
क्तं ‘तत्पदेनोच्यते’ जीवादि शब्देनोच्यते इति सूत्रभाष्ययोस्स
म्बन्धः ॥
(१०) कुतो विष्णोर्मुख्यसूक्ष्मत्वं, येन तस्य मुख्याव्यक्तत्वं स्या
दित्यतस्तस्य विष्णोर्मुख्यसूक्ष्मत्वस्य प्रमाणविषयतार्हत्वादेवेत्यपि सू
त्रवृत्तिमभिप्रेत्य तत्सूचितां श्रुतिमाह—यदिति ॥ यत् 'लोकसारं' लोको
त्तमं 'वैष्णवं पदं' विष्णुस्वरूपं 'तत्परमं सूक्ष्मं' मुख्यं सूक्ष्मं 'वेदित
व्यम्' ज्ञातव्यमिति 'आमनन्ति' 'एषोणुरात्मा चेतसा वेदितव्यः' (मुं०.
३-१-९.) इत्याद्याथर्वणिकाः पठन्ति । यच्च 'लोकाः' पामराः न विदुः,
'तदेतत्' विष्णुस्वरूपं 'योगनिष्ठाः' ब्रह्मणि मनोयोगनिष्ठाः उपाय
सिद्धाः 'कवयो' ज्ञानिनो 'विन्दन्ति' साक्षात्कुर्वन्ति इति 'हि' प्र
सिद्धमिति श्रुत्यर्थः । शाखायामित्यस्य यत उक्तमित्यध्याहारेण सू
क्ष्मत्वं चेत्यनेनान्वयः । एवं जीवादि शब्दप्रवृत्तिनिमित्तप्राणधारणादी
नां भगवति मुख्यत्वे—
स जीवनामा भगवान् प्राणधारणहेतुतः ।
उपचारेण जीवाख्या संसारिणि निगद्यते ॥
इति गीतातात्पर्योदाहृतप्रमाणमन्यच्चोदाहर्तव्यम् ॥
(११) नन्वस्तु विष्णौ मुख्यमव्यक्तादिशब्दप्रवृत्तिनिमित्तं, तथाऽ
पि 'अव्यक्तात्पुरुषः ' इत्यादौ न तस्य वाच्यता, किन्त्वमुख्याव्यक्त
त्वादिमत्प्रधानादेरेवेत्यतस्तन्न पूर्वसूत्रे उक्तेरित्यनुक्त्वा गृहीतेरित्यु
क्त्या सूचितां युक्तिमाह—मुख्ये चेति ॥ चोऽवधारणे । मुख्यासम्भ
वे तु गौणग्रहणं युक्तमिति व्यतिरेकसूचको वा । तथा च 'मुख्ये'