पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 349, कुल 1267 में से
संदर्भ में पढ़ें३०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
ति वैषम्यमिति भावः । अनेनोत्तरकाले देवताभावविरोधः कर्मण्यपि
समान इति सौत्रशब्देन कर्माप्युपलक्षणीयमित्युक्तं भवति । न चैव
मत्रापि विरोधपदाकर्षणमिति टीकाविरोधः । ‘तदुपरि’ इतिसूत्रा
दपेरनुकर्षोक्तेः तस्य च न केवलं शब्दे उत्तरकाले देवताभावविरोधः,
कर्मण्यपीत्येतदर्थकत्वादिति वाच्यम् । आकर्षणशब्दस्यान्वयार्थत्व
माश्रित्य न केवलं पूर्वसूत्रे विरोधपदान्वयः, किन्त्वेतत्सूत्रेऽपीति टी
कार्थाङ्गीकारेणापि विरोधपदयोराकर्षणमित्यर्थानभ्युपगमात् । अस्तु
वा द्वन्द्वः, तथापि नानुषपत्तिः, अपेः स्वरूपनित्यत्वाभावेऽपीत्यर्थाभ्यु
पगमेन कर्मसमुच्चयार्थत्वानभ्युपगमात् । अत एव टीकायां देवानां
स्वरूपनित्यत्वाभावेऽपीत्युक्तिः । अत्र नित्यत्वसाधकयोः श्रुत्यनुमान
योः समुच्चये एकश्चशब्दः । अनित्यत्वबाधकस्य नित्यत्वे तदभावस्य च
समुच्चयेऽन्यः । अनित्यत्वान्यभावनियमाभावयोः समुच्चयेऽपर इति
विवेकः ।
‘तस्मै नूनमभिद्यवे वाचा विरूप नित्यया ।
वृष्णे चोदस्व सुष्टुतिम’ (ऋ. ८-७५-६०)
इति ऋग्यजुर्मन्त्रार्थस्तु न विलक्षणत्वाधिकरणटीकायामुक्तः । तत्र य
द्यपि विरूपेति स्वात्मानं प्रति सम्बोधनमित्युक्तेः विष्णुतत्त्वनिर्णयटी
कायां विरूपाख्यऋषेस्सम्बोधनमित्युक्तेश्च विरोधो भाति । तथापि
विरूपर्षिकर्तृकं स्वान्तर्यामिसम्बोधनमिति तदर्थाभ्युपगमान्न विरो
धः । उक्तं हि तत्त्वप्रदीपे-प्रेरयेति प्रार्थनं विरूपस्य ऋषेरन्तर्यामि
विषयमिति । विरूपकर्तृकं तदुद्देश्यकं संबोधनमिति पक्षेऽपि स्वात्म
शब्दितस्वजीवं प्रति सम्बोधनमिति टीकार्थाभ्युपगमान्न विरोधः ।
अस्मिन् पक्षे तत्त्वप्रदीपोक्तं व्याख्यानान्तरं भविष्यति । न च पद्मना
भतीर्थकृतविष्णुतत्त्वनिर्णयटीकायां न्यायरत्नावल्यां धर्मेण विरूपर्षि
प्रत्येतदुच्यत इत्युक्तत्वात्तद्विरोध इति वाच्यम् । प्रथमं यमदृष्टस्य म
न्त्रस्यानन्तरं विरूपेणापि दृष्टत्वसम्भवेन तदा स्वसम्बोधनसम्भवेना
विरोधात् । तथा च हे विरूप अभितो द्यौः प्रकाशो यस्यासावभिद्युः,
तस्मै ‘वृष्णे’ वर्षिणे अतिसमर्थायेति वा । तत्त्वप्रदीपरीत्या वृषा श्रेष्ठ
स्तस्य चतुर्थी वृष्णे इति वा । तस्मै भगवते एनमुद्दिश्य ‘नूनं’ नि
श्चितं ‘नित्यया’ अनादिनिधनया वेदलक्षणवाचा ‘सुष्टुतिं’ शोभनां
स्तुतिं ‘चोदस्व’ प्रेरय कुर्वित्यर्थः ॥