पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 23, कुल 1267 में से
संदर्भ में पढ़ें( २२ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका.
अधि०। सूत्र०। विषयाः ।
रोति इति निरूपणम् ॥
२५ ४३ ब्रह्मसाक्षात्कारार्थं श्रवणमननध्यानरूपोपासना कर्त
व्या , श्रवणेन तत्त्वज्ञानं , मननात् तन्निश्चयः ,
ध्यानात् अपरोक्षः इति निरूपणम् ॥
२६ ४४ केवलं श्रवणमात्रेण ज्ञानं न संभवति , गुरुप्रसादपू
र्वकश्रवणेनैव ज्ञानं इति निरूपणम् ॥
२७ ४५ गुरुप्रसादः बलीयान् इति निरूपणम् ॥
२८ ४६-४७ पूर्वगुरुसमानश्चेत् गुर्वनुज्ञया अन्यगुरुः स्वीका
र्यः अधिकश्चेत् पूर्वानुज्ञां विनैव अन्यगुरुः स्वी
कार्यः इति निरूपणम् ॥
२९ ४८-४९ अपरोक्षज्ञानमेव मोक्षकारणमिति निरूपणम् ॥
३० ५० “ज्ञानात् मोक्षः” इति वचनं ‘कर्मणा मोक्षः’ इति वच
नेन बाधितं न भवतीति निरूपणम् ॥
३१ ५१ ब्रह्मदर्शनं श्रवणादिमात्रेण न भवति, किन्तु हरिगुरु
भक्तिशमदमादिभिश्च इति निरूपणम् ॥
३२ ५२ यथातथा उपासनाभेदः तथातथा दर्शनभेदः इति नि
रूपणम् ॥
३३ ५३ सामान्यतः भगवदवतारदर्शनात् न मुक्तिः, किन्तु
स्वयोग्यरूपदर्शनादेव मुक्तिः इति निरूपणम् ॥
३४ ५४ परमात्मप्रसादादेव अपरोक्षज्ञानं, न भक्तिमात्रेण इ
ति निरूपणम् ॥
३५ ५५-५६ उपासना तत्तज्जीवयोग्यताऽनुसारिणी इति निरूपणम्॥
३६ ५७-५८ अप्रधानत्वेन अन्यदेवता अपि उपास्याः, तत्रापि अ
धमगुणाः उत्तमेषु उपसंहार्याः, न उत्तमगुणाः अ
धमेषु इति निरूपणम् ॥
३७ ५९ पूर्णत्वरूपगुणेन परमात्मा उपास्यः इति निरूपणम्॥
३८ ६० परमात्मगुणेषु पूर्णत्वं जीवानां योग्यताऽनुसारेण प्रती
यते इति निरूपणम् ॥
३९ ६१ योग्यताऽनुसारेण कर्तव्योपासनानन्तरं अन्यरूपोपास
नाऽपि इच्छानुसारेण कर्तव्या इति निरूपणम् ॥