पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 210, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १. सू - ५. ] दीपिकासहितम्. १६३
( १३ ) सू—ॐ ॥ शब्दविशेषात् ॥ ॐ ॥ ५ ॥
‘एतमेव ब्रह्मेत्याचक्षते’ ( ऐ. आ. ३-२-३. ) इति ।
( १४ ) न हि जीवमेव ब्रह्मेत्याचक्षते ।
( १३ ) यदुक्तंब्रह्मशब्दात् विष्णुरेव सर्वगत इति । तदयुक्तम्,
ब्रह्मशब्दस्य जीवेऽपि वृत्तेः । न चासौ जीवेऽमुख्य इति तद्ग्रहः । चक्षु
र्मयत्वादिबाधकबलेनामुख्यार्थस्यापि ग्रहणोपपत्तेः । न च द्वितीयसू
त्रोक्तबाधकान्न जीवः ‘श्रुत्वाप्येनं वेद न चैव कश्चित्’ इति गीता
यां जीवस्याश्रुतत्वादिश्रवणात्, तृतीयोक्तस्य च विष्णावपि साम्या
त् । नापि तुरीयोक्तचक्षुर्मयत्वादिबाधकेन, एकस्यैव कर्मत्वकर्तृत्व
योः उपपत्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहर
ति--शब्देति ॥ भाष्यस्य सूत्रेणान्वयः । तथा च ‘एतमेव ब्रह्मेत्याच
क्षते’ इति वाक्ये हेतुत्वेन प्रकृतब्रह्मशब्दस्य ‘विशेषात्’ सावधारण
त्वरूपविशेषवत्त्वादित्यर्थः । अस्य नानेन ब्रह्मशब्देन शारीर उच्यते
इति लब्धसाध्येनान्वयः । अनेनैवकारो विधेयपदसङ्गतः, तच्छिर
स्कब्रह्मशब्दश्च मुख्यब्रह्मत्वार्थकः । स च जीवे न युक्त इत्युक्तं भव
ति । यद्वा—एवकार एतमित्युद्देश्यवाचिपदेनैव सङ्गतोऽन्ययोगव्यव
च्छेदार्थकः । न चैवं ब्रह्मशब्दस्य सावधारणत्वाप्राप्तिरिति वाच्यम् ।
एवकारार्थावधारणस्यान्ययोगव्यवच्छेदस्यान्यस्मिन् ब्रह्मत्वयोगव्य
वच्छेद इति विवरणे ब्रह्मशब्दार्थब्रह्मत्वसम्बन्धात् ब्रह्मशब्दस्य साव
धारणत्वप्राप्तेः । यद्यपि न शारीर एतच्छब्दार्थः । कुतः ? तस्य एव
कारार्थप्रतियोगिवाचकब्रह्मशब्देनैव विशेषितत्वादिति सूत्रवृत्तिस्स
म्भवति । तथाऽपि न सा टीकोक्तेति न कैरपि प्रदर्शिता ॥
( १४ ) सावधारणत्वेपि ब्रह्मशब्दस्य कुतो न जीवे वृत्तिरित्यत आ
ह—न हीति ॥ हिशब्दः प्रसिद्धौ हेतौ च । कवय इति शेषः । कुत इ
ति चेत् एवकारशिरस्कब्रह्मशब्दवाच्यत्वे जीवस्य मुख्यब्रह्मत्वं स्या
त्, तच्च नोपपद्यते । तस्यामुख्यब्रह्मत्वेन प्रसिद्धत्वादिति भावः । एव
मेवकारस्योद्देश्यसम्बन्धेनान्ययोगव्यवच्छेदकत्वेऽपि पूर्वपक्षे एतच्छ
ब्दार्थत्वेन अभिमतजीवादन्यस्य ब्रह्मत्वं निषिद्धं स्यात् । तच्च नोपप
द्यते । जीवादन्यस्य परमात्मनो मुख्यब्रह्मणो जात्यादेरमुख्यब्रह्मणश्च
सत्त्वेनान्यस्य ब्रह्मत्वसम्बन्धनिषेधायोगादित्यपि द्रष्टव्यम् । तत्त्वप्र
दीपे तु—जीवस्य ब्रह्मत्वे तस्य भूतत्वेन भूतेष्वित्युक्तं भूतस्थत्वं न