सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 20, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 20

श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. (१९)
अधि०। सूत्र०। विषयाः ।
नं, विशेषतस्तु मातापितृशरीरसम्बन्धं विनाऽपि
जननमस्तीति निरूपणम् ॥
——:*:——
तृतीयाध्यायस्य द्वितीयः पादः ।
१ १-४ यत्स्वप्ने दृश्यते तत्सत्यं, तत्कर्ता परमात्मेति, स्वाप्नि-
कपदार्थः जाग्रच्छुभाशुभसूचकः इति च निरूप-
णम् ॥
२ ५ स्वप्नपदार्थस्य अदर्शनमपि परमात्माधीनमेव इति
निरूपणम् ॥
३ ६ जाग्रदवस्था परमात्मनैव भवतीति निरूपणम् ॥
४ ७ नाडीस्थपरमात्मनि जीवस्य प्रवेशः सुषुप्तिरिति नि-
रूपणम् ॥
५ ८ ब्रह्मैव सुप्तपुरुषं प्रबोधयतीति निरूपणम् ॥
६ ९ सर्वेषां सर्वकालेष्वपि ब्रह्मैव स्वप्नादिकारणं इति नि-
रूपणम् ॥
७ १० जीवस्य परमात्मनि अर्धप्रवेशे मूर्च्छा संभवतीति निरू-
पणम् ॥
८ ११-१३ जाग्रत्स्वप्नसुषुप्तिषु प्रवर्तकः विश्वतैजसप्राज्ञरूपः प-
रमात्मा एक एवेति निरूपणम् ॥
९ १४-१७ परमात्मा प्राकृतरूपरहितः अप्राकृतज्ञानानन्दादिरूप-
वान् इति निरूपणम् ॥
१० १८ यथा सूर्यात् सूर्यप्रतिबिम्बः भिन्नः तथा जीवः परमा-
त्मनः अन्यः इति निरूपणम् ॥
११ १९ जीवः ज्ञानानन्दस्वरूपोऽपि तदभिव्यक्त्यर्थं भक्तिं कु-
र्यादिति निरूपणम् ॥
१२ २०-२१ साधनेषु न्यूनाधिकभावसत्त्वात् फलेऽपि न्यूनाधिक-
भावो वर्तते इति निरूपणम् ॥
१३ २२ परमात्मनः सृष्टिसंहारकर्तृत्वमात्रं नास्ति, किन्तु पा-
लनकर्तृत्वमपि अस्तीति निरूपणम् ॥
१४ २३-२७ परमात्मा अव्यक्तोऽपि स्वप्रसादात् व्यक्तो भवतीति
निरूपणम् ॥