पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 18, कुल 1267 में से
संदर्भ में पढ़ेंश्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( १७ )
अधि० । सूत्रं । विषयाः ।
६ ९-१० मुख्यप्राणजन्मविषयकश्रुतिविरोधस्य परिहारेण स्थू-
लरूपेण मुख्यप्राणः उत्पद्यते इति निरूपणम् ॥
७ ११-१२ मुख्यप्राणः स्वतन्त्रः मुख्यप्राणः परमात्माधीनः इत्ये-
तद्बोधकश्रुतिविरोधस्य परिहारेण परमात्माधीनः
इति निरूपणम् ॥
८ १३ प्राणादयः मुख्यप्राणस्य स्वरूपभूताः मुख्यप्राणस्य
दासाः इत्येतद्बोधकश्रुतिविरोधस्य परिहारेण दा-
सभूताः पञ्च, स्वरूपभूताः पञ्च इति निरूपणम् ॥
९ १४ मुख्यप्राणः व्याप्तः मुख्यप्राणः अणुः इत्येतद्बोधकशु-
तिविरोधस्य परिहारेण अन्तर्गतरूपेण अणुः बहि-
र्गतरूपेण व्याप्तः इति निरूपणम् ॥
१० १५-१७ प्राणाः जीवस्य करणानि ब्रह्मणः करणानि इत्येतद्बो-
धकश्रुतिविरोधस्य परिहारेण ब्रह्मणः करणानि इ-
ति निरूपणम् ॥
११ १८-२० सर्वे प्राणाः इन्द्रियाणि मुख्यप्राणादन्ये द्वादश प्राणाः
एव इन्द्रियाणि इत्येतद्बोधकश्रुतिविरोधस्य परि-
हारेण अन्ये एव इन्द्रियाणि इति निरूपणम् ॥
१२ २१ इन्द्रियाश्रयशरीरं परमात्मसृष्टं विरिञ्चसृष्टं इत्येतद्बो-
धकश्रुतिविरोधस्य परिहारेण परमात्मसृष्टमिति
निरूपणम् ॥
१३ २२-२३ इन्द्रियाश्रयशरीरं जलमात्रेण उत्पद्यते पृथिव्यादि-
भ्यः उत्पद्यते इत्येतद्बोधकश्रुतिविरोधस्य परिहा-
रेण पृथिव्यादिभ्यः इति निरूपणम् ॥
—-::-*—
तृतीयाध्यायस्य प्रथमः पादः ।
१ १ जीवस्य भूतसम्बन्धः देहनाशेऽपि न निवर्तते इति नि-
रूपणम् ॥
२ २ समस्तभूतविशिष्टस्य जीवस्य गमननिरूपणम् ॥
३ ३ भूतानां जीवेन सह गमननिरूपणम् ॥
४ ४ प्राणाः जीवेन सह आगतः गच्छन्तीति निरूपणम् ॥