सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 157, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 157

११० ब्रह्मसूत्रभाष्यम् [ अध्या - १. पा - १. ]
क ईयते बहुधेयते' 'स पुरुषः' 'स ईश्वरः स ब्रह्म'
स्य विष्णुवाचित्वाभ्युपगमः तदैव पदसमन्वयः । न त्वेकैकस्य वि-
ष्णुवाचित्व इति न विरोधः । तथा चान्तर्यामित्वनिमित्तेन तत्त्वमस्या-
दिवाक्यगतत्वमहमादिपदानां विष्णुवाचित्वे त्वं त्वदन्तर्यामी तत्
ब्रह्म । अहं मदन्तर्यामी ब्रह्मेति वाक्यान्वयो द्रष्टव्यः । न चैवं 'असि
अस्मि' इति क्रियापदान्वयायोगः । जीवविशिष्टान्तर्यामिवाचकस्य
त्वमादिशब्दस्य दग्धृशब्दस्यायसीवान्तर्यामिणि मुख्यवृत्तिः । जीवे
त्वमुख्यवृत्तिरित्याश्रयेणामुख्यार्थविवक्षया असि अस्मीत्यादिपदप्र-
योगोपपत्तेः । यद्यपि निमित्तकथनप्रकरणे 'विद्याऽऽत्मनि' 'भेददृष्ट्या'
'जुष्टं यदा' इति वाक्यत्रयस्यानन्वयाभावः । तथाऽपि स्वामित्वनिमि-
त्तेनैक्यव्यपदेश इत्यत्र श्रुतिस्मृत्योरुपन्यासे सति तत्र प्राप्तशङ्कापरि-
हारस्यावश्यकत्वेनावसरसङ्गत्त्या तद्वाक्यत्रयप्रवृत्तेः । 'इत्यादेः' इत्य-
स्यात्राकर्षणेन 'न विरोधः' इत्यस्यानुकर्षणेन चान्वयो द्रष्टव्यः । श्रु-
त्यर्थस्तु—विष्णुः 'असर्वोऽपि' सर्वानात्मकोऽपि 'सर्व इव' सर्वा-
त्मक इव सर्वात्मकत्वेन ईयते । कुत इत्यतस्तत्रान्तर्यामित्वं हेतुत्वेना-
भिप्रेत्य अनन्तर्यामित्वप्रतीत्या तस्यासिद्धिमाशङ्क्याह—आत्मैवेति ।
'आत्मैव' अन्तर्याम्येव सन् 'अनात्मेव' अनन्तर्यामित्वेन 'ईयते'
ज्ञायते रामकृष्णादिरूपेषु । तथा च अज्ञानमूला अनन्तर्यामित्वप्रती-
तिरिति भावः । ननु विष्णोरन्तर्यामित्वे प्रत्यक्त्वं स्यात्, तच्चानुपप-
न्नं, पराक्त्वेन प्रतीतेरित्यत आह—प्रत्यङिति । भगवान् 'प्रत्यङ्' दे-
हान्तर्गतोऽपि 'पराङिव' बहिर्मात्रवृत्तित्वेनेयते । तथा च बहिर्मात्र-
वृत्तित्वप्रतीतिर्भ्रान्तिरिति भावः । ननु विष्णौ विरुद्धानेकधर्माभ्युप-
गमे भेदापत्त्या 'एकमेव' इति श्रुतिविरोध इत्यत आह—एक इति ।
एक एव 'बहुधा' बहुरूपेणेयत इत्यर्थः । तथा चैकस्यैव रूपबाहु-
ल्यात् सर्वधर्मोपपत्तिरिति भावः । द्विर्ग्रहणात्सर्वत्र क्रियासम्बन्धः
सूचितः । तत्त्वप्रदीपे तु—"प्रत्यङ् पराङिव अभिमुखोऽप्यनभिमुख
इव एक एव बहुधेयते ज्ञायते प्राप्यते च" इत्युक्तम् । अन्तर्यामित्व-
निमित्तेन सर्वात्मकत्वेन व्यपदिश्यमानः किं सर्वज्ञः ? क च व्यपदि-
श्यत? इत्यत आह—स पुरुष इति । अनेन 'पुरुष एवेदं सर्वम्' ( तै.
आ. ३-१२. ) इति श्रुतिमुपादत्ते । सम्पूर्णषड्गुणत्वात् देहाख्यपुरे