पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 156, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - १७. ] दीपिकासहितम्. १०९
तशोकः' (मु. ३-१-२.)
( २९) 'असर्वः सर्व इवात्मैव सन्ननात्मैव प्रत्यङ्पराङिवै
व यदा पश्यति । 'पश्यो' जीवः तदा 'वीतशोको' मुक्तो भवतीत्यर्थः ।
तत्त्वप्रदीपे तु—'जुष्टं' देवैः 'अस्य' जीवस्य ईशं अन्यं यदा पश्य
ति 'महिमानं' महिमगुणात्मकं 'तदा' तदैव 'वीतशोको भवति' न
दुःखलेशमपि स्पृशति जीवः। न तु महिमगुणविहीनं अनन्यमनीशम
सेवितं पश्यन् वीतशोको भवतीति व्याख्यातम् । यद्यपीयं श्रुतिः
'विशेषणभेदव्यपदेशाभ्याम्' (ब्र. सू. १-२-२२.) इत्यत्र अयमन्यो
मार्ग इत्युक्ते प्रसिद्धमार्गादन्यत्वबोधवत् अन्यमीशमित्युक्ते ईशशब्दि
तस्य ब्रह्मणः प्रसिद्धेशाद्रुद्रात् अन्यत्वप्रतीतेर्ब्रह्मणो रुद्रादन्यत्वे
प्रमाणत्वेनोक्ता । न तु ब्रह्मणो जीवादन्यत्वे, नापि ईशत्वमन्यत्वे हेतू
कृतम् । तथाऽपि तत् व्याख्यानान्तरमभिप्रेत्येति न तद्विरोधः । अत
एव द्युभ्वाद्यधिकरणे 'भेदव्यपदेशात्' (ब्र.सू. १-३-५०) इत्यत्र जीवेशभेदे
ऽपीयं प्रमाणतयोदाहृता ॥
( २९) एवं स्वामित्वार्थतया पराभिमताद्वैतश्रुतीर्व्याख्याय वाक्य
समन्वयाश्रयणेन अन्तर्यामितयापि ताः श्रुतिस्मृतिभ्यां व्याचष्टे—अ
सर्व इति ॥ यद्यपि 'असर्वः' इति वाक्यं आत्मशब्दस्य स्वामित्वार्थ
त्वमुपेत्य स्वामित्वेन निमित्तेनैक्यश्रुतयः प्रवृत्ता इत्यत्र प्रमाणतयोदा
हृतम् । तथाऽपि स्वामित्वेनेवान्तर्यामितयाऽप्यैक्यश्रुतयः प्रवृत्ता इ
त्युभयत्राप्यस्य प्रमाणत्वसम्भवादुभयत्रापि प्रमाणतयोदाहरणं यु
क्तम् । तत्त्वप्रदीपकृतामपि स्वामित्वेनेवान्तर्यामितयाप्यैक्यश्रुतयः प्र
वृत्ता इत्युभयत्रापि 'असर्वः' इति श्रुतिः प्रमाणमित्यभिप्रायः । नचै
वं "तत्तदन्तर्यामित्वेनापि तत्तच्छब्दवाच्यत्वं विष्णोरस्तीत्याह—
सर्वान्तर्यामिकः" इति तत्त्वप्रदीपविरोधः; अत्र पदसमन्वयाभिप्रा
यप्रतीतेरिति वाच्यम् । अन्तर्यामित्वेनापीत्युक्त्या न केवलं 'नामा
नि' इति श्रुतिबलात्तत्तच्छब्दप्रवृत्तिनिमित्तत्वेन तत्तच्छब्दवाच्यत्वं
विष्णोः, अपि तु अन्तर्यामित्वेनापीत्येतावन्मात्रप्रतीतेः अत्र पदसम
न्वये तात्पर्यानवगमात् । महावाक्यगतस्यैतदादिशब्दस्यैकैकस्य 'स
र्वान्तर्यामिकः' इति स्मृतिबलात् अन्तर्यामित्वनिमित्तेन विष्णुवाचि
त्वेऽपि पदान्तराणामन्यपरत्वेन वाक्यसमन्वयस्यैव वक्तव्यत्वात् । य
द्वा 'नामानि' इति श्रुतिबलात् क्रियाकारकादिसर्वार्थवाचिसर्वपद