सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 151, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 151

सू— ॐ ॥ नेतरोऽनुपपत्तेः ॥ ॐ ॥ १६ ॥
न ह्यन्यज्ञानान्मोक्ष उपपद्यते । 'तमेवं विद्वानमृत
इह भवात् । नान्यः पन्था अयनाय विद्यते' ( तै.
आ. ३-१२-७. ) इति ह्युक्तम् ।
( २४ ) सू— ॐ ॥ भेदव्यपदेशाच्च ॥ ॐ ॥ १७ ॥
'ते ये शतं प्रजापतेरानन्दाः' ( तै. २-८. )
न्दमयादयो विरिञ्चादय एव सन्त्विति शङ्कां परिहरत्सूत्रमवतारय-
ति—न चेति ॥ चोऽवधारणे । विरिञ्चाद्य इत्यनेनान्वेति । तथा च
'उक्तप्राप्त्या' ब्रह्मशब्दशतानन्दत्वाष्टमूर्तित्वबहुभावादिरूपोक्तप्राप-
केनान्नमयादिशब्दैर्विरिञ्चादिरेवोच्यते । न विष्णुरिति न, किन्तु,
विष्णुरेव तैरूच्यते । न विरिञ्चादिरित्यर्थः । कुतो नेति हेत्वाकांक्षा-
यां सूत्रमुपन्यस्य प्रतिज्ञांशस्य न चेत्यादिभाष्येणैव व्याख्यातत्वा-
त्सौत्रमनन्यथासिद्धहेतुमेव व्याचष्टे—नेतर इति । हिशब्दो हेतौ ।
'अन्यज्ञानात्' विष्ण्वन्यविरिञ्चादिज्ञानात् । यद्यप्ययं नेतर इत्युक्त-
साध्ये न हेतुः । तथाऽपि तस्यानन्यथासिद्धत्वोपपादकत्वाद्धेतुत्वो-
क्तिः। अस्य हेतुवाक्यस्य अध्याहृतहेतुवाक्यद्वारा न चेति प्रतिज्ञाऽ-
न्वयः । अनेनानन्दमयादिः विष्णोरितरो विरिञ्चादिर्न, कुतः? 'ब्रह्म-
विदाप्नोति परम् ( तै. उ. २ - १ - १० ) .. सर्वे वै तेऽन्नमाप्नुवन्ति
( तै. उ. २ - २ - १. ) ..सर्वमेव त आयुर्यन्ति' ( तै. उ. २-३ - १०. )
इत्यादिना आनन्दमयादेर्मुक्तिहेतुज्ञानविषयत्वोक्तेः, तस्य चेतरत्र
'अनुपपत्तेः' अयोगादिति सूत्रार्थ उक्तो भवति । विष्णुज्ञानादेव मो-
क्षो नेतरज्ञानादित्येतत्कुत इत्यत आह—तमिति । 'हि' यस्मात् 'त-
मेवम्' इति श्रुत्या मोक्षस्य विष्णुज्ञानादन्य उपायो नास्तीत्युक्तम् ।
तस्माद्विष्णोरन्यज्ञानान्मोक्षो नोपपद्यत इत्यर्थः । श्रुत्यर्थस्तु प्रागे-
वोक्तः ॥
( २४ ) हेत्वन्तरेण ब्रह्मादीनामानन्दमयत्वं पराकुर्वत्सूत्रं पठित्वा
व्याचष्टे—भेदेति । अत्र पूर्वहेतुसमुच्चायकेन चशब्देनानन्दमयादिर्नै-
तर इति प्रतिज्ञावाक्यानुवृत्तेरपि सूचनात् । तद्विहाय सूत्रोक्तं भेद-
व्यपदेशं दर्शयति--ते ये शतमिति ॥ आदिशब्दः 'आनन्दाः' इत्यतः
परोऽपि योज्यः । तत्राद्येन 'ते ये शतं' इत्यस्य पूर्वोत्तरतैत्तिरीयवा-