पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 150, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - १५० ] दीपिकासहितम्. १०३
( २२ ) अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् ।
प्रोच्यते भगवान्विष्णुरैश्वर्यात् पुरुषोत्तमः ॥ इति
ब्रह्माण्डे पुराणे—
( २३ ) न चोक्तप्राप्त्या विरिञ्चादिरुच्यते ।
ह्यापरोक्षीकृत्य प्रत्यक्षतो निर्दिशतीति । तथा सति तेनापरोक्षीकृतप्रा
णमयादावपि तथा निर्देशप्रसङ्गात् । किञ्च—स्वस्यापरोक्षतो ज्ञातत्वे
न शब्दानपेक्षणात् उपदेश्यपुरुषाणां चापरोक्षायोग्यत्वान्निर्देशवैयर्थ्य
मित्यत आह— इदमिति । चोऽप्यर्थः । निर्देशो युज्यते इति शेषः । इ
दमित्येतदस्येत्यपि व्याख्येयम् । तथा च ‘अस्य’ अन्नमयभगवच्छि
रःपक्षादेः दृश्यमानप्रत्यक्षसिद्धदेहशिरःपक्षादौ वस्त्रवर्मान्तर्वर्तिजानु
वीरावयववत् ‘सन्निहितत्वात्’ सम्यङ्नियामकत्वेन स्थितत्वात् लक्षण
या ब्रह्मशिरसि इदमिति निर्देशो युज्यत इति योजना । लक्षणाबीजं
शक्यसम्बन्धं दर्शयितुं—दृश्यमानेति । तथा च वस्त्रप्रावृते वर्मान्तर्ग
ते वा जानुनीदं जान्विति व्यवहारवदयमपि व्यवहारो युज्यत एवेति
न तद्विरोध इति भावः ॥
( २२ ) नन्वन्नमयादीनां पञ्चानां ब्रह्मताऽनुपपन्ना ‘तस्माद्वा एतस्मा
दन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः’ ( तै.उ.२-२-२.) इति पर
स्परं भिन्नत्वेनोक्तत्वात् । एवमेकस्यैव ब्रह्मणो बहुरूपत्वात् न ‘एकमे
व’ इति श्रुतिविरोधः इत्यप्ययुक्तमप्रमितत्वादित्यत आह–अनन्य इति॥
अपिर्यद्यपीत्याद्यर्थे । तथाशब्दः समुच्चये । तथा च ‘पुरुषोत्तमो भग
वान् विष्णुः’ ‘अनन्योऽपि’ अभिन्नोऽपि अन्यो भिन्न इति शब्देन प्रोच्य
ते । तथा यद्यप्येकस्तथाऽपि बहुरूपवान् भवतीत्यर्थः । कथमित्यत उभ
यघटकमाह—ऐश्वर्यादिति । अचिन्त्यशक्तेरित्यर्थः । उपलक्षणमेतत् ।
अन्नमयादिपञ्चकोशगतान्यत्वान्तरत्वादयो धर्मास्तद्गतभगवद्रूपेषूप
चर्यन्त इत्यपि द्रष्टव्यम् । अत एव तृतीये ‘स्थानभेदादैश्वर्याच्च’ इति
भाष्ये स्थानभेदाश्च हेत्वन्तरमभिहितम् । तैत्तिरीयभाष्ये तु—भेदा
भावेऽपि सङ्ख्याविशेषयुक्तत्वादन्यत्वोक्तिरित्युक्तम् । ब्रह्माण्डे पुराणे
इत्यनन्तरं उक्तत्वान्न विरोध इत्यन्वयः ॥
( २३ ) ननु ब्रह्मशब्दस्य साधारणत्वात् तद्धेतुव्यपदेशश्च विष्णु
निष्ठतया स्पष्टमप्रतिभानात् मन्त्रवर्णसमाख्यायाश्च अन्यलिङ्गादिभ्यो
दुर्बलत्वेन सावकाशत्वात् अनन्यथासिद्धहेत्वन्तरस्य चाभावादान