सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 148, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 148

[ अधि - ६. सू - १५. ] दीपिकासहितम्. १०१
ऐश्वर्यान्न विरोधश्च चिन्त्यस्तस्मिन् जनार्दने ।
अतर्क्ये हि कुतस्तर्कस्त्वप्रमेये कुतः प्रमा ॥ इति बृहत्स-
हितायाम् ।
( २१ ) रसशब्देन विशेषणात्तत्तत्सारभूतं चिन्मात्रमेवोच्यते ।
नोरभेदेऽयमवयवी अयं अवयव इति भेदव्यवहारविरोधोऽपि नेत्य-
पि व्याख्येयम् । तत्र हेतुस्तु विशेषबलाच्छक्तिव्यक्तिभावादिति च-
शब्देन सूचितः । अत एव चशब्दोऽनुक्तसमुच्चयार्थः ऐश्वर्याद्धेत्यन्वे-
ति । किञ्च—किं तर्कोन्यप्रमाणेनावयविनोऽवयवत्वमवयवस्यावय-
वित्वं च विरुद्धम् ? उत अवयवी नावयवः अवयवित्वात् । अवय-
वो वा नावयवी अवयवत्वाल्लोकवदिति तर्कपदोक्तानुमानेन ? । ना-
द्योऽसिद्धत्वात् । न द्वितीय इत्याह—अतर्क्य इति । ‘हि’ यस्मादत