पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1135, कुल 1267 में से
संदर्भ में पढ़ें१०८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
(६) ब्रह्मवैवर्ते च---
स्वप्नस्थानां यथा भोगो विना देहेन युज्यते ।
एवं मुक्तावपि भवेद्विना देहेन भोजनम् ॥
स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् ।
स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कदा चन ॥ इति ॥ १४ ॥
पि भावात्सुतरां भोगोपपत्तिरिति भावेन सूत्रमुपन्यस्यति—भाव
इति ॥ अत्र भाव इत्यतः पूर्वं तन्वा इति विपरिणत्यान्वेति । सप्तम्यन्ता
द्वृतिः । तन्वभावेऽपि भोगोपपत्तेरिति हेतुरत्रापि सम्बध्यते । तथा
च ‘जाग्रद्वत्’ यथा जाग्रद्दशायां तनोर्भावे देहसत्त्वेऽपि भोगोपपत्तिस्त
था ‘तन्वभावे’ मुक्तावपि तनोर्भावेऽपि भोगोपपत्तेः न तदनुपपत्ति
रिति सूत्रार्थस्य स्मृत्यैवोक्तत्वान्न पृथगुक्तः। ननु देह सद्भावे भोगानु
पपत्तेरनापादितत्वान्न परिहारायेदं सूत्रं व्यर्थमिति चेन्न, अस्य सूत्र
स्य प्रदीपवदावेश इत्यत्र वक्ष्यमाणं यदुःखादिप्राप्तिरूपदूषणस्य निरा
करणं तत्प्रस्तावाय तत्प्रतियोगिप्रसञ्जकप्रतिपादनाय प्रवृत्तत्वेन सा
र्थकत्वात् ॥
(६) ननु सन्ध्यवत् जाग्रद्वद्भोग इव सुषुप्तथादिवद्भोगाभावोऽपि
किं न स्यादिति प्रतिदृष्टान्तस्यापि वक्तुं शक्यत्वात् । देहाभावे स्वप्न
वद्देहसद्भावे जाग्रद्वद्भोग इत्येतत्कुत इत्यतः पूर्वसूत्रसहितैतत्सूत्रार्थे
स्मृतिं चाह ब्रह्मवैवर्त चेति ॥ उक्तमिति शेषः । न केवलं सूत्रकृता
इदमुक्तमिति चशब्दार्थः । ‘स्वप्नस्थानां’ स्वप्नावस्थापन्नानां ‘देहे
न विना’ तदभिमानेन विनाऽपि । अनभिमानस्याऽपि भोगाभावापादक
त्वेनाभावसाम्यादेवमुक्तिः । ‘देहेन’ प्राकृतेन ‘भोजनं’ भोगः । युज्य
त इत्यनुषज्यते । ‘शरीराणि’ प्राकृतानि ‘कदा चन’ भोगानन्तर
काले । इतिशब्दस्य ब्रह्मवैवर्त इत्यनेनान्वयः । बृहद्भाष्यरीत्या तु सू
क्ष्मस्यैव स्वरूपदेहस्य मुक्तौ वृद्धयङ्गीकारेण भोगः । तदुक्तं बृहद्भाष्ये
षष्ठाध्याये—
अल्पं तेजस्तथैवाल्पं जीवरूपं हि संसृतौ ।
तथा च सुमहत्तेजः करोति भगवान् महत् ॥
अतो नवतरं चैतत् ब्रह्मादीनां करोत्यजः ॥ इति ॥
व्यासतीर्थैः अल्पं परिमाणवत भगवान् मुक्तौ रूपं सुमहत् तेजो मह