पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1134, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - १४. ] दीपिकासहितम्. १०८७
एवं मुक्तभोगो बाह्यशरीरकृतश्चिन्मात्रकृतश्च भवती
ति बादरायणो मन्यते ॥ १२ ॥
(४) उपपत्तिश्च -
सू- ॐ ॥ तन्वभावे सन्ध्यवदुपपत्तेः ॥ ॐ ॥ १३ ॥
सन्ध्यं स्वप्नः 'सन्ध्यं तृतीयं स्वप्नस्थानम्' (बृ. ६-
३-९.) इति श्रुतेः ॥ १३ ॥
(५) सू- ॐ ॥ भावे जाग्रद्वत् ॥ ॐ ॥ १४ ॥
यतस्तेषामिच्छाऽपि नास्ति तद्भोगस्याल्पीयस्त्वेन तदर्थं शरीरान्त
राक्षेपाभावात् । जैमिन्याचार्यस्तु कदाचिन्मुक्तस्यापि कस्य चिदुत्त
मस्य भोगार्थमिच्छया प्राकृतदेहस्यापि भावं मन्यते । सर्वेषामपि चि
दात्मकदेहेनैव भोगः, केषां चिदिच्छयैव बाह्यदेहेनापि । तत्रापि वि
शेषः - चिन्मात्रदेहेन भोगे बाह्यदेहापेक्षा नास्ति, बाह्यदेहेन भोगे तु
चिदात्मकदेहोऽधिष्ठानत्वेन अपेक्षित इति । यद्यपि चिद्देहेनैव समस्त
भोगो युज्यते, चिद्देहानां बहुरूपत्वात् । तथाऽपि वश्यप्रकृतीनां वैचि
त्र्यकौतुकवतां शरीरयोगेन च सुशक इति गुण एव । अतो मुनिमत
द्वयं साध्विति मुनिद्वयगुरवो मन्यन्त इति तत्त्वप्रदीपेऽभिहितः ॥
(४) ननु भवतु देहभावाभावयोरविरोधः । तथाऽपि कथं भोगो
पपत्तिः । देहसत्त्वे सदुःखादिः स्यात्, न चेद्भोगायोग इत्यनुपपत्तेरु
क्तत्वादित्यत आह - उपपत्तिश्चेति ॥ चोऽवधारणे । तथा च पक्षद्व
येऽपि भोगस्य युक्ततैवेत्यर्थः । कथमुपपत्तिरित्याशङ्कां परिहर्तुं देहा
भावे भोगोपपत्तिप्रतिपादनाय सूत्रं पठित्वा दुर्गमांशं सप्रमाणकं व्या
चष्टे - तन्विति । जाग्रत्सुषुप्तद्यपेक्षया तृतीयं स्वप्नावस्थाख्यं स्थानं
'सन्ध्यं' जाग्रत्सुषुप्तिसन्धौ भवमिति वाजसनेयश्रुत्यर्थः । अनेन सप्त
म्यर्थे वतिः । तन्वभाव इत्यावर्तते । भोगेत्युपस्कार्यम् । अत एवेत्यत
श्चोऽनुवर्तते, स च विपक्षव्यावृत्त्यर्थोऽप्यर्थश्च । तथा च न देहाभावे
भोगानुपपत्तिः । कुतः ? 'सन्ध्यवत्' यथा स्वप्नावस्थायां 'तन्वभा
वे' शरीराभावेऽपि तदभिमानाभावेऽपि भोगो दृष्टस्तथा 'तन्वभावे'
तद्दशायां मुक्तौ 'तन्वभावे' देहाभावेऽपि भोगोपपत्तिरिति सूत्रार्थ उ
क्तो भवति ॥
(५) देहसद्भावे तत्र तत्त्वप्रदीपरीत्या मिथ्याभिनिवेशरूपाभिमाना
भावेऽपि लक्ष्म्यादिसाधारणस्य स्वकीयत्वज्ञानमात्ररूपाऽभिमानस्या