सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1128, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1128

[ अधि - ५. सू - ७. ] दीपिकासहितम्. १०८१
(७) नारायणाध्यात्मे च—
मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः ।
चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् ॥
तदङ्गानुगृहीतैश्च स्वाङ्गैरेव प्रवर्त्तनम् ।
कुर्वन्ति भुञ्जते भोगान् तदन्तर्बहिरेव वा ॥
यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिताः ॥ इति ॥ ७ ॥
——
दात्मकदेहवान् व्यक्तो भवति । ‘अथ’ अनन्तरं ‘तेनैव रूपेण’ चि-
त्स्वरूपेणैवेन्द्रियेण ‘अभिपश्यति’ रूपादिकं ‘शृणोति’ शब्दान् ‘म-
नुते’ सामान्यतः स्वयोग्यं सर्वं ‘विजानाति’ विशेषतः । तां दशाम् ॥
(७) ननु देहभावाभावयोर्विरोधस्य कः परिहारो जात इत्यतो
जैमिनिमतं जडदेहाभावविषयम्, औडुलोमिमतं तु चितिमात्रदेहवि-
षयमितो न विरोध इत्याशयेन अविरोधप्रकारं अपिशब्दसूचितस्मृत्या
दर्शयति—नारायणेति ॥ ‘मर्त्यं’ विनाशिनं ‘चितिमात्रात्मदेहिनः’
केवलचिदात्मकस्वरूपदेहयुक्ताः । चस्समुच्चये । न त्वदेहिनो चिद्दे-
हिनोऽनिन्द्रियाश्चेत्येवार्थः । अव्ययं विष्णुं प्रविष्टा इति सायुज्यभाज
उच्यन्ते । अत एव ‘तदङ्गानुगृहीतैः’ भगवदङ्गानुगृहीतैरित्याद्युक्तिः।
‘स्वाङ्गैः’ स्वरूपकरचरणादिभिः । न तु भिन्नैः विष्ण्वीयैर्वेत्येवार्थः ।
‘प्रवर्त्तनं’ व्यापारं भुञ्जते चेति सम्बन्धः ‘भोगान्’ भोग्यान् ‘तद-
न्तः’ विष्णुदेहस्यान्तः बहिश्चेति सम्बन्धः । यथेष्टमेवेत्यन्वयः । ‘प-
रिवर्तन्ते’ सञ्चरन्ति ‘तस्य’ विष्णोः ‘अनुग्रहेरिताः’ प्रसादेन प्रेरि-
ताः तदिच्छया विषयीकृता इत्यर्थः । अनुग्रहैधिता इति पाठे तदभि-
वर्धिता इत्यर्थः । तस्यैवानुग्रहेरिता इत्यनेन ब्राह्मेणेति सूत्रखण्डस्य ब्र-
ह्मणः प्रसादेनेत्यप्यर्थः सूचितः, अत एव प्रमेयदीपे अनुभवशक्ति-
स्त्वीश्वरप्रसादादित्यत्र ब्राह्मेणेति सूत्रं प्रमाणीकृतम् । इति नारायणा-
ध्यात्म इत्यन्वयः ॥ ५ ॥
॥ इति ब्राह्माधिकरणम् ॥
—
-:-*-—
१३६