सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1122, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1122

[ अधि-४. सू-४. ] दीपिकासहितम्. १०७५
परंज्योतिश्शब्देन परमात्मैवोच्यते तत्प्रकरणत्वात् ।
( २ ) परंज्योतिः परंब्रह्म परमात्मादिका गिरः ।
सर्वत्र हरिमेवैकं ब्रूयुर्नान्यं कथं चन ॥
इति ब्रह्माण्डे ॥ ३ ॥
--
४. अधिकरणम् ॥
( १ ) सू-ॐ ॥ अविभागेन दृष्टत्वात् ॥ ॐ ॥ ४ ॥
ज्योतिरुपसंपद्य' (छा. ८-३-४.) इति श्रुत्युक्तं ज्योतिरादित्य एव 'स
तेजसि सूर्ये सम्पन्नः' ( प्रश्न. ५-५.) इति श्रुतौ ज्योतिश्शब्दपर्यायते
जश्शब्दस्य सूर्ये प्रयोगात्, तत्समाख्यानादिति पूर्वपक्षे सिद्धान्तय
त्सूत्रमुपन्यस्यति-आत्मेति ॥ अत्र आत्मेति प्रतिज्ञांशं सावधारणं
कृत्वा सोपस्करे व्याचष्टे-परमिति । 'सम्पद्य' इति गृहीतवाक्यस्थ
परंज्योतिश्शब्देनेत्यर्थः । यद्यपि पूर्वपक्षिणा परं ज्योतिरिति भिन्नप
दत्वाभिप्रायेण ज्योतिश्शब्द एवान्यपरतयाऽऽक्षिप्तः । तथाऽपि वस्तुतः
'परंज्योतिः परंब्रह्म' इति स्मृतिपर्यालोचनया परंज्योतिरित्स्यैक
पदत्वात्तस्यैवानुवादः कृतः । कुत इत्यतः प्रकरणादित्यंशं तच्छब्दा
न्वयेन व्याचष्टे-तदिति । अस्येत्यादावुपस्कार्यम् । तथा च 'अस्य'
परंज्योतिश्शब्दस्य 'तत्प्रकरणत्वात्' परमात्मप्रकरणपठितत्वादि
त्यर्थः । 'य आत्मा अपहतपाप्मा' इति परमात्मन एवात्र उपक्रम्याधी
तत्वेनैतद्वाक्यजातस्य तत्प्रकरणत्वात्समाख्यायाश्च प्रकरणात् दुर्ब
लत्वादिति भावः ॥
( २ ) नन्वस्य परमात्मप्रकरणत्वेऽपि सावित्रप्रकरणे 'ह्वयाम्यग्नि
म' (ऋ. १-३५-१०) इत्यन्यपरोक्तिवत्प्रसङ्गादादित्योक्तिः किं न स्यादित्य
त आह-परंज्योतिरिति ॥ परंज्योतिरित्थेकं पदम् । एवं परंब्रह्मेत्यपि ।
आदिपदेन परमक्षरमित्यादिकं गृह्यते । 'गिरो' वाचः । 'सर्वत्र' सर्वा
गमेषु स्थिताः 'एकं' मुख्यं वाच्यम् । एवेत्यस्य विवरणं-नान्यमिति ।
'कथं चन' केनापि निमित्तेन । ब्रह्माण्ड इत्यनन्तरं उक्तत्वाद्वेति शेषः ।
अस्य परंज्योतिश्शब्देनेत्यादिनान्वयः ॥ ३ ॥
॥ इति आत्माधिकरणम् ॥
-
-
४. अधिकरणम् ॥
( १ ) अत्राधिकरणे सायुज्यभाजां भगवद्भुक्तभोगभोक्तृत्वं समर्थ्य