पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1121, कुल 1267 में से
संदर्भ में पढ़ें१०७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
मते न च तत्र मोदते न प्रमोदते न कामाननुभवति
बद्धो ह्येष तदा भवत्यथ यदैनं मुक्तोऽनुप्रविशति मो
दते च प्रमोदते च कामांश्चैवानुभवति' इति बृहच्छ्रु
तौ प्रतिज्ञानात् ॥ २ ॥
—*—
३. अधिकरणम् ॥
( १ ) सू—ॐ ॥ आत्मा प्रकरणात् ॥ ॐ ॥ ३ ॥
भोग इति शेषः । तथा च यतो मुक्तजन एवोपपन्नोऽन्यत्रानुपपन्नः
. स्त्रयादिदिव्यभोगोऽत्रोच्यतेऽतो मुक्त एवात्रोच्यत इति योजना । ननु
ब्रह्म प्राप्य अमुक्तस्याप्यसौ भोग उपपद्यत इत्यस्योत्तरत्वेन प्रतिज्ञा
नादितिहेतुं व्याचष्टे—अहरिति । मुक्त इत्येतत् षष्ठ्यन्ततया विपरि
णतमेवशब्दशिरस्कमिहानुवर्तते । तत्र तया तस्येति शेषः । तथा च
‘अहरहरेनम’ इति श्रुतौ सुप्तौ परमात्मानं प्राप्तस्याप्यमुक्तस्य दि
व्यभोगाभावमुक्त्वा मुक्तस्यैव परमात्मादिप्राप्त्या दिव्यभोगानुभवप्र
तिपादनादित्यर्थः । अत्र तत्त्वप्रदीपे मुक्तस्य कामानुभवप्रतिज्ञानादि
ति सौत्रहेतुनैव सिद्धान्तः कृतः । तत्पक्षे बृहच्छ्रुतावुत्तरांशस्य सा
क्षादुपयोगः । टीकाकृता त्वध्याहृतहेतुना सिद्धान्तः कृतः । तत्पक्षे पू
र्वांशस्य साक्षादुपयोग इति ध्येयम् । श्रुत्यर्थस्तु—‘अहरहः' प्रतिदि
नं ‘एनं' परमात्मानं ‘उपसङ्क्रमे' सुप्तौ प्रविशति जीवः । उपस
ङ्क्रमत इति पाठे प्राप्नोति च सुप्तौ जीव इत्यर्थः । ‘तत्र’ सुप्तौ । मो
दप्रमोदशब्दार्थः पूर्ववत् । 'कामान्' कामितान् अनुभवति न तानेव
भुङ्क्ते ‘हि' यतः ‘एषः' जीवः 'तदा' सुप्तौ । न चास्य वाक्यस्यैता
वन्तं कालमित्यनुस्मृतिविरोधशङ्क्यः । सौषुप्तिकेतरदिव्यभोगाभा
वस्यात्रोक्तेः । 'अथ' देहनाशानन्तरं 'यदा' काले च मुक्तः ‘एनं'
ईश्वरमनुप्रविशति तदा मोदते प्रमोदते कामितानेवानुभवति । नेतरा
न् कामाननुभवत्येव चेत्यर्थः । चौ परस्परसमुच्चये । द्विरुक्तिस्तात्प
र्यार्था ॥ २ ॥
॥ इति मुक्ताधिकरणम् ॥
—: ❖ :—
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे मुक्तप्राप्यस्य ज्योतिषो ब्रह्मत्वं साध्यते। ‘परं